भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 5.4

5.4.1

इति श्रिविष्णुमहापुराणे पञ्चमांशे तृतीयो ऽध्यायः (3)
श्रीपराशर उवाच
कंसस्ततोद्विग्नमनाः प्राह सर्वान्महासुरान् ।
प्रलंबकेशिप्रमुखानाहूयासुरपुङ्गवान्

5.4.2

कंस उवाच
हे प्रलंब महाबाहो केशिन् धेनुक पूतने ।
अरिष्टाद्यास्तथैवान्ये श्रूयतां वचनं मम

5.4.3

मां हन्तुममरैर् यत्नः कृतः किल दुरात्मभिः ।
मद्वीर्यतापितान्वीरो न त्वेतान्गणयाम्यहम्

5.4.4

किमिन्द्रेणाल्पवीर्येण किं हरेणैकचारिणा ।
हरिणा वापि किं साध्यं छिद्रेष्वसुरघातिना

5.4.5

किमादित्यैः किं वसुभिर् अल्पवीर्यैः किमग्निभिः ।
किंवान्यैर् अमरैः सर्वैर् मद्बाहुबलनिर्जितैः

5.4.6

किं न दृष्टोमरपतिर्मया संयुगमेत्य सः ।
पृष्ठेनैव वहन्बाणानपगच्छन्नवक्षसा

5.4.7

मद्राष्ट्रे वारिता वृष्टिर्यदा शक्रेण किं तदा ।
मद्बाणभिन्नैर् जलदैर् आपो मुक्तायथेप्सिताः

5.4.8

किमुर्व्यामवनीपाला मद्बाहुबलभीरवः ।
ते सर्वे सन्नतिं याता जरासंधमृते गुरम्

5.4.9

अमरेषु ममावज्ञा जायते दैत्यपुङ्गवाः ।
हास्यं मे जायते वीरास् तेषु यत्नपरेष्वपि

5.4.10

तथापि खलु दुष्टानां तेषामप्यधिकं मया ।
अपकाराय दैत्येन्द्रा यतनीयं दुरात्मनाम्

5.4.11

तद्ये यशस्विनः केचित्पृथिव्यां ये च यज्वनः ।
कार्यो देवापकाराय तेषां सर्वात्मना वधः

5.4.12

उत्पन्नश्चापि मे मृत्युर्भूतपूर्वःस वै किल ।
इत्येतद्दारिका प्राह देवकीगर्भसंभवा

5.4.13

तस्माद्बालेषु च परो यत्नः कार्यो महीतले ।
यत्रोद्रिक्तं बलं बाले स हन्तव्यः प्रयत्नतः

5.4.14

इत्याज्ञाप्यासुरान्कसः प्रविश्याशु गृहं ततः ।
मुमोच वसुदेवं च देवकीं च निरोदतः

5.4.15

कंस उवाच
युवयोर्घातिता गर्भा वृथैवैते मयाधुना ।
कोप्यन्य एव नाशाय मम गर्भःसमुद्यतः

5.4.16

तदलं परितापेन नुनं तद्भाविनो हि ते ।
अर्भका युवयोर्देषाच्चायुषो यद्वियोजिताः

5.4.17

श्रीपराशर उवाच
इत्याश्वास्य विमुक्त्वा च कंसस्तौ परिशङ्कितः ।
अन्तर्गृहं द्विजश्रेष्ठ प्रविवेश ततः स्वकम्

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc