विष्णु पुराण · अध्याय 5.38
इति श्रीविष्णुमहापुराणे पञ्चमांशे सप्तत्रिंशोध्यायः (37)
श्रीपराशर उवाच
अर्जुनोपि तदान्वीक्ष्य रामकृष्णकलेवरे ।
संस्कारं लंभयामास तथान्येषामनुक्रमात्
अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास्तु याः ।
उपगुह्य हरेर्देह विविशुस्ता हुताशनम्
रेवती चापि रामस्य देहमाश्लिष्य सत्तमा ।
विवेश ज्वलितं वाह्निं तत्संगाह्लादशीतलम्
उग्रसेनस्तु तच्छुत्वा तथैवानकदुन्दुभिः ।
देवकी रोहिणी चैव विविशुर्जातवेदसम्
ततोर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि ।
निश्चक्राम जनं सर्वे गृहीत्वा वज्रमेव च
द्वारवत्या विनिष्क्रान्ताः कृष्णपत्न्यः सहस्रशः ।
वज्रं जनं च कौतेयः पालयञ्छनकैर् ययौ
सभा सुधर्मा कृष्णेन कर्त्यलोके समुज्झिते ।
स्वर्गं जगाम मैत्रेय पारिजातश् च पादपः
यस्मिन्दिने हरिर्यातो दिवं संत्यज्य मेदिनीम् ।
तस्मिन्नेवावतीर्णो ऽयं कालकायो बली कलिः
प्लावयामास तां शून्यां द्वारकां च महोदधिः ।
वासुदेवगृहं त्वेकं न प्लावयति सागरः
नातिक्रान्तुमलं ब्रह्मंस्तदद्यापि महोदधिः ।
नित्यं सन्निहितस्तत्र भगवान्केशवो यतः
तदतीव महापुण्यं सर्वपातकनाशनम् ।
विष्णुश्रियान्वितं स्थानं दृष्ट्वा पामाद्विमुच्यते
पार्थः पञ्चनदे देशे बहुधान्यधनान्विते ।
चकार वासं सर्वस्य जनस्य मुनिसत्तमः
ततो लोभःसमभवत्पार्थेनैकेन धन्विना ।
दृष्ट्वास्त्रियो नीयमाना दस्यूनां निहतेश्वराः
ततस्ते पापकमाणो लोभोपहृतचेतसः ।
आभीरा मन्त्रयामासुःसमेत्यान्यन्तदुर्मदाः
अयमेकोर्ऽजुनो धन्वी स्त्रीजनं निहतेश्वरम् ।
नयत्यस्मानतिक्रम्य धिगेतद्भवतां बलम्
हत्वा गर्वसमारूढो भीष्मद्रोमजयद्रथान् ।
कर्णादींश् च न जानाति बलं ग्रामनिवासिनाम्
यष्टिहस्तानवेक्ष्यास्मान्धनुष्पाणिःस दुर्मतिः ।
सर्वानेवावजानाति किं वो बाहुभिर् उन्नतैः
ततो यष्टिप्रहरणादस्यवो लोष्टधारिणः ।
सहस्रशोभ्यधावन्त तं जनं निहतेश्वरम्
ततो निर्भर्त्स्य कौतेयः प्राहाभीरान्हसन्निव ।
निवर्तध्वमधर्मज्ञा यदि न स्थ मुमूर्षवः
अवज्ञाय वचस्तस्य जगृहुस्ते तदा धनम् ।
स्त्रीधनं चैव मैत्रेय विष्वक्सेन पिरग्रहम्
ततोर्जुनो धनुर्दिव्यं गाण्डीवमजरं युधि ।
आरोपयितुमारेभे न शशाक च वीर्यवान्
चकार सज्यं कृच्छ्राच्चतच्चाभूच्छिथिलं पुनः ।
न सस्मार ततोस्त्राणि चिन्तयन्नपि पाण्डवः
शरान्मुमोच चैतेषु पार्था वैरिष्वमर्षितः ।
त्वग्भेदं दे परं चक्रुरस्ता गाण्डीवधन्विना
वह्निना ये ऽक्षया दत्ताः शरास्तेपि क्षयं ययुः ।
युद्ध्यतःसह गोपालैर् अर्जुनस्य भवक्षये
अचिन्तयच्च कैन्तेयः कृष्णस्यैव हि तद्बलम् ।
यन्मया शरसंघातैः सकला भूभृतो हताः
मिषतः पाण्डुपुत्रस्य ततस्ताः प्रमदोत्तमाः ।
आभीरैर् अपकृष्यन्त कामं चान्याः प्रदुद्रुवुः
ततः शरेषु क्षीणेषु धनुष्कोट्या धनञ्जयः ।
जघान दस्यूंस्ते चास्य प्रहाराञ्जहसुर्मुने
प्रेक्षतस्तस्य पार्थस्य पुष्ण्यन्धकवरस्त्रियः ।
जग्मुरादाय ते म्लेच्छाः समस्ता मुनिसत्तम
ततःसुदुःखितो जिष्णुः कष्टं कष्टमिति ब्रुवन् ।
अहो भगवतानेन मुष्टोस्मीति रुरोद वै
तद्धनुस्तानि शस्त्राणि स रथस्ते च वाजिनः ।
सर्वमेकपदे नष्टं दानमश्रोत्रिये यथा
अहोतिबलबद्दैवं विना तेन महात्मना ।
यदसामर्थ्ययुक्तेपि निचवर्गे जयप्रदम्
तौ बाहू स च मे मुष्टिः स्थानं तत्सोस्मि चार्जुनः ।
पुण्येनैव विना तेन गतं सर्वमसारताम्
ममार्जुनत्वं भीमस्य भीमत्वं तत्कृते ध्रुवम् ।
विना तेन यदा भीरैर् जितोहं रथिनां वरः
श्रीपराशर उवाच
इत्थं वदन्ययौ जिष्मुरिद्रप्रस्थं पुरोत्तमम् ।
चकार तत्र राजानं वज्रं यादवनन्दनम्
स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम् ।
तमुपेत्य महाभागं विनयेनाब्यवादयत्
तं वन्दमानं चरणाववलोक्य मुनिश्चिरम् ।
उवाच वाक्यं विच्छायः कथमद्य त्वमीदृशः
अवीरजोनुगमनं ब्रह्महत्या कृताथ वा ।
दृढाशाभङ्गदुःखीव भ्रष्टच्छायो ऽसि सांप्रतम्
सांतानिकादयो वाते याचमाना निराकृताः ।
अगम्यस्त्रीरतिर्वा त्वं येनासि विगतप्रभः
भुङ्ते ऽप्रदायविप्रेभ्यो मृष्टमेकोथ वा भवान् ।
किं वा कृपणवित्तानि हृतानि भवतार्ऽजुन
कचिन्नु शुर्पवातस्य गोचरत्वं गतोर्ऽजुन ।
दुष्टचक्षुर्हतो वासि निःश्रीकः कथमन्यथा
स्पृष्टो नखांभसा वाथ घटवार्युक्षितोपि वा ।
केन त्वं वासि विच्छायो न्यूनैर् वा युधि नीजातः
श्रीपराशरौवाच
ततः पार्थो विनिश्वास्य श्रूयतां भगवन्निति ।
प्रोक्त्वा यथावदाचष्टे व्यासायात्मपराभवम्
अर्जुन उवाच
यद्बलं यच्च मत्तेजो यद्वीर्यं यः पराक्रमः ।
या श्रीश्छाया च नः सोस्मान्परित्यज्य हरिर्गतः
ईश्वरेणापि महता स्मितपूर्वाभिभाषिणा ।
हीना वयं मुने तेन जातास्तृणमया इव
अस्त्राणां सायकानां च गाण्डीवस्य तथा मम ।
सारता याभवन्मूर्तिःस गतः पुरुषोत्तमः
यस्यावलोकनादस्माञ्छ्रीर्जयः संपदुन्नतिः ।
न तत्याज स गोविन्दस्त्यक्त्वास्मान्भगवान्गतः
भीष्मद्रोणाङ्गराजाद्या स् तथा दुर्योधनादयः ।
यत्प्रभावेन निर्दग्धाः स कृष्णस्त्यक्तवान्भुवम्
निर्यौवना गतश्रीका नष्टच्छायेव मेदिनी ।
विभाति तात नैकोहं विरहे तस्य चक्रिणः
यस्य प्रभावाद्भीष्माद्यैर् मय्य् अग्नौ शलभायतम् ।
विना तेनाद्य कृष्णेन गोपालौरस्मि निर्जितः
गाण्डीवस्त्रिषु लोकेषु ख्यातिं यदनुभावतः ।
गतस्तेन विनाऽभीरलगुडैः स तिरस्कृतः
स्त्रीसहस्राण्यनेकानि मन्नाथानि महामुने ।
यततो मम नीतानि दस्युभिर् लगुडायुधैः
आनीयमानमाभीरैः कृष्ण कृष्णावरोधनम् ।
हृतं यष्टिप्रहरणैः परिभूय बलं मम
निःश्रीकता न मे चित्रं यज्जीवामि तदद्भुतम् ।
नीचावमानपङ्काङ्की निर्लज्जोस्मि पितामह
व्यास उवाच
अलं ते व्रीडया पार्थ न त्वं शोचितुम् अर्हसि ।
अवेहि सर्वभूतेषु कालस्य गतिरीदृशी
कालो भवाय भूतानामभवाय च पाण्डव ।
कालमूलम् इदं ज्ञात्वा भव स्थैर्यपरो ऽर्जुन
नद्यः समुद्रा गिरयःसकला च वसुंधरा ।
देवा मनुष्याः पशवस्तरवश् च सरीसृपाः
सृष्टाः कालेन कालेन पुनर् यास्यन्ति संक्षयम् ।
कालात्मकमिदं सर्वं ज्ञात्वा शममवाप्नुहि
कालस्वरूपी भगवान्कृष्णः कमललोचनः ।
यच्चात्थ कृष्णमाहात्म्यं तत्तथैव धनञ्जय
भारावतारकार्यार्थमवतीर्णस्य मेदिनीम् ।
भाराक्रान्ता धरा याता देवानां समितिं पुरा
तदर्थमवतीर्णो ऽसौ कालरूपी जनार्दनः ।
तच्च निष्पादिनं कार्यमशेषा भूभुजो हताः
वष्ण्यन्धककुलं सर्वं तथा पार्थोपसंहृतम् ।
न किञ्चिदन्यत्कर्तव्यं तस्य भूमितले प्रभोः
अतो गतःस भगवान्कतकृत्यो यथेच्छया ।
सृष्टिं सर्गे करोत्येष देवदेवः स्थितौ स्थितिम् ।
अन्तेन्ताय समर्थोयं सांप्रतं वै यथा गतः
तस्मात्यार्थ न संतापस्त्वया कार्यः पराभवे ।
भवन्ति भावाः कालेषु पुरुषाणां यतः स्तुतिः
त्वयैकेन हता भीष्मद्रोणकर्मादयो रणे ।
तेषामर्जुन कालोत्थः किं न्यूनाभिभवो न सः
विष्णोस्तस्य प्रभावेण यथा तेषां पराभवः ।
कृतस्तथैव भवतो दस्युभ्यः स पराभवः
स देवेशः शरीराणि समाविश्य जगत्स्थितिम् ।
करोति सर्वभूतानां नाशमन्ते जगत्पतिः
भगोदये ते कैन्तेय सहायो ऽभूज्जनार्दनः ।
तथान्ते तद्विपक्षास्ते केशवेन विनाशिताः
कः श्रद्दद्ध्यात्सगाङ्गोयान्हन्यास्त्वं कौरवानिति ।
आभीरेभ्यश् च भवतः कः श्रद्दध्यात्पराभवम्
पार्थैतत्सर्वभूतस्य हरेर्लीलाविचोष्टितम् ।
त्वया यत्कौरावा ध्वस्ता यदाभीरैर् भवाञ्जितः
गृहीता दस्युभिर् याश् च भवाञ्छोचति ताःस्त्रियः ।
एतस्याहं यथावृत्तं कथयामि तवार्जुन
अष्टावकः पुरा विप्रो जलवासरतो ऽभवत् ।
बहून्वर्षगणान्पार्थ गृणन्ब्रह्म सनातनम्
जितेष्वसुरसंघषु मेरुपृष्ठे महोत्सवः ।
बभूव तत्र गच्छन्त्यो ददृशुस्तं सुरस्त्रियः
रंभातिलोत्तमाद्यास्तु शतशो ऽथ सहस्रशः ।
तुष्टुवुस्तं महात्मानं प्रशशंसुश् च पाण्डव
आकण्ठमग्नं सलिले जटाभारवहं मुनिम् ।
विनयावनताश्चैनं प्रणेमुस्तोत्रतत्पराः
यथायथा प्रसन्नो ऽसौ तुष्टुवुस्तं तथातथा ।
सर्वास्ताः कौरवश्रेष्ठ तं वरिष्ठं द्विजन्मनाम्
अष्टावक्र उवाच
प्रसन्नो ऽहं महाभागा भवतीनां यदिष्यते ।
मत्तस्तद्व्रयतां सर्वं प्रदास्याम्यतिदुर्लभम्
रंभातिलोत्तमाद्यास्तं वैदिक्योप्सरसोब्रुवन् ।
प्रसन्ने त्वय्यपर्याप्तं किमस्माकमिति द्विज
इतरास्त्वब्रुवन्विप्र प्रसन्नो भगवान्यदि ।
तदिच्छामः पतिं प्राप्तुं विप्रेन्द्र पुरुषोत्तम
व्यास उवाच
एवं भविष्यतीत्युक्त्वा ह्युत्ततार जलान्मुनिः ।
तमुत्तीर्णं च दृदृशुर्विरूपं वक्रमष्टधा
तं दृष्ट्वा गूहमानानां यासां हासः स्फुटो ऽभवत् ।
ताः शशाप मुनिः कोपमवाप्य कुरुनन्दन
यस्माद्विकृतरूपं मां मत्वा हीसा वमानना ।
भवतीभिः कृता तस्मादेतं शापं ददामि वः
मत्प्रसादेन भर्तारं लब्ध्वा तु पुरुषोत्तमम् ।
मच्छापोपहताःसर्वा दस्युहस्तं गमिष्यथ
व्यास उवाच
इत्युदीरितमाकर्ण्य मुनिस्ताभिः प्रसादितः ।
पुनःसुरेद्रलोकं वै प्राह भूयो गमिष्यथ
एवं तस्य मुनेः शापादष्टावक्रस्य चक्रिणम् ।
भर्तारं प्राप्य ता याता दस्युहस्तं सुराङ्गनाः
तत्त्वाय नात्र कर्तव्यः शोको ऽल्पोपि हि पाण्डव ।
तेनैवाखिलनाथेन सर्वं तदुपसंहृतम्
भवतां चोपसंहार आसन्नस्तेन पाण्डव ।
बलं लेजस् तथा वीर्यं माहात्म्यं चोपसंहृतम्
जातस्य नियतो मृत्युः पतनं च तथोन्नतेः ।
विप्रयोगावमानस्तु संयोगः संचये क्षयः
विज्ञाय न बुधाः शोकं न हर्षमुपयान्ति ये ।
तेषामेवेतरे चेष्टां शिक्षन्तःसंति तादृशाः
तस्मात् त्वया नरश्रेष्ठ ज्ञात्वैतद्भ्रातृभिः सह ।
परित्यज्याखिलं तन्त्रं गन्तव्यं तपसे वनम्
तद्रच्छ धर्मराजाय निवेद्यौतद्वचो मम ।
परश्वो भ्रातृभिः सार्ध यथा यासि तथा कुरु
इत्युक्तोभ्येत्य पार्थाभ्यां यमाभ्यां च सहार्जुनः ।
दृष्टं चैवानुभूतं च सर्वमाख्यातवांस् तथा
व्यासवाक्यं च ते सर्वे श्रुत्वार्जुनमुखेरितम् ।
राज्ये परीक्षितं कृत्वा ययुः पाण्डुसुता वनम्
इत्येतत्तव मैत्रेय विस्तरेण मयोदितम् ।
जातस्य यद्यदोर्वशे वासुदेवस्य चेष्टितम्
यश्चैतच्चरितं तस्य कृष्णस्य शृमुयात्सदा ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0