भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 6.3

6.3.1

इति श्रीविष्णुमाहपुराणे षष्ठांशे द्वितीयो ऽध्यायः (2)
श्रीपराशर उवाच
सर्वेषामेव भूतानां त्रिविधः प्रतिसंचरः ।
नैमित्तिकः प्राकृतिकः तथैवात्यन्तिको लयः

6.3.2

ब्राह्मो नैमित्तिकस्तेषां कल्पान्ते प्रतिसंचरः ।
आत्यन्तिकस्तु मोक्षाख्यः प्राकृतो द्विपरार्धकः

6.3.3

मैत्रेय उवाच
परार्धसंख्यां भगवन्ममाचक्ष्व यया तु सः ।
द्विगुणीकृतया ज्ञेयः प्राकृतः प्रतिसंचरः

6.3.4

श्रीपराशर उवाच
स्थानात्स्थानं दशगुणमेकस्माद्रण्यते द्विज ।
ततोष्टादशमे भागे परार्धमभिधीयते

6.3.5

परार्धद्विगुणं यत्तु प्राकृतःस लयो द्विज ।
तदाव्यक्तेखिलं व्यक्तं स्वहेतौ लयमेति वै

6.3.6

निमेषो मानुषो यो ऽसौ मात्रामात्राप्रमाणतः ।
तैः पञ्चदशभिः काष्ठा त्रिंशत्काष्ठ कला स्मृता

6.3.7

नाडिका तु प्रमाणेन सा कला दश पञ्च च

6.3.8

उन्मानेनांभसःसा तु पलान्यर्धत्रयोदश ।
मागधेन तु मानेन जलप्रस्थस्तु स स्मृतः ।
हेममाषैः कृतच्छिद्रचतुर्भिश्चातुरङ्गुलैः

6.3.9

नाडिकाभ्यामथ द्वाभ्यां मुहूर्तो द्विजसत्तम ।
अहोरात्रं मुहुर्तास्तु त्रिंशन्मासो दिनैस् तथा

6.3.10

मासैर् द्वादशभिर् वर्षमहोरात्रं तुतद्दिवि ।
त्रिभिर् वर्षशतैर् वर्षं षष्ट्या चैवासुरद्विषाम्

6.3.11

तैस् तु द्वादशसाहस्त्रैश् चतुर्युगमुदाहृतम् ।
चतुर्युगसहस्रं तु कथ्यते ब्रह्मणो दिनम्

6.3.12

स कल्पस्तत्र मनवश्चतुर्दश महामुने ।
तदन्ते चैव मैत्रेय ब्राह्मो नेमित्तिको लयः

6.3.13

तस्य स्वरूपमत्युग्रं मैत्रेय गदतो मम ।
शृणुष्व प्राकृतं भूयस्तव वक्ष्याम्यहं लयम्

6.3.14

चतुर्युगसहस्रान्ते क्षीणप्राये महीतले ।
अनावृष्टिरतीवोग्रा जायते शतवार्षिकी

6.3.15

ततो यान्यल्पसाराणि तानि सत्त्वान्यशेषतः ।
क्षयं यान्ति मुनिश्रेष्ठ पार्थिवान्यनुपीजनात्

6.3.16

ततः सभगवान्विष्णु रुद्ररूपधरो ऽव्ययः ।
क्षयाय यतते कर्तुमात्मस्थाःसकलाः प्रजाः

6.3.17

ततः स भगवान् विष्णुर् भानोः सप्तसु रश्मिषु ।
स्थितः पिबत्यशेषाणि जलानि मुनिसप्तम

6.3.18

पीत्वांभांसि समस्तानि प्राणिभूमिगतान्यपि ।
शोषं नयति मैत्रेय समस्तं पृथिवीतलम्

6.3.19

समुद्रान्सारितः शैलनदीप्रस्रवणानि च ।
पातालेषु च यत्तोयं तत्सर्वं नयति क्षयम्

6.3.20

ततस्तस्यानुभावेन तोयाहारोपबृंहिताः ।
त एव रश्मयःसप्त जायन्ते सप्त भास्कराः

6.3.21

अधश्चोर्ध्वं च ते दीप्ता स्ततःसप्त दिवाकराः ।
दहन्त्यशषं त्रैलोक्यं सपातालतलं द्विज

6.3.22

दह्यमानं तु तैर् दीप्तैस् त्रैलोक्यं द्विज भास्करैः ।
साद्रिनद्यर्णवाभोगं निस्नेहमभिजायते

6.3.23

ततो निर्दग्धवृक्षांबुत्रैलोक्यमाखितं द्विज ।
भवत्येषा च वसुधा कूर्मपृष्ठोपमाकृतिः

6.3.24

ततः कालाग्निरुद्रो ऽसौ भूत्वा सर्वहरो ऽनलः ।
शेषाहिश्वाससंभूतः पातालानि दहत्यधः

6.3.25

पातालानि समस्तानि स दग्ध्वा ज्वलनो महान् ।
भूमिमभ्येत्य सकलं बभस्ति वसुधातलम्

6.3.26

भुवर्लोकं ततःसर्वं स्वर्लोकं च सुदारुणः ।
ज्वालामालामहावर्तस्तत्रैव परिवर्तते

6.3.27

अंबरीषमिवाभाति त्रैलोक्यमखिलं तदा ।
ज्वालावर्तपरिवारमुपक्षीणचराचरम्

6.3.28

ततस्तापपरीतास्तु लोकद्वयनिवासिनः ।
कृताधिकारागच्छन्ति महर्लोकं महामुने

6.3.29

तस्मादपि महातापतप्ता लोकात्ततः परम् ।
गञ्च्छन्ति जनलोकं ते दशावृत्त्या परैषिणः

6.3.30

ततो दग्ध्वा जगत्सर्वं रुद्ररूपीजनार्दनः ।
मुखनिश्वासजान्मेघान्करोति मुनिसत्तम

6.3.31

ततो गजकुलप्रख्यास्तडित्वन्तो ऽतिनादिनः ।
उत्तिष्ठन्ति तथा व्योम्निघोराःसंवर्तका घनाः

6.3.32

केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः ।
धूम्रवर्णा घनाः केचित्केचित्पीताः पयो धराः

6.3.33

केचिद्रासभवर्णाभा लाक्षारसनिभास् तथा ।
केचिद्वैडूर्यसंकाशा इन्द्रनीलनिभाः क्वचित्

6.3.34

शङ्खकुन्दनिभाश् चान्ये जात्यं जननिभाः परे ।
इन्द्रगोपनिभाः केचित् ततः शखिनिभास् तथा

6.3.35

मनःशिलाभाः केचिद् वै हरितालनिभाः परे ।
चाषपत्रनिभाः केचिदुत्तिष्ठन्ते महाघनाः

6.3.36

केचित्पुरवराकाराः केचित्पर्वतसन्निभाः ।
कूटागारनिभाश्चान्ये केचित्स्थलनिबा घनाः

6.3.37

महारावा महाकायाः पूरयन्ति नभःस्थलम् ।
वर्षन्तस्ते महासारास्तमग्निमतिभैरवम् ।
शमयन्त्यखिलं विप्र त्रैलोक्यान्तरधिष्ठितम्

6.3.38

नष्टे चाग्नौ च सततं वर्षमाणा ह्यहर्निशम् ।
प्लावयन्ति जगत् सर्वम् अंभोबिर् मुनिसत्तम

6.3.39

धाराभिर् अतिमात्राभिः प्लावयित्वाखिलां भुवम् ।
भुवर्लोकं तथेवोर्धू प्लावयन्ति हि ते द्विज

6.3.40

अन्धकारीकृते लोके नष्टे स्थावरजङ्गमे ।
वर्षति ते महामेघा वर्षाणामधिकं शतम्

6.3.41

एवं भवति कल्पान्ते समस्तं मुनिसत्तम ।
वासुदेवस्य माहात्म्यान्नित्यस्य परमात्मनः

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc