भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 5.3

5.3.1

इति श्रीविष्णुमहापुराणे पञ्चमांशे द्वितीयो ऽध्यायः (2)
श्रीपराशर उवाच
एवं संस्तूयमाना सा देवैर् देवमधारयत् ।
गर्भेण पुण्डरीकाक्षं जगतस्त्राणकारणम्

5.3.2

ततो ऽखिलजगत्पद्मबोधायाच्युतभानुना ।
देवकीपूर्वसंध्यायामाविर्भूतं महात्मना

5.3.3

तज्जन्मदिनमत्यर्थमाह्लाद्यमलदिङ्मुखम् ।
बभूव कर्वलोकस्य कौमुदी शशिनो यथा

5.3.4

संतःसंतोषमधकं प्रशमं चञ्जमारुताः ।
प्रसादं निम्नगा याता जायमाने जनार्दने

5.3.5

सिंधवो निजशब्देन वाद्यं चक्रुर्मनोहरम् ।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः

5.3.6

ससृजुः पुष्पवर्षाणि देवा भुव्यन्तरिक्षगाः ।
जज्वलुश्चाग्नयः शान्ता जायमाने जनार्दने

5.3.7

मदं जगुर्जुर्जलदाः पुष्पवृष्टिमुचो द्विज ।
अर्धरात्रे ऽखिलाधारे जायमाने जनार्दने

5.3.8

फुल्लेन्दीवरपत्राभं चतुर्बाहुमुदीक्ष्य तम् ।
श्रीवत्सवक्षसं जातं तुष्टावानकदुन्दुभिः

5.3.9

अभिष्ट्रय च तं वाग्भिः प्रसन्नाभिर् महामतिः ।
विज्ञापयामास तदा कंसाद्भीतो द्विजोत्तम

5.3.10

वसुदेव उवाच
जातोसि देवदेवेश शङ्खचक्रगदाधरम् ।
दिव्यरूपमिदं देव प्रसादेनोपसंहर

5.3.11

अद्यैव देव कंसोयं कुरुते मम घातनम् ।
अवतीर्म इति ज्ञात्वा त्वमस्मिन्मममन्दिरे

5.3.12

देवक्युवाच
यो ऽनन्तरूपो ऽखिलविश्वरूपो गर्भेपि लोकान्वपुषा बिभर्ति ।
प्रसीतदामेष स देवदेवो यो माययाविष्कृतबालरूपः

5.3.13

उपसंहर सर्वात्मन्रूपमेतच्चतुर्भुजम् ।
जानातु मावतारं ते कंसोयं दितिजन्मजः

5.3.14

श्रीभगवानुवाच
स्तुतो ऽहं य त्त्वया पूर्वं पुत्रार्थिन्या तदद्य ते ।
सफलं देवि संजातं जातो ऽहं यत्तवोदरात्

5.3.15

श्रीपराशर उवाच
इत्युक्त्वा भगवांस्तूष्णीं बभूव मुनिसत्तम ।
वसुदेवोपि तं रात्रावादाय प्रययौ बहिः

5.3.16

मोहिताश्चाभवेस्तत्र रक्षिणो योगनिद्रया ।
मथुराद्वारपालाश् च व्रजत्यानकदुन्दुभौ

5.3.17

वर्षतां जलदानां च तोयमात्युल्बणं निशि ।
संवृत्यानुययौ शेषः फणैर् आनकदुन्दुभिम्

5.3.18

यमुनां चातिगंभीरां नानावर्तशताकुलाम् ।
वसुदेवो वहन्विष्णुं जानुमात्रवहां ययौ

5.3.19

कंसस्य करदानाय तत्रैवाब्यागतास्तटे ।
नन्दादीन्गोपवुद्धांश् च यमुनाया ददर्श सः

5.3.20

तस्मिन्काले यशोदापि मोहिता योगनिद्रया ।
तामेव कन्यां मैत्रेय प्रसूता मोहिते जने

5.3.21

वसुदेवोपि विन्यस्य बालमादाय दारिकाम् ।
यशोदाशयनात्तूर्णमाजगामामितद्युतिः

5.3.22

ददृशे च प्रबुद्धा सा यशोदा जातमात्मजम् ।
नीलोत्पलदलश्यामं ततोत्यर्थं मुदं ययौ

5.3.23

आदाय वसुदेवो ऽपि दारिकां निजमन्दिरे ।
देवकीशयने न्यस्य यथापूर्वमतिष्ठत

5.3.24

ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः ।
कंसायावेदयामासुर्देवकीप्रसवन्द्विज

5.3.25

कंसस्तूर्णमुपेत्यैनां ततो जग्रह बालिकाम् ।
मुञ्चमुञ्चेति देवक्या सन्नकण्ठ्या निवारितः

5.3.26

चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थिता ।
अवाप रूपं सुमहत्सायुधाष्टमहाभुजम्

5.3.27

प्रजहास तथैवोच्चैः कंसं च रुषिताब्रवीत् ।
किं मया क्षिप्तया कंस जाता यस्त्वां वधिष्यति

5.3.28

सर्वस्वभूतो देवानामासीन्मृत्युः पुरा स ते ।
तदेतत्संप्रधार्याशु क्रियतां हितमात्मनः

5.3.29

इत्युक्त्वा प्रययौ देवी दिव्यस्रग्गन्धभूषणा ।
पश्यतो भोजराजस्य स्तुता सिद्धैर् विहायसा

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc