विष्णु पुराण · अध्याय 6.8
इति श्रीविष्णुमहापुराणे षष्ठांशे सप्तमो ऽध्यायः (7)
श्रीपराशर उवाच
इत्येष कथितःसम्यक् तृतीयः प्रतिसंचरः ।
आत्यन्तिको विमुक्तिर्या लयो ब्रह्मणि शाश्वते
सर्गश् च प्रतिसर्गश् च वंशमन्वन्तराणि च ।
वंशानुचरितं चैव भवतो गदितं मया
पुरामं बैष्णवं चैतत्सर्वकिल्बिषनाशनम् ।
विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम्
तुभ्यं यथावन्मैत्रेय प्रोक्तं शुश्रुषवे ऽव्ययम् ।
यदन्यदपि वक्तव्यं तृत्पृच्छाद्य वदामि ते
मैत्रेय उवाच
भगवन्कथितं सर्वं यत्पृष्टोसि मया मुने ।
श्रुतं चैतन्मया भक्त्या नान्यत्प्रष्टव्यमस्ति मे
विच्छिन्नाःसर्वसंदेहा वैमल्यं मनसः कृतम् ।
त्वत्प्रसादान्मया ज्ञाता उत्पत्तिस्थितिसंक्षयाः
ज्ञातश् च त्रिविधो राशिः शक्तिश् च त्रिविधा गुरो ।
विज्ञाता सा च कार्त्स्न्येन त्रिविधा भावभावना
त्वत्प्रसादान्मया ज्ञातं ज्ञेयमन्यैर् अलं द्विज ।
यदेतदखिलं विष्णोर्जगन्न व्यतिरिच्यते
कृतार्थोहमसंदेहस्त्वत्प्रसादान्महामुने ।
वर्णधर्मादयो धर्मा विदिता यदशेषतः
प्रवृत्तं च निवृत्तं च ज्ञानं कर्ममयाखिलम् ।
प्रसीद विप्रप्रवर नान्यत्प्रष्टव्यमस्ति मे
यदस्य कथनायासैर् यो ऽर्जितो ऽसि मया गुरो ।
तत्क्षम्यतां विशेषोस्ति न सतां पुत्रशिष्ययोः
श्रीपराशर उवाच
एतत्ते यन्मयाख्यातं पुराणं वेदसंमतम् ।
श्रुते ऽस्मिन्सर्वदोषोत्थः पापराशिः प्रणश्यति
सर्गश् च प्रतिसर्गश् च वंशमन्वन्तरामि च ।
वंशानुचरितं कृत्स्नं मयात्र तव कीर्तितम्
अत्र देवास् तथा दैत्या गन्धर्वोरगराक्षसाः ।
यक्षविद्याधराःसिद्धाः कथ्यन्ते ऽप्सरसस् तथा
मुनयो भावितात्मानः कथ्यन्ते तपसान्विताः ।
चातुर्वण्यं तथा पुंसा विशिष्टचरितानिच
पुण्याः प्रदेशा मेदिन्याः पुण्या नद्यो ऽथ सागराः ।
पर्वताश् च महापुण्याश्चरितानि च धीमताम्
वर्णधर्मादयो धर्मावेदशास्त्राणि कृत्स्नशः ।
येषां संस्मरमात्सद्यःसर्वपापैः प्रमुच्यते
उत्पत्तिस्थितिनाशानां हेतुर्यो जगतो ऽव्ययः ।
स सर्वभूतःसर्वात्मा कथ्यते भगवान्हरिः
अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः ।
पुमान्विमनच्ये सद्यःसिंहत्रस्तैर् मृगैर् इव
यन्नामकीर्तनं भक्त्या विलायनमनुत्तमम् ।
मैत्रेयासेषपापानां धातूनामिव पावकः
कलिकल्मषमत्युग्रं नरकार्त्तिप्रदं नृणाम् ।
प्रयाति विलयं सद्यःसकृद्यत्र च संस्मृते
हिरण्यगर्भदेवेन्द्ररुद्रादित्याश्विवायुभिः ।
पावकैर् वसुभिः साध्यैर् विश्वेदेवादिभिः सुरैः
यक्षरक्षोरगैः सिद्धैर् दैत्यगन्धर्वदानवैः ।
अप्सरोभिस् तथा तारानक्षत्रैः सकलैर् ग्रहैः
सप्तर्षिभिस् तथा धिष्ण्यैर् धिष्ण्याधिपतिभिस् तथा ।
ब्रह्मणाद्यैर् मनुष्यैश् च तथैव पशुभिर् मृगैः
सरीसृपैर् विहङ्गैश् च पलाशाद्यैर् महीरुहैः ।
वनाग्निसागरसरित्पातालैः ससुराग्निभिः
शब्दादिभिश्चसहितं ब्रह्माण्डमखिलं द्विज ।
मेरोरिवाणुर्यस्यैतद्यन्मयं च द्विजोत्तम
स सर्वः सर्ववित्सर्वस्वरूपो रूपवर्जितः ।
भगवान्कीर्तितो विष्णुरत्र पापप्रणाशनः
यदश्वमेधावभृथे स्नातः प्राप्नोति वै फलम् ।
मानवस्तदवाप्नोति श्रुत्वैतन्मुनिसत्तम
प्रयागे पुष्करेचैव कुरुक्षेत्रे तथार्ऽणवे ।
कृतोपवासः प्राप्नोति तदस्य श्रवणान्नरः
यदग्निहोत्रे सुहुते वर्षेणाप्नोति मानवः ।
महापुण्यफलं विप्र तदस्य श्रवणात्सकृत्
यज्ज्येष्ठसुक्लद्वादश्यां स्नात्वा वै यमुनाजले ।
मथुरायां हरिं दृष्ट्वा प्राप्नोति पुरुषः फलम्
तदाप्नोत्यखिलं सम्यगध्यायं यः शृणोति वै ।
पुराणस्यास्य विप्रर्ष केशवार्पितमानसः
यमुनासलिलस्नातः पुरुषो मुनिसत्तम ।
ज्येष्ठामूले सिते पक्षे द्वादश्यां समुपोषितः
समभ्यर्च्याच्युतं सम्यङ् मथुरायां समादितः ।
अश्वमेधस्य यज्ञस्य प्राप्नोत्यविकलं फलम्
आलोक्यर्धिमथान्येषामुन्नीतानां स्ववंशजैः ।
एतत्किलोचुरप्येषां पितरः सपितामहाः
कच्चिदस्मत्कुले जातः कालिन्दीसलिलाप्लुतः ।
अर्तयिष्यति गोविन्दं मथुरायामुपोषितः
ज्योष्ठामूले सिते पक्षे केनैवं वयमप्युत ।
परामृद्धिमवाप्स्यामस्तारिताःस्वकुलोद्भवैः
ज्येष्ठामूले सिते पक्षे समभ्यर्च्य जनार्दनम् ।
धन्यानां कुलजः पिण्डान्यमुनायां प्रदास्यति
तस्मिन्काले समभ्यर्च्य तत्र कृष्णं समाहितः ।
दत्त्वा पिण्डं पितृभ्यश् च यमुनासलिलाप्लुतः
यदाप्नोति नरः पुण्यं तारयन्स्वपितामहान् ।
श्रुत्वाध्यायं तदाप्नोति पुराणस्यास्य शक्तितः
एतत्संसारभीरूणां परित्राणमनुत्तमम् ।
श्राव्याणां परमं श्राव्यं पवित्राणामनुत्तमम्
दुःस्वप्ननाशनं नॄणां सर्वदुष्टनिबर्हणम् ।
मङ्गलं मङ्गलानां च पुत्रसंपत्प्रदायकम्
इदमार्षं पुरा प्राह ऋभवे कमलोद्भवः ।
ऋभुः प्रियव्रतायाह स च भागुरये ऽबवीत्
भागुरिस्तंभमित्राय दधीचाय स चोक्तवान् ।
सारस्वताय तेनोक्तं भृगुःसारस्वतेन च
भृगुणा पुरुकुत्साय नर्मदायै स चोक्तवान् ।
नर्मदा धृतराष्ट्रायनागायापूरणाय च
ताभ्यां च नागराजाय प्रोक्तं वासुकये द्विज ।
वासुकिः प्राह वत्साय वत्सश्चाश्वतराय वै
कंबलाय च तेनोक्तमेलापुत्राय तेन वै
पातालं समनुप्राप्तः ततो वेदशिरा मुनिः ।
प्राप्तवानेतदखिलं स च प्रमतये ददौ
दत्तं प्रमतिना चैतज्जातुकर्णाय धीमते ।
जातुकर्णेन चैवोक्तमन्येषां पुण्यकर्मणाम्
पुलस्त्यवरदानेन ममाप्येतत्स्मृतिं गतम् ।
मयापि तूभ्यं मैत्रेय यथावत्कथितं त्बिदम्
त्वमप्येतच्छिनीकाय कलेरन्ते वदिष्यसि
इत्येतत्परमं गुह्यं कलिकल्मषनाशनम् ।
यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते
समस्ततीर्थस्नानानि समस्तामरसंस्तुतिः ।
कृता तेन भवेदेतद्यः शृणोतिदिनेदिते
कपिलादानजनितं पुम्यमत्यन्तदुर्लभम् ।
श्रुत्वैतस्य दशाध्यायानवाप्नोति न संशयः
यस्त्वेतत्सकलं शृणोतिपुरुषः कृत्वा मनस्यच्युतं सर्वं सर्वमयं समस्तजगतामाधारमात्माश्रयम् ।
ज्ञानज्ञेयमनादिमन्तरहितं सर्वामराणां हितं स प्राप्नोति न संशयोस्त्यविकलं यद्वाजिमेधे फलम्
यत्रादौ भगवांश्चराचरगुरुर्मध्ये तथान्ते च स ब्रह्मज्ञानमयो ऽच्युतो ऽखिलजगन्मध्यान्तसर्गप्रभुः ।
ततसर्वं पुरुषः पवित्रममलं शृण्वन्पठन्वाचयन्प्राप्नोत्यस्ति न तत्फलं त्रिभुवनेष्वेकान्तसिद्धिर्हरिः
यस्मिन्न्यस्तमनिर्न याति नरकं स्वर्गो ऽपि यच्चिन्तने विघ्नो यत्र निवेशितात्ममनसो ब्राह्मो ऽपि लोको ऽल्पकः ।
मुक्तिं चेतसि यःस्थितो मलधियां पुंसां ददात्यव्ययः किं चित्रं यदघं प्रयाति विलयं तत्राच्युते कीर्तिते
यज्ञैर् यज्ञविदो यजन्ति सततं यज्ञेश्वरं कर्मिणो यं वै ब्रह्ममयं परावरमयं ध्यायन्ति च ज्ञानिनः ।
यं संचित्य न जायते न म्रियते नो वर्धते हीयते नैवासन्न च सद्भवत्यति ततः किं वा हरेः श्रूयताम्
कव्यं यः पुतृरूपधृग्विधिहुतं हव्यं च भुक्तं विभुर्देवत्वे भगवाननादिनिधनःसावहास्वधासंज्ञिते ।
यस्मिन्ब्रह्मणि सर्वशक्तिनिलये मानानि नो मानिनां विष्ठायै प्रभवन्ति हन्ति कलुषं श्रोत्रं स यातो हरिः
नान्तोस्ति यस्य न च यस्य समुद्भवो ऽस्ति वृद्धिर्न यस्य परिणामविवर्जितस्य ।
नापक्षयं च समुपैत्यविकारि वस्तु यस्तं नतोस्मि पुरुषोत्ममीशमीड्यम्
तस्यैव योनु गुमभुग्बहुधैक एव सुद्धोप्यशुद्ध इव भाति हि मूर्तिभेदैः ।
ज्ञानान्वितःसकलसत्त्वविभूतिकर्ता तस्मै नमोस्तु पुरुषाय सदाव्ययाय
ज्ञानप्रवृत्तिनियमैक्यमयाय पुंसो भोगप्रदानपटवे त्रिगुणात्मकाय ।
अव्याकृताय भवबावनकारणाय वन्दे स्वरूपभवनाय सदाजराय
व्योमानिलाग्निजलभूरचनामयाय शब्दादिभोग्यविषयोपनयक्षमाय ।
पुंसःसमस्तकरणैर् उपकारकाय व्यक्ताय सूक्ष्मबृहदात्मवते नतोस्मि
इति विविधमजस्य यस्य रूपं प्रकृतिपरात्ममयं सनातनस्य ।
प्रदिशतु भगवानशेषपुंसां हरिरपजन्मजरादिकां सिद्धिम्
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0