विष्णु पुराण · अध्याय 5.7
इति श्रीविष्णुमहापुराणे पञ्चमांशे षष्ठोध्यायः (6)
श्रीपराशर उवाच
एकदा तु विना रामं कृष्णो वृन्दावनं ययौ ।
विचचार वृतो गोपैर् वन्यपुष्पस्रगुज्ज्वलः
स जगामाथ कालिन्दीं लोल कल्लोलशालिनीम् ।
तीरसंलग्नफेनौघैर् हसन्तीम् इव सर्वतः
तस्याश्चतिमहाभीमं विषाग्निश्रितवारिणम् ।
ह्रदं कालीयनागस्य ददर्शतिविभीषणम्
विषाग्निना प्रसरता दग्धतीरंमहीरुहम् ।
वाताहतांबुविक्षेपस्पर्शदग्धविहङ्गमम्
तमतीव महा रौद्रं मृत्युवक्रमिवापरम् ।
विलोक्य चिन्तयामास भगवान्मधुसूदनः
अस्मिन्वसति दुष्टात्मा कालीयो ऽसौ विषायुधः ।
यो मया निर्जितस्त्यक्त्वा दुष्टो गच्छेत्पयोनिधिम्
तेनेयं दूषिता सर्वा यमुना सागरङ्गमा ।
न नरैगोधनैश् चापि तृषार्तैर् उपभुज्यते
तदस्य नागराजस्य कर्तव्यो निग्रहो मया ।
निस्त्रासास्तु सुखं येन चरेयुर्व्रजवासिनः
एतदर्थं तु लोकेस्मिन्नवतारः कृतो मया ।
यदेषामुत्पथस्थानां कार्या शान्तिर्दुरात्मनाम्
तदेतं नातिदूरस्थं कदंबमुरुशाखिनम् ।
अदिरुद्य पतिष्यामि ह्रदे ऽस्मिन्ननिलाशिनः
श्रीपराशर उवाच
इत्थं विचिन्त्य बद्धा च गाढं परिकरं ततः ।
निपपात ह्रदे तत्र नागराजस्य वेगतः
तेनातिपतता तत्र क्षोभितःस महाह्रदः ।
अत्यर्थं दूरजातांस्तु समसिंचन्महीरुहान्
ते हि दुष्टविषज्वालातप्तांबुपवनोक्षिताः ।
जज्वलुः पादापाःसद्यो ज्वालाव्याप्तदिगन्तराः
आस्फोटयामास तदा कृष्णो नागह्रने भुजम् ।
तच्छब्दश्रवणाच्चाशु नागराजो ऽभ्युपागमत्
आताम्रनयनः कोपाद्विषज्वालाकुलैर् मुखैः ।
वृतो महाविषैश् चान्यैर् उरगैर् अनिलाशनैः
नागपत्न्यश् च शतशो हारिहारोपशोभिताः ।
प्रकंपिततनुक्षेपचलत्कुन्तसकान्तयः
ततः प्रवेष्टितःसर्पैः स कृष्णे भोगबन्धनैः ।
ददंशुस्ते ऽपि तं कृष्णं विषज्वालाकुलैर् मुखैः
तं तत्र पतितं दृष्ट्वा सर्पभोगौर्निपीडितम् ।
गोपा व्रजमुपागम्य चुक्रुशुः शोकलालसाः
गोपा ऊचुः
एष मोहं गतः कृष्णो मग्नौ वै कालियह्रदे ।
भक्ष्यते नागराजेन तमागच्छत पश्यत
तच्छुत्वा तत्र ते गोपा वज्रपा तोपमं वचः ।
गोप्यश् च त्वरीता जग्मुर्यशोदाप्रमुखा ह्रदम्
हाहा क्वासाविति जनो गोपीनामतिविह्वलः ।
यशोदया समं भ्रान्तो द्रुतप्रस्खलितं ययौ
नन्दगोपश् च गोपाश् च रामश्चाद्भुतविक्रमः ।
त्वरितं यमुनां जग्मुः कृष्णदर्शनलालासाः
ददृशुश्चापि ते तत्र सर्पराजवशङ्गतम् ।
निष्प्रयत्नीकृतं कृष्णं सर्पभोगविवेष्टितम्
नन्दगोपोपि निश्चेष्टो न्यस्य पुत्रमुखे दृशम् ।
यशोदा च महाभागा बभूव मुनिसत्तम
गोप्यस् त्वन्या रुदन्त्यश् च ददृशुः शोककातराः ।
प्रोचुश् च केशवं प्रीत्या भयकातर्यगद्गदम्
गोप्य ऊचुः
सर्वा यशोदया सार्ध विशामोत्र महाह्रदम् ।
सर्पराजस्य नो गन्तुमस्माभिर् युज्यते व्रजम्
दिवसः सो विना सूर्यं विना चन्द्रेण का निशा ।
विना वृषेण का गावो विना कृष्णेन को व्रजः
विनाकृता न यास्यामः कृष्णेनानेन गोकुलम् ।
अरम्यं नातिसेव्यं च वारिहीनं यथा सरः
यत्र नेन्दीवरश्यामकायकान्तिरयं हरिः ।
तेनापि पातुर्वासेन रतिरस्तीति विस्मयः
उत्फुल्लपङ्कजदलस्पष्टकान्तिविलोचनम् ।
अपश्यन्तो हरिं दीनाः कथं गोष्ठे भविष्यथ
अत्यन्त मधुरालापहृताशेषमनोरथम् ।
न विना पुण्डरीकाक्षं यास्यामो नन्दगोकुलम्
भोगेनाविष्टितस्यापि सर्पराजस्य पश्यत ।
स्मितशोभिमुखं गोप्यः कृष्णस्यास्मद्विलोकने
श्रीपराशर उवाच
इति गोपीवचः श्रुत्वा रौहिणेयो महाबलः ।
गोपांश् च त्रासविधुरान्वि लोक्य स्तिमितेक्षणान्
नन्दं च दीनमत्यर्थं न्यस्तदृष्टिं सुतानने ।
मूर्छाकुलां यशोदं च कृष्णमाहात्मसंज्ञया
किमिदं देवदेवेश भावो ऽयं मानुषस्त्वया ।
व्यज्यतेत्यन्तमात्मानं किमनन्तं न वोत्सि यत्
त्वमेव जगतो नाभिर् अराणामिव संश्रयः ।
कर्तापहर्ता पाता च त्रौलोक्यं त्वं त्रयीमयः
सेन्द्रै रुद्राग्निवसुभिर् आदित्यैर् मरुदश्विभिः ।
चिन्त्यसे त्वमचिन्त्यात्मन् समस्तैश् चैव योगिभिः
जगत्यर्थं जगन्नाथ भारावतरणेच्छया ।
अवतीर्णो ऽसि मर्त्येषु तवांशश्चाहमग्रजः
मनुष्यलीलां भगवन् भजता भवता सुराः ।
विडम्बयन्तस्त्वल्लीलां सर्व एव सहा सते
अवतार्य भवान्पूर्वं गोकुले तु सुराङ्गनाः ।
क्रीडार्थमात्मनः पश्चादवर्तीर्णो ऽसि शाश्वत
अत्रावतीर्णयोः कृष्ण गोपा एव हि बान्धवाः ।
गोप्यश् च सीदतः कस्मादेतान्बन्धूनुपेक्षसे
दर्शितो मानुषो भावो दर्शितं बालचापलम् ।
तदयं दम्यतां कृष्ण दुष्टत्मा दशनायुधः
श्रीपराशर उवाच
इति संस्मारितः कृष्णः स्मितभिन्नोष्ठसंपुटः ।
आस्फोट्य मोचयामास स्वदेहं भोगिबन्धनात्
आनम्य चापि हस्ताभ्यामुभाभ्यां मध्यमं शिरः ।
आरुह्याभुग्नशिरसः प्रणनर्तोरुविक्रमः
प्राणाः फणे ऽभवंश्चास्य कृष्णस्याङ्घ्रिनिकुट्टनैः ।
यत्रोन्नतिं च कुरुते ननामास्य ततः शिरः
मूर्छामुपाययौ भ्रान्त्या नागः कृष्णस्य रेचकैः ।
दण्डपातनिपातेन ववाम रुधिरं बहु
तं विभिग्रशिरोग्रीवमास्येभ्यस्मुतशोणितम् ।
विलोक्य करुणं जग्मुस्तत्पत्न्यो मधुसूदनम्
नागपत्न्य ऊचुः
ज्ञातो ऽसि देवदेवेश सर्वज्ञस्त्वमनुत्तमः ।
परं ज्योतिरचिन्त्यं यत्तदंशः परमेश्वरः
न समर्थाः सुराःस्तोतुं यमनन्यभवं विभुम् ।
स्वरूपवर्णनं तस्य कथं योषित्करिष्यति
यस्याखिलमहीर्व्योमजलाग्निपवनात्मकम् ।
ब्रह्माण्डमल्पकाल्पांशः स्तोष्यामस्तं कथं वयम्
यमतो न विदुर्नित्यं यत्स्वरूपं हि योगिनः ।
परमार्थमणोरल्पं स्थूलात्स्थूलं नताः स्म तम्
न यस्य जन्मने धाता यस्य चान्ताय नान्तकः ।
स्थितिकर्ता न चान्योस्ति यस्य तस्मै नमःसदा
कोपः स्वल्पो ऽपि ते नास्ति स्थितिपालनमेव ते ।
कारणं कालिय स्यास्य दमने श्रुयतां वचः
स्त्रियोनुकंप्याःसाधूनां मूढा दीनाश् च जन्तवः ।
यतस्ततोस्य दीनस्य क्षम्यतां क्षमतांवर
समस्त जगदावारो भवानल्पबलः फणी ।
त्वत्पादपीडितो जह्यान्मुहूर्तार्धन जीवितम्
क्व पन्नगोऽ ल्पवीर्यो ऽयं क्व भवान्भुवनाश्रयः ।
प्रीतिद्वेषौ समोत्कृष्टगोचरौ भवतो ऽव्यय
ततः कुरु जगत्स्वामिन्प्रसादमवसीदतः ।
प्राणांस्त्यजति नागो ऽयं भर्तृभिक्षा प्रदीयताम्
भुवनेश जगन्नाथ महापुरुषपूर्वज ।
प्राणांस्त्यजति नागो ऽयं भर्तृभिक्षां प्रयच्छ नः
वेदान्तवेद्य देवेश दुष्टदैत्यनिबर्हम ।
प्राणांस्त्यजति नागो ऽयं भर्तभिक्षा प्रदीयताम्
श्रीपराशर उवाच
इत्युक्ते ताभिर् आश्वस्य क्लान्तदेहोपि पन्नगः ।
प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः
कालिय उवाच
तवाष्टगुणमैश्वर्यं नाथ स्वाभाविकं परम् ।
निरस्तातिशयं यस्य तस्य स्तोष्यामि कित्र्वहम्
त्वं परस्त्वं परस्याद्यः परं त्वत्तः परात्मक ।
परस्मात्परमो यस् त्वं तस्य स्तोष्यामि किन्न्व् अहम्
यस्माद्बह्माच रुद्रश् च चन्द्रेद्रमरुदश्विनः ।
वसवश् च सहादित्यैस् तस्य स्तोष्यामि कित्र्वहम्
एकावयवसूक्ष्मांशो यस्यैतदखिलं जगत् ।
कल्पनावयवस्यांशस्तस्य स्तोष्यामि कित्र्वहम्
सदसद्रूपिणो यस्य ब्रह्माद्यास् त्रिदशेश्वराः ।
परमार्थं न जानन्ति तस्य स्तोष्यामि कित्र्वहम्
ब्रह्माद्यौरर्चिते यस्तु गन्धपुष्पानुलेपनैः ।
नन्दनादिसमुद्भूतैः सोर्च्यते वा कथं मया
यस्यावताररूपाणि देवराजःसदार्चति ।
न वेत्ति परमं रूपं सोर्ऽच्यते वा कथं मया
विषयेभ्यः समावृत्त्य सर्वाक्षाणि च योगिनः ।
यमर्चयन्ति ध्यानेन सोर्ऽच्यते वा कथं मया
हृदि संकल्प्य यद्रूपं ध्यानेनार्चन्ति योगिनः ।
भावपुष्पादिना नाथः सोर्च्यते वा कथं मया
सो ऽहं ते देवदेवेश नार्चनादौ स्तुतौ न च ।
सामर्थ्यवान् कृपामात्रमनोवृत्तिः प्रसीद मे
सर्पजातिरियं क्रुरा यस्यां जातोस्मि केशव ।
तत्स्वभावो ऽयमत्रास्ति नापराधो ममाच्युत
सृज्यते भवता सर्वं तथा संह्रीयते जगत् ।
जातिरूपस्वभावाश् च सृज्यन्ते सृ-जता त्वया
यथाहं भवता सृष्टो जात्या रूपेण चेश्वर ।
स्वभावेन च साधुत्वं तथेदं चेष्टितं मया
यद्यन्यथा प्रवर्तेयं देवदेव ततो मयि ।
न्यायो दण्डनिपातो वै तवैववचनं यथा
तथाप्यज्ञे जगत्स्वामिन्दण्डं पातितवान्मयि ।
स श्लाघ्यो ऽयं परो दण्डस् त्वत्तो मे नान्यतो वरः
हतवीर्यो हतविषो दमितो ऽहं त्वयाच्युत ।
जीवितं दीयतामेकमाज्ञापय करोमि किम्
श्रीभगवानुवाच
नात्र स्थेयन्त्वया सर्प कदाचिद्यमुनाजले ।
सपुत्रपरिवारस्त्वं समुद्रसलिलं व्रज
मत्पदानि च ते सर्प दृष्ट्वा मूर्धनि सागरे ।
गरुडः पन्नगरिपुस्त्वयि न प्रहरिष्यति
श्रीपराशर उवाच
इत्युक्त्वा सर्पराजं तं मुमोच भगवान्हरिः ।
प्रणम्य सो ऽपि कृष्णाय जगाम पयसां निधिम्
पश्यतां सर्वभूतानां सभृत्यसुतबान्धवः ।
समस्तभार्यासहितः परित्यज्य स्वकं ह्रदम्
गते सर्पे परिष्वज्य मृतं पुनरिवागतम् ।
गोपा मूर्धनि हार्देन सिषिचुर् नेत्रजैर् जलैः
कृष्णामाक्लिष्टकर्माणमन्ये विस्मितचेतसः ।
तुष्टुवुर्मुदिता गोपा दृष्ट्वा शिवजलां नदीम्
गीयमानः स गोपीभिश्चारितैः साधुचेष्टितैः ।
संस्तूयमानो गोपैश् च कृष्णो व्रजमुपागमत्
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0