विष्णुधर्मोत्तरपुराणम् · अध्याय 1.102
मार्कण्डेय उवाच ॥
ध्रुवा द्यौरिति मन्त्रेण होमः कार्यो ध्रुवस्य तु ॥
ऊर्ध्वो अधर इत्येव ध्रुवायाश्च दिशो भवेत्
ब्रह्मयज्ञानमित्येष ब्रह्मणः परिकीर्तितः ॥
द्यौस्त्वा इति च मन्त्रेण दिवः कार्यो महीपते
पृथिवी दिवि चेत्येव पृथिव्याः परिकीर्तितः ॥
प्रणवेन च शेषस्य चाधस्ताच्च तथा दिशः
अग्निर्मूर्धेति मन्त्रोऽयमग्नये परिकीर्तितः ॥
उदुत्तमं वरुणपाशं मन्त्रोयं वरुणस्य तु
प्रणवश्च कुमारस्य तद्विष्णोर्विष्णवे भवेत् ॥
त्रातारमिन्द्रं शक्रस्य देव्याश्च प्रणवो भवेत्
प्रजापते न त्वदेता मन्त्रोऽयं स्यात्प्रजापतेः ॥
विनायकाय प्रणवो विश्वकर्मेति चाप्यथ
मन्त्रश्च कथितो राजन्सततं विश्वकर्मणः ॥
आकृष्णेति च मन्त्रोऽयमादित्यस्य प्रकीर्तितः
इमं देवेति सोमस्य अग्निर्मूर्धा कुजस्य तु ॥
उद्बुध्यस्वा बुधस्यापि मन्त्रः प्रोक्तो नरेश्वर
बृहस्पते अति यदर्यो मन्त्र उक्तो बृहस्पतेः ॥
अन्नात्परिस्रुतेत्येवं मन्त्रः शुक्रस्य कीर्तितः
शन्नोदेवीति सौरस्य काण्डात्काण्डेति राहवे ॥
केतुं कृण्वन्निति तथा मन्त्र उक्तश्च केतवे
अग्निर्मूर्द्धा कृत्तिकानां रोहिणीनां प्रजापते ॥
मधुव्वातेति मन्त्रोऽयमिल्वलानां प्रकीर्तितः
मृडनो रुद्रमार्द्रायाः सुत्रामाणं पुनर्वसोः ॥
तव श्रियेति पुष्यस्य होममन्त्रो विधीयते
नमोऽस्तु सर्पेभ्यश्चेति मन्त्रः सार्पस्य कीर्तितः ॥
अहं पितॄनिति तथा मन्त्रः पित्र्यस्य कीर्तितः
सदासुगेति भाग्यस्य तथा मन्त्रः प्रकीर्तितः ॥
एते अर्य्यमन्नित्येवमार्यम्णस्य च निर्दिशेत्
सावित्रस्य च सावित्री त्वाष्ट्रस्य य इमे तथा॥
वायुरग्रेति च तथा वायव्यस्य नराधिप
इन्द्राग्नी रोचनेत्येवमिन्द्राग्नस्य प्रकीर्तितः
मित्रोजनेति मैत्रस्य होममन्त्रः प्रकीर्तितः ॥
इन्द्रः सुत्राम इति च शाक्रस्य वसुधाधिप
यन्ते देवीति निरृतिं मूलस्य च तथा भवेत् ॥
शन्न आपस्तथाप्यस्य होममन्त्रः प्रकीर्तितः
विश्वेदेवीति वैश्वस्य तथा च वसुधाधिप ॥
ब्रह्मयज्ञानमित्येवं तथा ब्राह्मस्य निर्दिशेत्
वषट्ते विष्ण इत्येवं वैष्णवस्य तथा भवेत् ॥
आमे ग्रहा भवत्येवं वासवस्य प्रकीर्तितः
इमं मे वरुणेत्येवं वारुणस्य तथा भवेत् ॥
उपप्रागेतिमन्त्रेण होममाजस्य कारयेत्
मन्त्रश्चाहिरिवेत्येवमाहिर्बुध्न्यस्य कीर्तितः ॥
प्रयादमिति मन्त्रेण अश्विनस्य प्रकीर्तितः
यमो दाधार पृथिवीं तथा याम्यस्य कीर्तितम् ॥
नक्षत्रदेवताहोमे मन्त्रा एते प्रकीर्तिताः
नक्षत्रदेवता तुल्या दिगीशानां तथैव च ॥
प्रणवेन दिशः कार्यस्तथा वैश्रवणस्य च
सागराणां च राजेन्द्र पृथगेव विजानता ॥
एकचक्रेति वा द्व्यर्चं ग्रहाणां च नराधिप
समाग्नेति तथा द्व्यर्च नक्षत्राणां विधीयते
एतावदुक्तो नृपवर्य तुभ्यं होमाश्रयो मन्त्रगणो ग्रहाणाम् ॥
हुतेन येनानघमानवानां कामानभीष्टान्प्रदिशन्ति लोके
इति श्रीविष्णुधर्म्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे होममन्त्राध्यायो नाम द्व्यधिकशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0