विष्णु पुराण · अध्याय 5.6
इति श्रीविष्णुमहापुराणे पञ्चमांशे पञ्चमो ऽध्यायः (5)
श्रीपराशर उवाच
कदाचिच्छकटस्याधः शयानो मधुसूदनः ।
चिक्षेप चरणावूर्ध्वं स्तन्यार्थी प्ररुरोद ह
तस्य पादप्रहारेण शकटं परिवर्तितम् ।
विध्वस्तकुंभभाण्डं तद्विपरीतं पपात वै
ततो हाहाकृतः सर्वो गोपरोपीजनो द्विज ।
आजगामाथ ददृशे बालमुतानशायिनम्
गोपाः केनेति केनेदं शकटं परिवर्तितम् ।
तत्रैव बालकाः प्रोचुर्बालेनानेन पातितम्
रुदता दृष्टमस्माभिः पादविक्षेपपातितम् ।
शकटं परिवृत्तं वै नैतदन्यस्य चेष्टितम्
ततः पुनरतीवासन्गोपा विस्मयचेतसः ।
नन्दगोपोपि जग्राह बालमत्यन्तविस्मितः
यशोदा शकटारूढभग्नभाण्डकपालिका ।
शकटं चार्चयामास दधिपुष्पफलाक्षतैः
गर्गश् च गोकुले तत्र वसुदेवप्रचोदितः ।
प्रच्छन्न एव गोपानां संस्कारान करोत्तयोः
ज्येष्ठं च राममित्याह कृष्णं चैव तथावरम् ।
गर्गो मतिमतां श्रेष्ठो नाम कुर्वन्महामतिः
स्वल्पेनैव तु कालेन रङ्गिणौ तौ तदा व्रहे ।
घृष्टजानुकरौ विप्र बभूवतुरुभावपि
करीषभस्मदिग्धाङ्गौ भ्रममाणावितस्ततः ।
न निवारयितुं सेहे यशोदा तौ न रोहिणी
गोवाटमध्ये क्रीडन्तौ वत्सवाटं गतौ पुनः ।
तदहर्जातगोवत्सपुच्छाकर्षणतत्परौ
यदा यशोदा तौ बालावेकस्थानचरावुभौ ।
शशाक नो वारयितुं क्रीडन्तावतिचञ्चलौ
दाम्ना मध्ये ततो बद्धा बबन्ध तमुलूखले ।
कृष्णमक्लिष्टकर्माणमाह चेदममर्षिता
यदि शक्नोषि गच्छ त्वमतिचञ्चलचेष्टित ।
इत्युक्त्वाथ निजं कर्म सा चकार कुटुंबिनी
व्याग्रायामथ तस्यां स कर्षमाम उलूखलम् ।
यमलार्जुनमध्येन जगाम कमलेक्षणः
कर्षता वृक्षयोर्मध्ये तिर्यग्गतमुलूखलम् ।
भग्नावुत्तुङ्गशाखाग्रौ तेन तौ यमलार्जुनौ
ततः कटकटशब्दसमाकर्मनतत्परः ।
आजगाम व्रजजनो ददर्श च महाद्रुमौ
नवोद्गताल्पदन्तांशुसितहासं च बालकम् ।
तयोर्मध्यगतं दाम्ना बद्धं गाढं तथोदरे
ततश् च तामोदरतां स ययौ दामबन्धनात्
गोपवृद्धास्ततः सर्वे नन्दगोपपुरोगमाः ।
मन्त्रयामासुरुद्विग्ना महोत्पातातिभीरवः
स्थानेनेह न नः कार्यं व्रजामोन्यन्महावनम् ।
उत्पाता बहवो ह्यत्र दृश्यन्ते नाशहेतवः
पूतनाया विनाशश् च शकटस्य विपर्ययः ।
विना वातादिदोषेण द्रुमयोः पतनन्तथा
वृन्दावनमितःस्थानात्तस्माद्गच्छाम मा चिरम् ।
यावद्भौममहोत्पातदोषो नाभिभवेव्द्रजम्
इति कृत्वा मतिं सर्वे गमने ते व्रजौकसः ।
ऊचुः स्वं स्वं कुलं शीघ्रं गम्यतां मा विलंबथ
ततः क्षणेन प्रययुः शकटैर् गोधनैस् तथा ।
यूथशो वत्सपालाश् च कालयन्तो व्रजौकसः
द्रव्यावयवनिर्धूतं क्षणमात्रेण तत्तथा ।
काकभाससमाकीर्णं व्रजस्थानमभूद्दूज
वृन्दावनं भगवता कृष्णेना क्लिष्टकर्मणा ।
शुभेन मनसा ध्यातं गवं सिद्धिमभीप्सता
ततस्तत्रातिरूक्षे ऽपि घर्मकाले द्विजोत्तम ।
प्रावृट्काल इवोद्भूतं नवशष्पं समन्ततः
स समावासितः सर्वो व्रजो वृन्दावने ततः ।
शकटावाटपर्यन्तश्चन्द्रार्धाकारसंस्थितः
वत्सपालौ च संवृत्तौ रामदामोदरौ ततः ।
एक स्थनस्थितौ गोष्ठे चेरतुर्बाललीलया
बर्हिपत्रकृतापीडौ वन्यपुष्पावतंसकौ ।
गोपवेणुकृतातोद्यपत्रवाद्यकृतस्वनौ
काकपक्षधरौ बालौ कुमाराविव पावकी ।
हसंतौ च रमन्तौ च चेरतुः स्म महावनम्
क्वचिद्वहन्तावन्योन्यं क्रीडमानौ तथा परैः ।
गोपपुत्रैः समं वत्सांश्चारयन्तौ विचेरतुः
कालेन गच्छता तौ तु सप्तवर्षौ महाव्रजे ।
सर्वस्य जगतः पालौ वत्सपालौ बभूवतुः
प्रावृट्कालस्ततोतीव मेघौघस्थगितांबरः ।
बभूव वारिधाराभिर् ऐक्यं कुर्वन्दिशामिव
प्ररूढनवशष्पाढ्या शक्रगोपाचिता मही ।
तथा मारकतीवासीत्पद्मरागविभूषिता
ऊहुरुन्मार्गवाहीनि निम्नगांभांसि सर्वतः ।
मनांसि दुर्विनीतानां प्राप्य लक्ष्मीं नवामिव
न रेजेन्तरितश्चन्द्रो निर्मलो मलिनैर् घनैः ।
सद्वादिवादो मूर्खणां प्रगल्भाभिर् इवोक्तिभिः
निर्गुणेनापि चापेन शक्रस्य गगने पदम् ।
अवाप्यताविवेकस्य नृपस्यैव परिग्रहे
मेघपृष्ठे बलाकानां रराज विमला ततिः ।
दुर्वत्ते वृत्तचेष्टेव कुलीनस्यातिशौभना
न ब बन्धांबरे स्थैर्यं विद्युदत्यन्तचञ्चला ।
मैत्रीव प्रवरे पुंसि दुर्जनेन प्रयोजिता
मार्गा बभूवुर् अस्पष्टास् तृणशष्पचयावृताः ।
अर्थान्तरमनुप्राप्ताः प्रजडानामिवोक्तयः
उन्मत्तशिखिसारङ्गे तस्मिन्काले महावने ।
कृष्णरामौ मुदायुक्तौ गोपालैश् चेरतुः सह
क्विचिद्गोभिः समं रम्यं गोयतानरतावुभौ ।
चेरतुः क्वचिदत्यर्थं शीतवृक्षतलाश्रितौ
क्वचित्कदंबस्रक्चित्रौ मयूरस्रग्विराजितौ ।
विलिप्तौ क्वचिदासातां विविधैर् गिरिधातुभिः
पर्णशय्यासु संसुप्तौ क्वचिन्निद्रान्तरैषिणौ ।
क्वचिद्गर्जति जीमूते हाहाकाररवाकुलौ
गायतामन्य गोपानां प्रशंसापरमौ क्वचित् ।
मयूरकेकानुगतौ गोपवेणुप्रवादकौ
इति नानाविधैर् भावैर् उत्तमप्रीतिसंयुतौ ।
क्रीडन्तौ तौ वने तस्मिञ्चेरतुस्तुष्टमानसौ
विकाले च समं गोभिर् गोपवृन्दसमन्वितौ ।
विहृत्याथ यथायोगं व्रजमेत्य महाबलौ
गोपैः समानैः सहितौ क्रीडन्तावमराविव ।
एवं तावूषतुस्तत्र रामकृष्णौ महाद्युती
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0