भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 5.5

5.5.1

इति श्रीविष्णुमहापुराणे पञ्चमांशे चतुर्थो ऽध्यायः (4)
श्रीपराशर उवाच
विमुक्तो वसुदेवो ऽपि नन्दस्य शकटं गतः ।
प्रहृष्टं दृष्टवान्नन्दं पुत्रो जातो ममेति वै

5.5.2

वसुदेवोपि तं प्राह दिष्ट्यादिष्ट्येति सादरम् ।
वार्धके ऽपि समुत्पन्नस्तनयो ऽयं तवाधुना

5.5.3

दत्तो हि वार्षिकःसर्वो भवद्भिर् नृपतेः करः ।
यदर्थमागतास्तस्मान्नात्र स्थेयं महाधनैः

5.5.4

यदर्थमागताः कार्यं तन्निष्पन्नं किमस्यते ।
भवद्भिर् गम्यतां नन्द तच्छीघ्रं निजगोकुलम्

5.5.5

ममापि बालकस्तत्र रोहिणी प्रभवो हि यः ।
स रक्षणीयो भवता यथायं तनयो निजः

5.5.6

इत्युक्ताः प्रययुर्गोपा नन्दगोपपुरोगमाः ।
शकटारोपितैर् भाडैः करं दत्त्वा महाबलाः

5.5.7

वसतां गोकुले तेषां पूतना बालघातिनी ।
सुप्तं कृष्णमुपादाय रात्रौ तस्मै स्तनं ददौ

5.5.8

यस्मै यस्मै स्तनं रात्रौ पूतना संप्रयच्छति ।
तस्यतस्य क्षणेनाङ्गं बालकस्योपहन्यते

5.5.9

कृष्णस्तु तत्स्तनं गाढं कराभ्यामतिपीडितम् ।
गृहीत्वा प्राणसहितं पपौक्रोधसमन्वितः

5.5.10

सातिमुक्तमहारावा विच्छिन्नस्त्रायुबन्धना ।
पपात पूतना भूमौ म्रियमाणातिभीषणा

5.5.11

तन्नादश्रुतिसंत्रस्ताः प्रवुद्धास्ते व्रजौकसः ।
ददृशुः पूतनोत्संगे कृष्णं तां च निपातिताम्

5.5.12

आदाय कृष्णं संत्रस्ता यशोदापि द्विजोत्तम ।
गोपुच्छभ्रामणेनाथ बालदोषमपाकरोत्

5.5.13

गोकरीषमुपादाय नन्दगोपोपि मस्तके ।
कृष्णस्य प्रददो रक्षां कुर्वश्चैतदुदीरयन्

5.5.14

नन्दगोप उवाच
रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः ।
यस्य नाभिसमुद्भूतपङ्कजादभवज्जगत्

5.5.15

येन दंष्ट्राग्रविधृता धारयत्यवनिर्जगत् ।
वराहरूपधृग्देवःस त्वां रक्षतु केशवः

5.5.16

नखाङ्कुरविनिर्भिन्नवैरिवक्षस्थलो विभुः ।
नृसिंहरूपी सर्वत्र रक्षतु त्वां जनार्दनः

5.5.17

वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् ।
त्रिविक्रमः क्रमाक्रान्तत्रैलोक्यः स्फुरदायुधः

5.5.18

शिरस्ते पातु गोविन्दः कण्ठं रक्षतु केशवः ।
गुह्यं च जठरं विष्णुर्जघे पादौ जनार्दनः

5.5.19

मुखं बाहू प्रबाहू च मनः सर्वेद्रियाणि च ।
रक्षत्वव्याहतैश्वर्यस्तव नारायणो ऽव्ययः

5.5.20

शार्ङ्गचक्रगदापाणेः शङ्खनादहताः क्षयम् ।
गच्छन्तु प्रेतकूष्माण्डराक्षसा ये तवाहिताः

5.5.21

त्वां पातु दिक्षु वैकुण्ठो विदिक्षु मधुसूदनः ।
हृषीकेशोंऽबरे भूमौ रक्षतु त्वां महीधरः

5.5.22

श्रीपराशर उवाच
एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः ।
शायितः शकटस्याधो बालपर्यङ्किकातले

5.5.23

ते च गोपा महद्दृष्ट्वा पूतनायाः कलेवरम् ।
मृतायाः परमं त्रासं विस्मयं च तदा ययुः

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc