भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 6.4

6.4.1

इति श्रीविष्णुमहापुराणे षष्ठांशे तृतीयो ऽध्यायः (3)
श्रीपराशर उवाच
सप्तर्शिस्थानामाक्रम्य स्थितेंभसि महामुने ।
एकार्णवं भवत्येतत्त्रैलोक्यमखिलं ततः

6.4.2

मुखनिश्वासजो विष्णोर्वायुस्ताञ्जलदांस्ततः ।
नाशयन्वाति मैत्रेय वर्षाणामपरं शतम्

6.4.3

सर्वभूतमयो ऽचिन्त्यो भगवान्भूतभावनः ।
अनादिरादिर्विश्वस्य पीत्वा वायुमशेषतः

6.4.4

एकार्णवे ततस्तस्मिञ्छेषशय्यागतः प्रभुः ।
ब्रह्मरूपधरः शेते भगवानादिकृद्धरिः

6.4.5

जनलोकगतैः सिद्धैः समकाद्यैर् अभिष्टुतः ।
ब्रह्मलोकगतैश् चैव चिन्त्यमानो मुमुक्षुभिः

6.4.6

आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः ।
आत्मानं वासुदेवाख्यं चिन्तयन्मधुसूदनः

6.4.7

एष नैमित्तिको नाम मैत्रेयः प्रतिसंचरः ।
निमित्तं तत्र यच्छेते ब्रह्मरूपधरो हरिः

6.4.8

यदा जागर्ति सर्वात्मा स तदा चेष्टते जगत् ।
निमीलत्येतदखिलं मायाशय्यां गते ऽच्युते

6.4.9

पद्मयोनेर्दिनं यत्तु चतुर्युगसहस्रवत् ।
एकार्णवीकृते लोके तावती रात्रिरिष्यते

6.4.10

ततः प्रबुद्धो रात्र्यन्ते पुनःसृष्टिं करोत्यजः ।
ब्रह्मस्वरूपधृग्विष्णुर्यथा ते कथितं पुरा

6.4.11

इत्येष कल्पसंहारो ऽवान्तरप्रलयो द्विज ।
नैमित्तिकस्ते कथितः प्राकृतः शृण्वतः परम्

6.4.12

अनावृष्ट्यादिसंपर्कात् कृते संक्षालने मुने ।
समस्तेष्वेव लोकेषु पातालेष्वखिलेषु च

6.4.13

महदादेर्विकारस्य विशेषान्तस्य संक्षये ।
कृष्णेच्छाकारिते तस्मिन्प्रवृत्ते प्रतिसंचरे

6.4.14

आपो ग्रसंति वै पूर्वं भूमेर्गन्धात्मकं गुणम् ।
आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते

6.4.15

प्रणष्टे गन्धतन्मात्रे भवत्युर्वी जलात्मिका ।
आपस्तदा प्रवृद्धास्तु वेगवत्यो महास्वनाः

6.4.16

सर्वमापूरयन्तीदं तिष्ठन्ति विचरन्ति च ।
सलिलेनोर्मिमालेन आलोकान्तात्समन्ततः

6.4.17

अपामपि गुणो यस्तु ज्योतिषा पीयते तु सः ।
नश्यन्त्यापस्ततस्ताश् च रसतन्मात्रसंक्षयात्

6.4.18

ततश्चापो हृतरसाज्योतिषं प्राप्नुवन्ति वै ।
अग्नावस्थे तु सलिले तेजसा सर्वतो वृते

6.4.19

स चाग्निः सर्वतो व्याप्य चादत्ते तज्जलं तथा ।
सर्वमापूर्यतेर्चिर्भिस् तदा जगदिदं शनैः

6.4.20

अर्चिर्भिः संवृते तस्मिंस्तिर्यगूर्ध्वमधस्तदा ।
ज्योतिषो ऽपि परं रूपं वायुरत्ति प्रभाकरम्

6.4.21

प्रलीने च ततस्तस्मिन्वायुभूते ऽखिलात्मनि ।
प्रनष्टे रूपतन्मात्रे हृतरूपो विभावसुः

6.4.22

प्रशाम्यति तदाज्योतिर्वायुर्देधूयते महान् ।
निरा लोके तथा लोके वाय्ववस्थे च तेजसि

6.4.23

ततस्तु मूलमासाद्य वायुःसंभवमात्मनः ।
ऊर्ध्वं चाधश् च तिर्यक्च दोधवीति दिशो दश

6.4.24

वायोरपि गुणं स्पर्शमाकाशो ग्रसते ततः ।
प्रशाम्यति ततो वायुः खं तु तिष्ठत्यनावृतम्

6.4.25

अरूपरसमस्पर्शमगन्धं न च मूर्तिमत् ।
सर्वमापूरयच्चैव सुमहात्तत्प्रकाशते

6.4.27

भूतेन्द्रियेषु युगपद्भूतादौ संस्थितेषु वै ।
अबिमानात्मको ह्येष भूतादिस्तामसःस्मृतः

6.4.28

भीतादिं ग्रसते चापि महान्वे बुद्धिलक्षणः

6.4.29

उर्वी महंश् च जगतः प्रतिन्तर्बाह्यतस् तथा

6.4.30

एवं सप्त महाबुद्धे क्रमात्प्रकृतयःस्मृताः ।
प्रत्याहारे तु ताःसर्वाः प्रविशन्ति परस्परम्

6.4.31

येनेदमावृतं सर्वमण्डमप्सु प्रलीयते ।
सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम्

6.4.32

उदकावरणं यत्तु ज्योतिषा पीयते तु तम् ।
ज्योतिर्वायौ लयं याति यात्याकाशे समीरमः

6.4.33

आकाशं चैव भूतादिर्ग्रसते तं तथा महान् ।
महान्तमेभिः सहितं प्रकृतिर्ग्रसते द्विज

6.4.34

गुमसाम्यमनुद्रिक्तमन्यूनं च महामुने ।
प्रोच्यते प्रकतिर्हेतुः प्रधानङ्कारणं परम्

6.4.35

इत्येषा प्रकृतिःसर्वा व्यक्ताव्यक्तस्वरूपिणी ।
व्यक्तस्वरूपमव्यक्ते तस्मान्मैत्रेय लीयते

6.4.36

एकः शुद्धो ऽक्षरो नित्यःसर्वव्यापी तथा पुमान् ।
सो ऽप्य् अंशःसर्वभूतस्य मैत्रेय परमात्मनः

6.4.37

न संति यत्र सर्वेशे नामजात्यादिकल्पनाः ।
सत्तामात्रत्मके ज्ञेये ज्ञानात्मन्यात्मनः परे

6.4.38

तद्ब्रह्म परमं धाम परमात्मा स चेश्वरः ।
स विष्णुःसर्वमेवेदं यतो नावर्तते यतिः

6.4.39

प्रकृतिर्या मयाख्याता व्यक्ताव्यक्तस्वरूपिणी ।
पुरुषश्चाप्युभावेतौ लियते परमात्मनि

6.4.40

परमात्मा च सर्वेषामाधारः परमेश्वरः ।
विष्णुनामा स वेदेषु वेदान्तेषु च गीयते

6.4.41

प्रवृत्तं च निवृत्तं च द्विविधङ्कर्म वैदिकम् ।
ताभ्यामुभाभ्यां पुरुषैः सर्वमूर्तिःस इज्यते

6.4.42

ऋग्यजुःसामभिर् मार्गैः प्रवृत्तेरिज्यते ह्यसौ ।
यज्ञेश्वरो यज्ञपुमान्पुरुषैः पुरुषोत्तमः

6.4.43

ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्तिः स चेज्यते ।
निवृत्ते योगिभिर् मार्गे विष्णुर्मुक्तिफलप्रदः

6.4.44

ह्रस्वदीर्घप्लुतैर् यत्तु किञ्चिद्वस्त्वभिधीयते ।
यच्च वाचामविषयं तत्सर्वं विष्णुरव्ययः

6.4.45

व्यक्तःस एव चाव्यक्तःस एव पुरुषोत्तमः ।
परमात्मा च विश्वात्मा विश्वरूपधरोहरिः

6.4.46

व्यक्ताव्यक्तात्मिका तस्मिन्प्रकृतिःसंप्रलीयते ।
पुरुषश्चापि मैत्रेय व्यापिन्यव्याहतात्मनि

6.4.47

द्विपरार्धात्मकः कालः कथितो यो मया तव ।
तदहस्तस्य मैत्रेय विष्णोरीशस्य कथ्यते

6.4.48

व्यक्ते च प्रकृतौ लीने प्रकृत्यां पुरुषे तथा ।
तत्र स्थिते निशा चास्य तत्प्रमाणा महामुने

6.4.49

नैवाहस्तस्य न निशा नित्यस्य परमात्मनः ।
उपचारस्तथाप्येष तस्येशस्य द्विजोच्यते

6.4.50

इत्येष तव मैत्रेय कथितः प्राकृतो लयः ।
आत्यन्तिकमथो ब्रह्मन्निबोध प्रतिसंचरम्

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc