विष्णु पुराण · अध्याय 6.5
इति श्रीविष्णुमहापुराणे षष्ठांशे चतुर्थो ऽध्यायः (4)
श्रीपराशर उवाच
आध्यात्मिकादि मैत्रेय ज्ञात्वा तापत्रयं बुधः ।
उत्पन्नज्ञानवैराग्यं प्राप्नोत्यात्यन्तिकं लयम्
आध्यात्मिकोपि द्विविधः शरीरो मानसस् तथा ।
शरीरो बहुभिर् भेदैर् भिद्यते श्रुयतां च सः
शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः ।
गुल्मार्शः श्वययुश्वासच्छर्द्यादिभिर् अनेकधा
तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञितैः ।
भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि
कामक्रोधभयद्वेषलोभमोहविषादजः ।
शोकासूयावमानेर्ष्यामात्सर्यादिमयस् तथा
मानसो ऽपि द्विजश्रेष्ठ तापो भवति नैकधा ।
इत्येवमादिभिर् भेदैस् तापो ह्याध्यात्मिकः स्मृतः
मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः ।
सरीसृपाद्यैश् च नृणां जायते चाधिभौतिकः
शीतवा तोष्णवार्षाबुबैद्युतादिसमुद्भवः ।
तापो द्विजवरश्रेष्ठैः कथ्यते चाधिदैविकः
गर्भजन्मजराज्ञानमृत्युनारकजं तथा ।
दुःखं सहस्रशो भेदैर् भिद्यते मुनिसत्तम
सुकुमारतनुर्गर्भे जन्तुर्बहुमलावृते ।
उल्वसंवेष्टितो भुग्नपृष्ठग्रीवास्थिसंहतिः
अत्यम्लकटुतीक्ष्मोष्णलवणैर् मातृभोजनैः ।
अत्यन्ततापैर् अत्यर्थं वर्धमानातिवेदनः
प्रसारणाकुञ्चनादौ नाङ्गानां प्रभुरात्मनः ।
शकृन्मूत्रमहापङ्कशायी सर्वत्र पीडितः
निरुच्छ्वासः सचैतन्यः स्मरञ् जन्मशतान्य् अथ ।
आस्ते गर्भे ऽतिदुःखेन निजकर्मनिबन्धनः
जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः ।
प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः
अधोमुखो वै क्रियते प्रबलैः सूतिमारुतैः ।
क्लेशान्निष्क्रान्तिमाप्नोति जठरान्मातुरातुरः
मुर्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना ।
विज्ञानभ्रंशमाप्नोति जातश् च मुनिसत्तम
कण्टकैर् इव तुन्नाङ्गः क्रकचैर् इव दारितः ।
पूतिव्रणान्निपतितो धरण्यां क्रिमिको यथा
कण्डूयने ऽपि चाशक्तः परिवर्तेप्यनीश्वरः ।
स्नानपानादिकाहारम् अप्य् आप्नोति परेच्छया
अशुचिप्रस्तरे सुप्तः कीटद्रंशादिभिस् तथा ।
भक्ष्यमाणो ऽपि नैवैषां समर्थो विनिवारणे
जन्मदुःखान्यनेकानि जन्मनोनन्तरिणी च ।
बालभावे यदा प्नोति ह्याधिभौतादिकानि च
अज्ञानतमसाच्छन्नो मूढान्तःकरणो नरः ।
न जानाति कुतः कोहं क्वाहं गन्ता किमात्मनः
केनबन्धेन बद्धोहं कारणं किमकारणम् ।
किं कार्यं किमकार्यं वा किं वाच्यं किं च नोच्यते
को धर्मः कश् च वाधर्मः कस्मिन्वर्ते ऽथ वा कथम् ।
किं कर्तव्यमकर्तव्यं किं वा किङ्गुणदोषवत्
एवं पशुसमैर् मुढैर् अज्ञानप्रभवं महत् ।
अवाप्यते नरैर् दुःखं शिश्रोदरपरायणैः
अज्ञानं तामसो भावः कार्यारंभप्रवृत्तयः ।
अज्ञानिनां प्रवर्तन्ते कर्मलोपास्ततो द्विज
नरकं कर्मणां लोपात्फलमाहुर्मनीषिणः ।
तस्मादज्ञानिनां दुःखमिह चामुत्र चोत्तमम्
जराजर्जरदेहश् च शिथिलावयवः पुमान् ।
विचलच्छीर्णदशनो वलिस्नायुशिरावृतः
दूरप्रनष्टनयनो व्योमान्तर्गततारकः ।
नासाविवलनिर्यातलोमपुञ्जश्चलद्वपुः
प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसंहतिः ।
उत्सन्नजठराग्नित्वाद् अल्पाहारो ऽप्लचेष्टितः
कृच्छ्राच्चङ्क्रमणोत्थानशयनासनचेष्टितः ।
मन्दीभवच्छ्रोत्रनेत्रःस्रवल्लालाविलाननः
अनायत्तैः समस्तैश् च करणेर्मरणोन्मुखः ।
तत्क्षणेप्यनुभूतानामस्मर्तऽखिलवस्तुनाम्
सकृदुच्चारिते वाक्ये समुद्भूत महाश्रमः ।
श्वासकाशसमुद्भूतमहायासप्रजागरः
अन्येनोत्थाप्यते ऽन्येन तथा संवेश्यते जरी ।
भृत्यात्मपुत्रदाराणामवामानास्पदी कृतः
प्रक्षीणाखिलशौचश् च विहाराहारसस्पृहः ।
हास्यः परिजनस्यापि निर्विण्णाशेषबान्धवः
अनुभूतमिवान्यस्मिञ्जन्मन्यात्मविचेष्टितम् ।
संस्मरन्यौवने दीर्घं निश्वसत्यभितापितः
एवमादीनि दुःखानि जरायामनुबूय वै ।
मरणे यानि दुःखानि प्राप्नोति शृणुतान्यपि
श्लथद्ग्रीवाङ्घ्रिहस्ते ऽथ व्याप्तो वेपथुना भृशम् ।
मुहुर्ग्लानिः परवशो मुहुर्ज्ञानलवान्वितः
हिरण्यधान्यतनयभार्याभृत्यगृहादिषु ।
एते कथं भविष्यन्तीत्यतीव ममताकुलः
मर्मभिद्भिर् भहारोगैः क्रकचैर् इव दारुणैः ।
शरैर् इवान्तकस्योग्रैश् छद्यमानासुबन्धनः
परिवर्तितताराक्षो हस्तपादं मुहुः क्षिपन् ।
संशुष्यमाणताल्वोष्ठपुटो घुरघुरायते
निरुद्धकण्ठो दोषौघैर् उदानश्वसापीडितः ।
तापेन महता व्याप्तस्तृषा चार्तस् तथा क्षुधा
क्लेशादुत्क्रान्तिमाप्नोति यमकिङ्करपीडितः ।
ततश् च यातनादेहं क्लेशेन प्रतिपद्यते
एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम् ।
शृणुष्व नरके यानि प्राप्यन्ते पुरुषैर् मृतैः
याम्यकिङ्करपाशादिग्रहणं दण्डताडनम् ।
यमस्य दर्शनं चोग्रमुग्रमार्गविलोकनम्
करंभवालुकावह्नियन्त्रशस्त्रासिभीषणे ।
प्रत्येकं नरकेयाश् च यातना द्विज दुःसहाः
क्रकचैः पाट्यमानानां मूषायां चापि दह्यताम् ।
कुठारैः कृत्यमानानां भूमौ चापि निखन्यताम्
शूलेष्वारोप्यमाणानं व्याघ्रवक्त्रे प्रवेश्यताम् ।
गृध्रैः संभक्ष्यमाणानां द्वीपिभिश्चोपभूज्यताम्
क्वाथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे ।
उच्चान्निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः
नरके यानि दुःखानि पापहेतूद्भवानि वै ।
प्राप्यन्ते नारकैर् विप्र तेषां संख्या न विद्यते
न केवलं द्विजश्रेष्ठ नरके दुःखपद्धतिः ।
स्वगंपि पातभीतस्त क्षयिष्णोर्नास्ति निर्वृतिः
पुनश् च गर्भे भवति जायते च पुनः पुनः ।
गर्भे विलीयते भूयो जायमानो ऽस्तमेति वै
जातमात्रश् च म्रियते बालभावे ऽथ यौवने ।
मध्यमं वा वयः प्राप्य वार्धके वाथ वा मृतिः
यावज्जीवति तावच्च दुःखैर् नानाविधैः प्लुतः ।
तं तु कारणपक्ष्मौघैर् आस्ते कार्पासबीजवत्
द्रव्यनाशे तथोत्पत्तौ पालने च सदा नृणाम् ।
भवन्त्यनेकदुःखानि तथैवेष्टविपत्तिषु
यद्यत्प्रीतिकरं पुंसां वस्तु मैत्रेय जायते ।
तदेव दुःखवृक्षस्य बीजत्वमुपगच्छति
कलत्रपुत्रमित्रार्थगृहक्षेत्रधनादिकैः ।
क्रियते न तथा भूरि सुखं पुंसां यथा सुखम्
इति संसारदुःखार्कतापतापितचेतसाम् ।
विमुक्तिपादपच्छायामृते कुत्र सुखं नृणाम्
तदस्य त्रिविधस्तऽपि दुःखजातस्य वै मम ।
गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः
निरस्तातिशयाह्लादसुखभावैकलक्षणा ।
भेषजं भगवत्प्राप्तिरेकान्तात्यन्तिकी मता
तस्मात् तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर् नरैः ।
तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने
आगमोत्थं विवेकाच्च द्विधा ज्ञानं तद् उच्यते ।
शब्दब्रह्मागममयं परं ब्रह्म विवेकजम्
अन्धं तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् ।
यथा सूर्यस् तथा ज्ञानं यद्विप्रर्षे विवेकजम्
मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तम ।
तदेतच्छ्रूयतामत्र संबन्धे गदतो मम
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति
द्वे वै विद्ये वेदितव्ये इति चाथर्वणी श्रुतिः ।
परया त्वक्षरप्राप्तिरृग्वेदादिमयापरा
यत् तद् अव्यक्तम् अजरम् अचिन्त्यम् अजम् अव्ययम् ।
अनिर्देश्यमरूपं च पाणिपादाद्यसंयुतम्
विभु सर्वगतं नित्यं भूतयोनिरकारणम् ।
व्याप्य व्याप्तं यतः सर्वं यद् वै पश्यन्ति सूरयः
तद्ब्रह्म तत्परं धाम तद् ध्येयं मोक्षकांक्षिभिः ।
श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम्
तदेव भगवद्वाच्यं स्वरूपं परमात्मनः ।
वाचको भगवच्छब्दस्तस्याद्यस्वाक्षयात्मनः
एवं निगदितार्थस्त तत्तत्त्वं तस्य तत्त्वतः ।
ज्ञायते येन तज्ज्ञानं परमन्यत्त्रयीमयम्
अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विज ।
पूजायां भगवच्छब्दः क्रियते ह्युपचारतः
शुद्धे महाविभूत्वाख्ये परे ब्रह्मणि शब्दिते ।
मैत्रेय भगवच्छब्दःसर्वकारणकारणे
संभर्तेति तथा भर्ता भकारोर्थद्वयान्वितः ।
नेता गमयता स्रष्टा गकारार्थस् तथा मुने
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा
वसंति तत्र भूतानि भूतात्मन्यखिलात्मनि ।
स च भूतेष्वशेषेषु वकारार्थस्ततो ऽव्ययः
एवमेष महाञ्छब्दो मैत्रेय भगवानिति ।
परमब्रह्मभूतस्य वासुदेवस्य नान्यगः
तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः ।
शब्दो ऽयं नोपचारेण त्वन्यत्र ह्य् उपचारतः
उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् ।
वेत्ति विद्यामाविद्यां च स वाच्यो भगवानिति
ज्ञानशक्तिबलैश्वयवीर्यतेजांस्यशेषतः ।
भगवच्छब्दवाच्याति विना हेयैर् गुणादिभिः
सर्वाणि तत्र भूतानि वसांति परमात्मनि ।
भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः
खाण्डिक्यजनकायाह पृष्टः केशिध्वजः पुरा ।
नाभव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः
भूतेषु वसते सोंऽतर्वसंत्यत्र च तानि यत् ।
धाता विधाता जगतां वासुदेवस्ततः प्रभुः
स सर्वभूतप्रकृतिं विकारान्गुणादिदोशांश् च मुने व्यतीतः ।
अतीतसर्वावरणोखिलात्मा तेनास्तृतं यद्भुवनान्तराले
समस्तकल्याणगुणात्मको ऽसौ स्वशक्तिलेशावृतभूतवर्गः ।
इच्छागृहीताभिमतोरुदेहःसंसाधिताशेषजगद्वितो यः
तेजोबलैश्वर्यमहावबोध सुवीर्यशक्त्यादिगुणैकराशिः ।
परः पराणां सकला न यत्र क्लेशादयःसंति परावरेशे
स ईश्वरो व्यष्टिसमष्टिरूपो व्यक्तस्वरूपः ।
सर्वेश्वरःसर्वदृक् सर्वविच्च समस्तशक्तिः परमेश्वराख्यः
संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् ।
संदृश्यते वाप्यवगम्यते वा तज्ज्ञानमज्ञानमतोन्यदुक्तम्
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0