भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 6.6

6.6.1

इति श्रीविष्णुमहापुराणे षष्ठांशे पञ्चमो ऽध्यायः (5)
श्रीपराशर उवाच
स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः ।
तत्प्राप्तिकारणं ब्रह्म तद् एतद् इति पठ्यते

6.6.2

स्वाध्यायाध्योगमासीत योगात्स्वाध्यायमावसेत् ।
स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते

6.6.3

तदीक्षणाय स्वाध्यायश्चक्षुर्योगस् तथा परम् ।
न मां स चक्षुषा द्रष्टुं ब्रह्मभूतःस शक्यते

6.6.4

मैत्रेय उवाच
भगवंस्तमहं योगं ज्ञातुमिच्छामि तं वद ।
ज्ञाते यत्राखिलाधारं पश्येयं परमेश्वरम्

6.6.5

श्रीपराशर उवाच
यथा केशिध्वजः प्राह खाण्डिक्याय महात्मने ।
नजकाय पुरा योग तमहं कथयामि ते

6.6.6

मैत्रेय उवाच
खाण्डिक्य को ऽभवद्ब्रह्मन्को वा केशिध्वजः कृती ।
कथं तयोश् च संवादो योगसंबन्धकारणात्

6.6.7

श्रीपराशर उवाच
धर्मध्वजो वै जनक स्तस्य पुत्रो ऽमितध्वजः ।
कृतध्वजश् च नाम्नासीत्सदाध्यात्मरतिर्नृपः

6.6.8

कृतध्वजस्य पुत्रो ऽभूत्ख्यातः केशिध्वजो नृपः ।
पुत्रोमितध्वजस्यापि खाण्डिक्यजनको ऽभवत्

6.6.9

कर्ममार्गेण खाण्डिक्यः पृतिव्यामभवत्पतिः ।
केशिध्वजो ऽप्यतीवासीदात्मविद्याविशारदः

6.6.10

तावुभावपि चैवास्तां विजिगीषू परस्परम् ।
केशिध्यजेन खाण्डिक्यःस्वराज्यादवरोपितः

6.6.11

पुरोधसा मन्त्रिभिश् च समवेतो ऽल्पसाधनः ।
राज्यान्निराकृतःसो ऽथ दुर्गारण्यचरो ऽभवत्

6.6.12

इयाह सो ऽपि सुबहून्यज्ञाञ्ज्ञानव्यपाश्रयः ।
ब्रह्मविद्यामधिष्ठाय तर्त्तु मृत्युमविद्यया

6.6.13

एकदा वर्त्तमानस्य यागो योगविदां वर ।
घर्मधेनुं जघानोग्रः शार्दुलो विजने वने

6.6.14

ततो राजा हतां श्रुत्वा धनुं व्याघ्रेण चर्त्विजः ।
प्रायश्चितं स पप्रच्छ किमत्रेति विधीयताम्

6.6.15

तेप्यूचुर्न वयं विद्म कशेरुः पृच्छतामिति ।
कशेरुरपि तेनोक्तस्तथैव प्राह भार्गवम्

6.6.16

शुनकं पृच्छ राजैन्द्र नाहं वेद्मि स वेत्स्यति ।
स गत्वा कमपृच्छच्च सो ऽप्य् आह शृणु यन्मुने

6.6.17

न केशरुर्न चैवाहं न चैकःसांप्रतं भुवि ।
वेत्त्येक एव त्वच्छत्रुः खाण्डिक्यो यो जितस्त्वया

6.6.18

स चाह तं व्रजाम्येष प्रष्टुमात्मरीपुं मुने ।
प्राप्त एव महायज्ञो यदि मां स हनिष्यति

6.6.19

प्रायश्चित्तमशेषेण स चेत्पृष्टो वदिष्यति ।
ततश्चाविकलो योगो मुनिश्रेष्ठ भविष्यति

6.6.20

श्रीपराशर उवाच
इत्युक्त्वा रथमारुह्य कृष्णाजिनधरो नृपः ।
वनं जगाम यत्रास्ते स खाण्डिक्यो महामतिः

6.6.21

तमापतन्तमालोक्य खाण्डिक्यो रिपुमात्मनः ।
प्रोवाच क्रोधताम्राक्षःसमारोपितकार्मुकः

6.6.22

खाण्डिक्य उवाच
कृष्णाजिनं त्वं कवचमाबध्यास्मान्हनिष्यसि ।
कृष्णाजिनधरे वेत्सि न मयि प्रहरिष्यति

6.6.23

मृगाणां वद पृष्ठेषु मूढ कृष्णाजिनं न किम् ।
येषां मया त्वाय चोग्राः प्रहिताः शितसायकाः

6.6.24

स त्वामहं हनिष्यामि न मे जीवन्विमोक्ष्यसे ।
आतताय्यसि दुर्बुद्धे मम राज्यहरो रिपुः

6.6.25

केशिध्वज उवाच
खाण्डिक्य संशयं प्रष्टुं भवन्तमहामागतः ।
न त्वां हन्तुं विचार्यैतत्कोपं बाणं विमुञ्च वा

6.6.26

श्रीपराशर उवाच
ततःस मन्त्रिभिः सार्धमेकान्ते सपुरोहितः ।
मन्त्रयामास खाण्डिक्यःसर्वैर् एव महामतिः

6.6.27

तमूचुर्मत्रिणो वध्यो रिपुरेष वशं गतः ।
हते ऽस्मिन् पृथिवी सर्वा तव वश्या भविष्यति

6.6.28

खाण्डिक्यश्चाह तान्सर्वानेवमेतन्न संशयः ।
हतेस्मिन्पृतिवी सर्वा मम वश्या भविष्यति

6.6.29

परलोकजयस्तस्य पृथिवी सकला मम ।
न हन्मि चेल्लोकजयो मम तस्य वसुंधरा

6.6.30

नाहं मन्ये लोकजयादधिका स्याद्वसुंधरा ।
परलोकजयो ऽनन्तःस्वल्पकालो महीजयः

6.6.31

तस्मान्नैनं हनिष्यामि यत्पृच्छति वदामि तत्

6.6.32

श्रीपराशर उवाच
ततस्तमब्युपेत्याह खाण्डिक्यजनको रिपुम् ।
प्रष्टव्यं यत्त्वाय सर्वं तत्पृच्छस्व वदाम्यहम्

6.6.33

श्रीपराशर उवाच
ततः सर्वं यथावृत्तं घर्मधेनुवधं द्विज ।
कथांयत्वा स पप्रच्छ प्रायश्तित्तं हि तद्गतम्

6.6.34

स चाचष्ट यथान्यायं द्विज केशिध्वजाय तत् ।
प्रायश्चित्तमशेषेण यद्धै तत्र विधीयते

6.6.35

विदितार्थःस तेनैव ह्यनुज्ञातो महात्मना ।
यागभूमिम् उपागम्य चक्रे सर्वाः क्रियाः क्रमात्

6.6.36

क्रमेण विधिवद्यागं नीत्वा सो ऽवभृथाप्लुतः ।
कृतकृत्यस्ततो भूत्वा चिन्तयामास पार्थिवः

6.6.37

पूजिताश् च द्विजाःसर्वे सदस्या मानिता मया ।
तथैवार्थिजनो ऽप्य् अर्थैर् यो ऽर्जितो ऽभिमतैर् मया

6.6.38

यथार्हमस्य लोकस्य मया सर्वं विचेष्टितम् ।
अनिष्पन्नक्रियं चेतस्तथापि मम किं यथा

6.6.39

इत्थं संचिन्तयन्नैव सस्मार स महीपतिः ।
खाण्डिक्याय न दत्तेति मया वै गुरुदक्षिणा

6.6.40

स जगाम तदा भूयो रथमारुह्य पार्थिवः ।
मैत्रेय दुर्गगहनं खाण्डिक्यो यत्र संस्थितः

6.6.41

खाण्डिक्यो ऽपि पुनर्दृष्ट्वा तमायान्तं धृतायुधम् ।
तस्थौ हन्तुं कृतमतिस्तमाह स पुनर्नृपः

6.6.42

भो नाहं ते ऽपराधाय प्राप्तः खाण्डिक्य मा क्रुद्धाः ।
गुरोर्निक्रयदानाय मामवेहि त्वमागतम्

6.6.43

निष्पादितो मया यागः सम्यक्त्वदुपदेशतः ।
सो ऽहं ते दातुमिच्छामि वृणीष्व गुरुदक्षिणाम्

6.6.44

श्रीपराशर उवाच
भूयस्य मन्त्रिभिः सार्धं मन्त्रयामास पार्थिवः ।
गुरुनिष्क्रयकामो ऽयं किं मया प्रार्थ्यतामिति

6.6.45

तमूचुर्मत्रिणो राज्यमशंषं प्रार्थ्यतामयम् ।
शत्रिभिः प्रार्थ्यते राज्यमना यासितसैनिकैः

6.6.46

प्रहस्य तानाह नृपःस खाण्डिक्यो महामतिः ।
स्वल्पकालं महीपाल्यं मादृशैः प्रार्थ्यते कथम्

6.6.47

एवमेतद्भवन्तो ऽत्र ह्यर्थसाधनमन्त्रिणः ।
परमार्थः कथं को ऽत्र यूयं नात्र विचक्षणाः

6.6.48

श्रीपराशर उवाच
इत्युक्त्वा समुपेत्यैनं स तु केशिध्वजं नृपः ।
उवाच किमवश्यं त्वं ददासि गुरुदक्षिणाम्

6.6.49

बाढमित्येव तेनोक्तः खाण्डिक्यस्तमथाब्रवीत् ।
भवानद्यात्म विज्ञानपरमार्थविचक्षणः

6.6.50

यदि चेद्दीयते मह्यं भवता गुरुनिष्क्रयः ।
तत्क्लेशप्रशमायालं यत्कर्म तदुदीरय

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc