भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 6.2

6.2.1

इति श्रीविष्णुमहापुराणे षष्ठांशे प्रथमो ऽध्यायः
श्रीपराशर उवाच
व्यासश्चाह महाबुद्धिर्यदत्रैव हि वस्तुनि ।
तच्छ्रूयतां महाभागा गदतो मम तत्त्वतः

6.2.2

कस्मिन्काले ऽल्पको धर्मो ददानि सुमहत्फलम् ।
मुनीनां पुण्यवादो ऽभूत्कैश् चासौ क्रियते सुखम्

6.2.3

संदेहनिर्णयार्थाय वेदव्यासं महामुनिम् ।
ययुस्ते संशयं प्रष्टुं मैत्रेय मुनिपुङ्गवाः

6.2.4

दृदृशुस्ते मुनिं तत्र जाह्नवीसलिले द्विज ।
वेदव्यासं महाभागमर्धस्नातं सुतं मम

6.2.5

स्नानावसानं ते तस्य प्रतीक्षन्तो महर्षयः ।
तस्थुस् तीरे महानद्यास् तरुषण्डम् उपाश्रिताः

6.2.6

मग्नो ऽथ जाह्नवीतोयादुत्थायाह सुतो मम ।
शुद्रःसाधुः कलिःसाधुरित्येवं शृण्वतां वचः ।
तेषां मुनीनां भूयश् च ममज्ज स नदीजले

6.2.7

साधुसाध्विति चोत्थाय शूद्र धन्योसि चाब्रवीत्

6.2.8

निमग्नश् च समुत्थाय पुनः प्राह महामुनिः ।
योषितः साधु धन्यास्तास्ताब्यो धन्यतरोस्तिकः

6.2.9

ततः स्नात्वा यथान्यायमाचान्तं च कृतक्रियम् ।
उपतस्थुर्महाभागं मुनयस्ते सुतं मम

6.2.10

कृतसंवन्दनांश्चाह कृतासनपरिग्रहान् ।
किमर्थ मागता यूयमिति सत्यवतीसुतः

6.2.11

श्रीपराशर उवाच
तमूचुःसंशयं प्रष्टं भवन्तं वयमागताः ।
अलं तेनास्तु तावन्नः कथ्यतामपरं त्वया

6.2.12

कलिःसाध्विति यत्प्रोक्तं शूद्रः साध्विति योषितः ।
यदाह भगवान्त्साधु धन्याश्चेति पुनः पुनाः

6.2.13

तत् सर्वं श्रोतुम् इच्छामो न चेद् गुह्यं महामुने ।
तत्कथ्यतां ततो हृत्स्थं पृच्छामस्त्वां प्रयोजनम्

6.2.14

श्रीपराश उवाच
इत्युक्तो मुनिभिर् व्यासः प्रहस्येदमथाब्रवीत् ।
श्रूयतां भो मुनिश्रेष्ठा यदुक्तं साधुसाध्विति

6.2.15

व्यास उवाच
यत्कृते दशभिर् वर्षैस् त्रेतायां हायनेन तत् ।
द्वापरे तच्च मासेन ह्यहोरात्रेण तत्कलौ

6.2.16

तपसो ब्रह्मचर्यस्य जपादेश् च फलं द्विजाः ।
प्राप्नोति पुरषस्तेन कलिःसाध्विति भाषितम्

6.2.17

ध्यायन्कृते यजन्यज्ञैस् त्रेतायां द्वापरेर्ऽचयन् ।
यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम्

6.2.18

धर्मोत्कर्षमतीवात्र प्राप्नोति पुरुषः कलौ ।
अल्पायासेन धर्मज्ञास्तेन तुष्टोस्म्यहं कलेः

6.2.19

व्रतचर्यापरैर् ग्राह्या वेदाः पूर्वं द्विजातिभिः ।
ततःस धर्मसंप्राप्तैर् यष्टव्यं विधिवद् धनैः

6.2.20

वृथा कथा वृथा भोज्यं वृथेज्या च द्विजन्मनाम् ।
पतनाय ततो भाव्यं तैस् तु संयमिभिः सदा

6.2.21

असम्यक्करणे दोषस्तेषां सर्वेषु वस्तुषु ।
भोज्यपेयादिकं चैषां नेच्छाप्राप्तिकरं द्विजाः

6.2.22

पारतन्त्र्यं समस्तेषु तेषां कार्येषु वै यतः ।
जयन्ति ते निजांल्लोकान्क्लेशेन महताद्विजाः

6.2.23

द्विजशुश्रूषयैवैष पाकयज्ञाधिकारवान् ।
निजाञ्जयति वै लोकाञ्छूद्रो धन्यतरस्ततः

6.2.24

भक्ष्याभक्ष्येषु नास्यास्ति पेयापेयेषु वै यतः ।
नियमो मुनिशार्दूलास्तेनासौ साध्वितीरितः

6.2.25

स्वधर्मस्याविरोधेन नरैर् लब्धं धनं सदा ।
प्रतिपादनीयं पात्रेषु यष्टव्यं च यथाविधि

6.2.26

तस्यार्जने महाक्लेशः पालने च द्विजोत्तमाः ।
तथासद्विनियोगेन विज्ञातं गहनं नृणाम्

6.2.27

एवमन्यैस् तथा क्लेशैः पुरुषा द्विजसत्तमाः ।
निजाञ्जयन्ति वै लोकान्प्राजापत्यादिकान्क्रमात्

6.2.28

योषिच्छुश्रूषणाद्भर्तुः कर्मणा मनसा गिरा ।
तद्धिता शुभमाप्नोति तत्सालोक्यं यतो द्विजाः

6.2.29

नातिक्लेशेन महता तानेव पुरुषो यथा ।
तृतीयं व्याहृतं तेन मया साध्विति योषितः

6.2.30

एतद्वः कथितं विप्रायन्निमित्तमिहागतः ।
तत्पृच्छतः यथाकामं सव बक्ष्यामि वः स्फुटम्

6.2.31

ऋषयस्ते ततः प्रोचुर्यत्प्रष्टव्यं महामुने ।
अस्मिन्नेव च तत्प्रश्ने यथावत्कथितं त्वया

6.2.32

श्रीपराशर उवाच
ततः प्रहस्य तानाह कृष्णद्वैपायनोमुनिः ।
विस्मयोत्फुल्लनयनांस्तापसांस्तानुपागतान्

6.2.33

मयैष भवतां प्रश्रो ज्ञातो दिव्येन चक्षुषा ।
ततोहं वः प्रसंगेन साधुसाध्विति भाषितम्

6.2.34

स्वल्पेन हि प्रत्यनेनधर्मःसिध्यति वै कलौ ।
नरैर् आत्मगुणांभोभिः क्षलिताखिलकिल्बिषैः

6.2.35

शुद्रैश् च द्विजशुश्रूषातत्परैर् द्विजसत्तमाः ।
तथा स्त्रीभिर् अनाया सात्पतिशुश्रूषयैव हि

6.2.36

ततस्त्रितयमप्येतन्मम धन्यतरं मतम् ।
धर्मसंपादने क्लेशो द्विजातीनां कृतादिषु

6.2.37

भवद्भिर् यद् अभिप्रेतं तदेतत्कथितं मया ।
अपृष्टेनापि धर्मज्ञाः किमन्यत्क्रियतां द्विजाः

6.2.38

श्रीपराशर उवाच
ततःसंपूज्य ते व्यासं प्रशशंसुः पुनः पुनः ।
यथागतन्द्विजा जग्मुर्व्यासोक्तिकृतनिश्चयाः

6.2.39

भवतो ऽपि महाभाग रहस्यं कथितं मया ।
अत्यन्तदुष्टस्य कलेरयमेको महान्मुणः

6.2.40

यच्चाहं भवता पृष्टो जगतामुपसंहृतिम् ।
प्राकृतामन्तरालां च तामप्येष वदामि ते

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc