विष्णु पुराण · अध्याय 6.7
इति श्रीविष्णुमहापुराणे षष्ठांशे षष्ठोध्यायः (6)
केशिध्वज उवाच
न प्रार्थितं त्वया कस्मादस्मद्राज्यमकण्टकम् ।
राज्यलाभाद्विना नान्यत्क्षत्रियाणा मतिप्रियम्
खाण्डिक्य उवाच
केशिध्वज निबोध त्वं मया न प्रार्थितं यतः ।
राज्यमेतदशेषं ते यत्र गृध्नन्त्यपण्डिताः
क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम् ।
वधश् च धर्मयुद्धेन स्वराज्यपरिपन्थिनाम्
तत्राशक्तस्य मे दोषो नैवास्त्यपहृते त्वया ।
बन्धायैव भवत्येषा ह्यविद्याप्यक्रमोज्झिता
अल्पोपभोगलिप्सार्थम् इयं राज्यस्पृहा मम ।
अन्येषां दोषज सैव धर्मं वै नानुरुध्यते
न याच्ञा क्षत्रबन्धूनां धर्मयैतत्सतां मतम् ।
अतो न याचितं राज्यमविद्यान्तर्गतं तव
राज्ये गृध्नन्त्यविद्वांसो ममत्वाहृतचेतसः ।
अहंमानमहापानमदमत्ता न मादृशाः
श्रीपराशर उवाच
प्रहृष्टःसाध्विति ततः प्राह केशिध्वजो नृपः ।
खाण्डिक्यजनकं प्रीत्या श्रूयतां वचनं मम
केशिध्वज उवाच
अहं ह्यविद्यया कृत्युं तर्तुकामः करोमि वै ।
राज्यं यागांश् च विविधान्योगैः पुण्यक्षयं तथा
तदिदं ते मनो दिष्ट्या विवेकैश्वर्यतां गतम् ।
तच्छ्रूयतामविद्यायाःस्वरूपं कुलनन्दन
अनात्मन्यात्मबुद्धिर्या चास्वे स्वमिति या मतिः ।
संसारतरुसंभूतिबीजमेतद्द्विधा स्थितम्
पञ्चभूतात्मके देहे देही मोहतमोवृतः ।
अहं ममैतदित्युच्चैः कुरुते कुमतिर्मतिम्
आकाशवाय्वग्निजलपृथिवीभ्यः पृथक् स्थिते ।
आत्मन्यात्ममयं भावं कः करोति कलेवरे
कलेवरोपभोग्यंहि गृहक्षेत्रादिकं च कः ।
अदेहे ह्यात्मनि प्राज्ञे ममेदमिति मन्यते
इत्थं च पुत्त्रपौत्त्रेषु तद्देहोत्पादितेषु कः ।
करोति पण्डितःस्वाम्यमनात्मनि कलेवरे
सर्वं देहोपभोगाय कुरुते कर्म मानवः ।
देहश्चान्यो यदा पुंसस्तदा बन्धाय तत्परम्
मृण्मयं हि यथा गेहं लिप्यते वै मृदंभसा ।
पार्थिवो ऽयं तथा देहो मृदंब्वालेपनस्थितः
पञ्जभूतत्मकैर् भोगोः पञ्चभूतात्मकं वपुः ।
आप्यायते यदि ततः पुंसो भोगो ऽत्र किं कृतः
अनेकजन्मसाहस्रीं संसारपदवीं व्रजन् ।
मोहश्रमं प्रयातो ऽसौ वासनरेमुकुण्ठितः
प्रक्षाल्यते यदा सोस्य रेणुज्ञानोष्णवारिणा ।
तदा संसारपान्थस्य याति मोहश्रमः शमम्
मोहश्रमे शमं याते स्वस्थान्तःकरणः पुमान् ।
अनन्यातिशयाबाधं परं निर्वाणमृच्छति
निर्वाणमय एवायम् आत्मा ज्ञानमयो ऽमलः ।
दुःखाज्ञानमया धर्माः प्रकृतेस् ते तु नात्मनः
जलस्य नाग्निसंसर्गस्थालीसंगात्तथापि हि ।
शब्दोद्रेकादिकान्धर्मांस्तत्करोति यथा नृप
तथात्मा प्रकृतेःसंगादहंमानादिदूषितः ।
भजते प्राकृतान् धर्मान् अन्यस् तेभ्यो हि सो ऽव्ययः
तदेतत्कथितं बीजमविद्याया मया तव ।
क्लेशानां च क्षयकरं योगादन्यन्न विद्यते
खाण्डिक्य उवाच
तं ब्रवीहि महाभाग योगं योगविदुत्तम ।
विज्ञातयोगशास्त्रार्थस्त्वमस्यां निमिसंततौ
केशिध्वज उवाच
योगस्वरूपं खाण्डिक्य श्रूयतां गदतो मम ।
यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धाय विषयासंगि मुक्त्यै निर्विषयं मनः
विषयेभ्यः समाहृत्य विज्ञानात्मामनो मुनिः ।
चिन्तयेन्मुक्तये तेन ब्रह्मभूतं परेश्वरम्
आत्मभावं नयत्येनं तद्बह्य ध्यायिनं मुनिम् ।
विकार्यमात्मनः शक्त्या लोहमाकर्षको यथा
आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः ।
तस्य ब्रह्मणि संयोगो योग इत्यभिधीयते
एवमत्यन्तवैशिष्ट्ययुक्तधर्मोपलक्षणः ।
यस्य योगःस वै योगी मुमुक्षुरभिधीयते
योगयुक् प्रथमं योगी युञ्जानो ह्यभिधीयते ।
विनिष्पन्नसमाधिस्तु परं ब्रह्मोपलब्धिमान्
यद्यन्तरायदोषेण दूष्यते चास्य मानसम् ।
जन्मान्तरैर् अभ्यसतो मुक्तिः पुर्वस्य जायते
विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि ।
प्राप्नोति योगी योगाग्निदग्धकर्मचयो ऽचिरात्
ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान् ।
सेवेत योगी निष्कामो योग्यतां स्वमनो नयन्
स्वाध्यायशौचसंतोषतपांसि नियतात्मवान् ।
कुर्वीत ब्रह्मणि तथा परस्मिन्प्रवणंमनः
एते यमाःसनियमाः पञ्च पञ्च च कीर्तिताः ।
विशिष्टफलदाः काम्या निष्कामानां विमुक्तिदाः
एकं भद्रासनादीनां समास्थाय गुणैर् युतः ।
यमाख्यैर् नियमाख्यैश् च युञ्जीत नियतो यतिः
प्राणाख्यमनिलं वश्यमभ्यासात्कुरुते तु यत् ।
प्राणायामःसविज्ञेयःसबीजो ऽबीज एव च
परस्परेणाभिभवं प्राणापानौ यथानिलौ ।
कुरुतःसद्विधानेन तृतीयःसंयमात्तयोः
तस्य चालंबनवतः स्थूलरूपं द्विजोत्तम ।
आलंबनमनन्तस्य योगिनो ऽभ्यसतः स्मृतम्
शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् ।
कुर्याच्चित्तानुकारीणि प्रत्याहारपरायणः
वश्यता परमा तेन जायतेति चलात्मनाम् ।
इन्द्रियाणामवश्यैस् तैर् न योगी योगसाधकः
प्राणयामेन पवने प्रत्याहारेण चेन्द्रिये ।
वशीकृते ततः कुर्यात्स्थितं चेतः शुभाश्रये
खाडिक्य उवाच
कथ्यतां मे महाभागा चेतसो यः शुभाश्रयः ।
यदाधारमशेषं तद्धन्ति दोषमलोद्भवम्
केशिध्वाज उवाच
आश्रयश्चेतसो ब्रह्म द्विधा तच्चस्वभावतः ।
भूप मूर्तममूर्तं च परं चापरमेव च
त्रिविधा भावना भूप विश्वमेतन्निबोधताम् ।
ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका
कर्मभावात्मिका ह्येकाब्रह्मभावात्मिका परा ।
उभयात्मिका तथैवान्या त्रिविधा भावभावना
सनन्दनादयो ये तु ब्रह्मभावनया युताः ।
कर्मभावनया चान्ये देवाद्याः स्थावरावराः
हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिका द्विधा ।
बोधाधिकारयुक्तेषु विद्यते भावभावना
अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु ।
विश्वमेतत्परं चान्यद्भेदभिन्नदृशां नृणाम्
प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् ।
वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम्
तच्च विष्णोः परं रूपमरूपाख्यमनुत्तमम् ।
विश्वस्वरूपवैरूप्यलक्षणं परमात्मनः
न तद्योगयुजा शक्यं नृप चिन्तयितुंयतः ।
ततःस्थूलं हरे रूपं चिन्तयेद्विश्वगोचरम्
हिरण्यगर्भो भगवान्वासुदेवः प्रजापतिः ।
मरुतो वसवो रुद्रा भास्करास्तारका ग्रहाः
गन्धर्वयक्षदैत्याद्यःसकला देवयोनयः ।
मनुष्याः पशवः शैलाःसमुद्राःसरितो द्रुमाः
भूप भूतान्यशेषाणि भूतानां ये च हेतवः ।
प्रधानादिविशेषान्तं चेतनाचेतनात्मकम्
एकपादं द्विपादं च बहुपादमपादकम् ।
मूर्तमेतद्धरे रूपं भावनात्रितयात्मकम्
एतत्सर्वमिदं विश्वं जगदेतच्चराचरम् ।
परब्रह्मस्वरूपस्य विष्णोः शक्तिसमन्वितम्
विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा ।
अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते
यया क्षेत्रज्ञशक्तिःसा वेष्टिता नृपसर्वगा ।
संसारतापानखिलानवाप्रोत्यतिसंततान्
तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता ।
सर्वभूतेषु भूपाल तारतम्येनलक्ष्यते
अप्राणवत्सुस्वल्पा सा स्थावरेषु ततो ऽधिका ।
सरीसृपेषु तेभ्योपि ह्यतिशक्त्या पतत्त्रिषु
पातत्त्रिंभ्यो मृगास्तेभ्यस्तच्छक्त्या पशवो ऽधिकाः ।
पशुभ्यो मनुजाश्चातिशक्त्या पुंसः प्रभाविताः
तेभ्योपि नागगन्धर्वयक्षाद्या देवता नृप
शक्रःसमस्तदेवेभ्यस्ततश्चातिप्रजापतिः ।
हिरण्यगर्भो ऽपि ततः पुंसः शक्त्युपलक्षितः
एतान्यशेषरूपाणि तस्य रूपाणि पार्थिव ।
यतस्तच्छक्तियोगेन युक्तानि नभसा यथा
द्वितीयं विष्णुसंज्ञस्य योगिध्येयं महामते ।
अमूर्तं ब्रह्मणो रूपं यत् सद् इत्यु च्यते बुधैः
समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः ।
तद्विश्वरूपवैरूप्यं रूपम् अन्यद् धरेर् महत्
समस्तशक्तिरूपाणि तत्करोति जनेश्वर ।
देवतिर्यङ्मनुष्यादिचेष्टावन्ति स्वलीलया
जगतामुपकाराय न सा कर्मनिमित्तजा ।
चेष्टा तस्याप्रमेयस्य व्यापिन्यव्याहतात्मिका
तद्रूपं विश्वरूपस्य तस्य योगयुजा नृप ।
चिन्त्यमात्मविशुद्ध्यर्थं सर्वकिल्बिषनाशनम्
यथाग्निरुद्धतशिखः कक्षं दहति सानिलः ।
तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम्
तस्मात्समस्तशक्तीनामाधारे तत्र चेतसः ।
कुर्वीत संस्थितिं सा तु विज्ञेया शुद्धधारणा
शुभाश्रयस्य चित्तस्य सर्वगस्याचलात्मनः ।
त्रिभावभाघनातीतो मुक्तये योगिनो नृप
अन्ये तु पुरुषव्याघ्र चेतसो ये व्यापाश्रयाः ।
अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः
मूर्तं भगवतो रूपं सर्वापाश्रयनिस्पृहम् ।
एषा वै धारण प्रोक्ता यच्चित्तं तत्र धार्यते
यच्च मूर्तं हरे रूपं यादृक्चिन्त्यं नराधिप ।
तच्छ्रूयतामनाधारा धारमा नोपपद्यते
प्रसन्नवदनं चारुपद्मपत्रोपमेक्षणम् ।
सुकपोलं सुविस्तीर्णललाटफलकोज्ज्वलम्
समकर्णान्तविन्यस्तचारुकुण्डलभूषणम् ।
कंबुग्रीवं सुवीस्तीर्णश्रीवत्सांकितवक्षसम्
वलित्रिभङ्गिना मग्ननाभिना ह्युदरेण च ।
प्रलंबाष्टभुजं विष्णुमथवापि चतुर्भुजम्
समस्थितोरुजङ्घं च सुस्थिताङ्घ्रिवरांबुजम् ।
चिन्तयेद्ब्रह्मभूतं तं पीतनिर्मलवाससम्
किरीटहारकेयूरकटकादिविभूषितम्
शार्ङ्गशङ्खगदाखड्गचक्राक्षवलयान्वितम् ।
वरदाभयहस्तं च मुद्रिकारत्नभूषितम्
चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् ।
तावद्यावदृढीभूता तत्रैव नृप धारणा
व्रजतस्तिष्ठतोन्यद्वा स्वेच्छया कर्म कुर्वतः ।
नापयाति यदा चित्तत्सिद्धां मन्येत तां तदा
ततः शङ्खगदाचक्रशर्ङ्गीदिरहितं बुधः ।
चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकम्
सा यदा धारणा तद्वदवस्थानवती ततः ।
किरिटकेयूरमुखैर् भूषणै रहितं स्मरेत्
तदेकावयवं देवं चेतसा हि पुनर्बुधः ।
कुर्यात्ततो ऽवयविनि प्रणिधानपरो भवेत्
तद्रूपप्रत्यया चैका संततिश्चान्यनिःस्पृहा ।
तद्ध्यानं प्रथमैर् अङ्गैः षड्भिर् निष्पाद्यते नृप
तस्यैव कल्पनाहीनं स्वरूपग्रहणं हियत् ।
मनसा ध्याननिष्पाद्यं समाधिःसो ऽभिधीयते
विज्ञानं प्रापकं प्राप्ये परे ब्रह्मणि पार्थिव ।
प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः
क्षेत्रज्ञः करणी ज्ञानं करणं तस्य तेन तत् ।
निष्पाद्य मुक्तिकार्यं वै कृतकृत्यं निवर्तते
तद्भावभावमापन्नस्ततो ऽसौ परमात्मना ।
भवत्यभेदी भेदश् च तस्याज्ञानकृतो भवेत्
विभेदजनके ज्ञाने नाशमात्यन्तिकं गते ।
आत्मनो ब्रह्मणो भेदम संतं कः करीष्यति
इत्युक्तस्ते मया योगः खाण्डिक्य परिपृच्छतः ।
संक्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव
खाण्डिक्य उवाच
कथिते योगसद्भावे सर्वमेव कृतं मम ।
तवोपदेशेनाशेषो नष्टश्चित्तमलो यतः
ममेति यन्मया चोक्तमसदेतन्न चान्यथा ।
नरेद्र गदितुं शक्यमपि विज्ञेयवेदिभिः
अहं ममेत्यविद्येयं व्यवहारस्तथानयोः ।
परमार्थस्त्वसंलापो गोचरे वचसां न यः
तद्गच्छ श्रेयसे सर्वं ममैतद्भवता कृतम् ।
यद्विमुक्तिप्रदो योगः प्रोक्तः केशिध्वजाव्ययः
श्रीपराशर उवाच
यथार्हं पूजया तेन खाण्डिक्येन स पूजितः ।
आजगाम पुरं ब्रह्मंस्ततः केशिध्वजो नृपः
खाण्डिक्यो ऽपि सुतं कृत्वा राजानं योगसिद्दये ।
वनं जगाम गोविन्दे विनिवेशितमानसः
तत्रैकान्तमतिर्भूत्वा यमादिगुणसंयुतः ।
विष्ण्वाख्ये निर्मले ब्रह्मण्य् अवाप नृपतिर् लयम्
केशिध्वजो विमुक्त्यर्थं स्वकर्मक्षपणोन्मुखः ।
बुभुजे विषयान्कर्म चक्रे चानभिसंहितम्
अकल्याणोपभोगैश् च क्षीणपापो ऽमलस् तथा ।
अवाप सिद्धिमत्यन्तां तापक्षयफलां द्विज
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0