भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 5.8

5.8.1

इति श्रीविष्णुमहापुराणे पञ्चमांशे सप्तमो ऽध्यायः (7)
श्रीपराशर उवाच
गाः पालयन्तौ च पुनः सहितौ बलकेशवौ ।
भ्रममाणौ वने तस्मिन्रम्यं तालवनं गतौ

5.8.2

तत्तु तालवनं दिव्यं धेनुको नाम दानवः ।
मृगमांसकृताहारः सदाध्यास्ते खराकृतिः

5.8.3

तत्तु तालवनं पक्वफलसंपत्समन्वितम् ।
दृष्ट्वा स्पृहान्विता गोपा फलादाने ऽब्रुवन्वचः

5.8.4

गोपा ऊचुः
हे राम हे कृष्ण सदा धेनुकेनैष रक्ष्यते ।
भूप्रदेशो यतस्तस्मात्पक्वानीमानि संति वै

5.8.5

फलानि पश्य तालानां गन्धामोदितदिंशि वै ।
वयमेतान्यभीप्सामः पात्यन्तां यदि रोचते

5.8.6

श्रीपराशर उवाच
इति गोपकुमाराणां श्रुत्वा संकर्षणो वचः ।
एतत्कर्तव्यमित्युक्त्वा पातयामास तानि वै ।
कृष्णश् च पातयामास भुवितानि फलानि वै

5.8.7

फलानां पततां शब्दमाकर्ण्य सुदुरासदः ।
आजगाम स दुष्टात्मा कोपाद्दैतेयगर्दभः

5.8.8

पद्भ्यामुभाभ्यां स तदा पश्चिमाभ्यां बलं बली ।
जघानोरसि ताभ्यां च स च तेनाभ्यगृह्यत

5.8.9

गृहीत्वा भ्रामयामास सोंऽबरे गतजीवितम् ।
तस्मिन्नेव स चिक्षेप वेगेन तृणराजनि

5.8.10

ततः फलान्यनेकानि तालाग्रान्निपतन्खरः ।
पृथिव्यां पातयामास महावातो घनानिव

5.8.11

अन्या नथ सजातीयानागतान्दैत्यगर्दभान् ।
कृष्णश्चिक्षेप तालाग्रे बलभद्रश् च लीलया

5.8.12

क्षणेनालङ्कृता पृथ्वी पक्वैस् तलफलैस् तदा ।
दैत्य गर्दभदेहैश् च मैत्रेय शुशुभे ऽधिकम्

5.8.13

ततो गावो निराबाधास्तस्मिंस्तलवने द्विज ।
नवशष्वं सुखं चेरुर्यन्न भुक्तमभूत्पुरा

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc