विष्णु पुराण · अध्याय 6.1
इति श्रीविष्णुमहापुराणे पञ्चमाशे ऽष्टत्रिंशो ऽध्यायः (38)
इति श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्य श्रीधरीयव्याख्याद्वयोपेते पञ्च मांशः समाप्तः ।
अथ श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्यश्रीधरीय व्याख्याद्वयोपेते षष्ठांशः प्रारभ्यते ।
श्रीमते रामानुजाय नमः
मैत्रेय उवाच
व्याख्याता भवता सर्गवंशमन्वन्तरस्थितिः ।
वंशानुचरितं चैव विस्तरेण महामुने
श्रोतुमिच्छाम्यहं त्वत्तो यथावदुपसंहृतिम् ।
महाप्रलयसंज्ञां च कल्पान्ते च महामुने
श्रीपराशर उवाच
मैत्रेय श्रूयतां मत्तो यथावदुपसंहृतिः ।
कल्पान्ते प्राकृते चैव प्रलयो जायते यथा
अहोरात्रं पितॄणां तु मासो ऽब्दस्त्रिदिवौकसाम् ।
चतुर्युगमहस्रे तु ब्रह्मणो वै द्विजोत्तम
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
दिव्यैर् वर्षसहस्रैस् तु तद्द्वादशभिर् उच्यते
चतुर्युगाण्य् अशेषाणि सदृशानि स्वरूपतः ।
आद्यं कृतयुगं मुक्त्वा मैत्रेयान्त्यं तथा कलिम्
आद्ये कृतयुगे सर्गो ब्रह्मणा क्रियते यथा ।
क्रियते चोपसंहारस्तथांऽते च कलौ युगे
मैत्रेय उवाच
कलेःस्वरूपं भगवन्विस्तराद्वक्तुमर्हसि ।
धर्मश् चतुष्पाद् भगवान् यस्मिन् विप्लवम् ऋच्छति
श्रीपराशर उवाच
कलेःस्वरूपं मैत्रेय यद्भवाञ्छ्रोतु मिच्छति ।
तन्निबोध समासेन वर्तते यन्महामुने
वर्णाश्रमाचारवती प्रवृत्तिर्न कलौ नृणाम् ।
न सामऋग्यजुर्धर्मविनिष्पादनहैतुकी
विवाहा न कलौ धर्म्या न शिष्यगुरुसंस्थितिः ।
न दांपत्यक्रमो नैव वह्निदेवात्मकः क्रमः
यत्र कुत्र कुले जातो बली सर्वेश्वरः कलौ ।
सर्वेभ्य एव वर्णेभ्यो योग्यः कन्यावरोधने
येन केन च योगेन द्विजातिर्दीक्षितः कलौ ।
यैव सैव च मैत्रेय प्रायश्चित्तं कलौ क्रिया
सर्वमेव कलौ शास्त्रं यस्य यद्वजनं द्विज ।
देवता च कलौ सर्वा सर्वःसर्वस्य चाश्रमः
उपवासस्तथाऽयासौ वित्तोत्सर्गस्तपः कलौ ।
धर्मो यथाभिरुचितैर् अनुष्ठनैर् अनुष्ठितः
वित्तेन भविता पुंसां स्वल्पेनाढ्यमदः कलौ ।
स्त्रीणां रूपमदश्चैवं केशैर् एव भविष्यति
मुवर्णमणिरत्नादौ वस्त्रे चोपक्षयं गते ।
कलौ स्त्रियो भविष्यन्ति तदा केशैर् अलङ्कृताः
परित्यक्ष्यन्ति भर्तारं वित्तहीनं तथा स्त्रियः ।
भर्ता भविष्यति कलौ वित्तवानेव योषिताम्
यो वै ददाति बहुलं स्वं स स्वामी सदा नृणाम् ।
स्वामित्वहेतुःसंबन्धो न चाभिजनता तथा
गृहान्ता द्रव्य्संघाता द्रव्यान्ता च तथा मतिः ।
अर्थाश्चात्मोपभोग्यान्ता भविष्यन्ति कलौ युगे
स्त्रियः कलौ भविष्यन्ति स्वैरिण्यो ललितस्पृहाः ।
अन्यायादाप्तवित्तेषु पुरुषाः स्पृहयालबः
अभ्यर्थितापि सुहृदा स्वार्थमेव निरीक्ष्यते ।
पणार्धार्धाद्धमात्रे ऽपि करिष्यन्ति तथा स्पृहाम्
समानपौरुषं चेतो भुवि विप्रेषु वै कलौ ।
क्षीरप्रदानसंबन्धि भावि गोषु च गौरवम्
अनावृष्टिभयप्रायाः प्रजाः क्षुद्भयकातराः ।
भविष्यन्ति तदा सर्वे गगनासक्तदृष्टयः
कन्दमूलफलाहारास्तापसा इव मानवाः ।
आत्मानं घातयिष्यन्ति ह्यनावृष्ट्यादिदुःखिताः
दुर्भिक्षमेव सततं तथा क्लेशमनीश्वराः ।
प्राप्स्यन्ति व्याहतसुखप्रमोदा मानवाः कलौ
अस्नानभोजिनो नाग्निदेवतातिथिपूजंनम् ।
करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम्
लोलुपा ह्रस्वदेहाश् च बह्वन्नादनतत्पराः ।
बहुप्रजाल्पभाग्याश् च भविष्यन्ति कलौ स्त्रियः
उभाभ्यामपि पाणिभ्यां शिरःकण्डूयनं स्त्रियः ।
कुर्वन्त्यो गुरुभर्तॄणाम् आज्ञां भर्त्स्यन्त्यनादराः
स्वपोषणपराः क्षुद्रा देहसंस्कारवर्जिताः ।
परुषानृतभाषिण्यो भविष्यन्ति कलौ स्त्रियः
दुःशीला दुष्टशीलेषु कुर्वन्त्यःसततं स्पृहाम् ।
असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः
वेदादानं करिष्यन्ति बटवश्चाकृतव्रताः ।
गृहस्थाश् च न होष्यन्ति न दास्यन्त्युचितान्यपि
वानप्रस्था भविष्यन्ति ग्राम्याहारपरिग्रहाः ।
भिक्षवश्चापि मित्रादिस्नेहसंबन्धयन्त्रणाः
अरक्षितारो हर्तारः शुल्कव्याजेन पार्थिवाः ।
हारिणो जनवित्तानां संप्राप्ते तु कलौ युगे
योयो ऽश्वरथनागाढ्यःस स राजा भविष्यति ।
यश् च यश्चाबलः सर्वः स स भृत्यः कलौ युगे
वैश्याः कृषिवणिज्यादि संत्यज्य निजकर्म यत् ।
शूद्रवृत्त्या प्रवर्त्स्यन्ति कारुकर्मोपजीविनः
भैक्षव्रतपराः शूद्रा प्रव्रज्यालिङ्गिनो ऽधमाः ।
पाषण्डसंश्रयां वृत्तिमाश्रयिष्यन्ति सत्कृताः
दुर्भिक्षकरपीडाभिर् अतीवोपद्रुता जनाः ।
गोधूमान्नयवान्नाढ्यान्देशान्यास्यन्ति दुःखिताः
वेदमार्गे प्रलीने च पाषण्डाढ्ये ततो जने ।
अधर्मवृद्ध्या लोकानामल्पमायुर्भविष्यति
अशास्त्रविहितं घोरं तप्यमानेषु वै तपः ।
नरेषु नृपदोषेण बाल्ये मृत्युर्भविष्यति
भविता योषितां सूतिः पञ्चषट्मप्तवार्षिकी ।
नवाष्टदशवर्षाणां मनुष्याणां तथा कलौ
पलितोद्भवश् च भविता तथा द्वादशवार्षिकः ।
नातिजीवति वै कश्चित्कलौ वर्षाणि विंशतिः
अल्पप्रज्ञा वृथालिङ्गा दुष्टान्तःकरणाः कलौ ।
यतस्ततो विनङ्क्ष्यन्ति कालेनाल्पेन मानवाः
यदायादा हि मैत्रेय हानिर्धर्मस्य लक्ष्यते ।
तदातदा कलेर्वृद्धिरनुमेया विचक्षणैः
यदायदा हि पांषडवृद्धिर्मैत्रेय लक्ष्यते ।
तदातदा कलेर्वृद्धिरनुमेया महात्मभिः
यदायदा सतां हीनिर्वेदमार्गानुसारिणाम् ।
तदातदा कलेर्वृद्धिरनुमेया विचक्षणैः
प्रारंभाश्चावसीदन्ति यदा धर्मभृतां नृणाम् ।
तदानुमेयं प्राधान्यं कलेर् मैत्रेय पण्डितैः
यदायाद न यज्ञानामीश्वरः पुरुषोत्तमः ।
इज्यते पुरुषैर् यज्ञैस् तदा ज्ञेयं कलेर् बलम्
न प्रीतिर्वेदवादेषु पाषण्डेषु यदा रतिः ।
कलेर्वृद्धिस्तदा प्राज्ञैर् अनुमेया विचक्षणैः
कलौ जगत्पतिं विष्णुंसर्वस्रष्टारमीश्वरम् ।
नार्चयिष्यन्ति मैत्रेय पाषण्डोपहता जनाः
किं देवैः किं द्विजैर् वेदैः किं शौचे नांबुजन्मना ।
इत्येवं विप्रवक्ष्यन्ति पाषण्डोपहता जनाः
स्वल्पांबुवृष्टिः पर्जन्यः सस्यं स्वल्पफलं तथा ।
फलं तथाल्पसारं च विप्र प्राप्ते कलौ युगे
शाणीप्रायाणि वस्त्राणि शमीप्राया महीरुहाः ।
शूद्रप्रायास् तथा वर्णा भविष्यन्ति कलौ युगे
अणुप्रायाणि धान्यानि चाज्यप्रायं तथा पयः ।
भविष्यति कलौ प्राप्ते ह्यौशीरं चानुलेपनम्
श्वश्रूश्वशुरभूयिष्ठा गुरवश् च नृणां कलौ ।
श्यालाद्य हारिभार्याश् च सृहृदो मुनिसत्तम
कस्य माता पिता कस्य यथा कर्मानुगः पुमान् ।
इति चोदाहरिष्यन्ति श्वशुरानुगतानराः
वाङ्मनःकायगैर् दोषैर् अभिभूताः पुनः पुनः ।
नराः पापान्यनुदिनं करिष्यन्त्यल्पमेधसः
निःसत्त्वानामशौचानां निह्रीकाणां तथा नृणाम् ।
यद्यद्दुःखाय तत्सर्वं कलिकाले भविष्यति
निःस्वाध्यायवषट्कारे स्वधास्वाहाविवर्जिते ।
तदा प्रविरलो धर्मः क्वचिल्लोके निवत्स्यति
तत्राल्पेनैव यत्नेन पुण्यस्कन्धमनुत्तमम् ।
करोतियः कृतयुगे क्रियते तपसा हि सः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0