विष्णु पुराण · अध्याय 5.37
इति श्रीविष्णुमहापुराणे पञ्चमांशे षट्त्रिंशोध्यायः (36)
श्रीपराशर उवाच
एवं दैत्यवधं कृष्णे बलदेव सहायवान् ।
चक्रे दुष्टक्षितीशानां तथैव जगतः कृते
क्षितेश् च भारं भगवान्फाल्गुनेन समन्वितः ।
अवतारयामास विभुःसमस्ताक्षोहिणीवधात्
कृत्वा भारावतरमं भुवो हत्वाखिलान्नृपान् ।
शापव्याजेन विप्राणामुपसंहृतवान्कुलम्
उत्सृज्य द्वारकां कृष्णस्त्यक्त्वा मानुष्यमात्मनः ।
सांशो विष्णुमयं स्थानं प्रविवेश मुने निजम्
मैत्रेय उवाच
स विप्रशापव्याजेन संजह्रेस्वकुलं कथम् ।
कथं च मानुषं देहमुत्ससर्जजनार्दनः
श्रीपराशर उवाच
विश्वमित्रस्तथाकण्वो नारदश्चमहामुनिः ।
पिण्डारके महारीर्थे दृष्ट्वा यदुकुमारकैः
ततस्ते यौवनोन्मत्ता भाविकार्यप्रचोदिताः ।
सांबं जांबवतीपुत्रं भूषयित्वा स्त्रियं यथा
प्रश्रितास्तान्मुनीनूचुः प्रणिपातपुरःसरम् ।
इयं स्त्री पुत्रकामा वै ब्रूत किं जनयिष्यति
श्रीपराशर उवाच
दिव्यज्ञानोपपन्नास्ते विप्रलब्धाः कुमारकैः ।
मुनयः कुपिताः प्रोचुर्मुसलं जनयिष्यति
सर्वयादवसंहारकारणं भुवनोत्तरम् ।
येनाखिलकुलोत्सादौ यादवानां भविष्यति
इत्युक्तास्ते कुमारास्तु आचचक्षुर्यथातथम् ।
उग्रसेनाय मुसलं जज्ञे सांबस्य चोदरात्
तदुग्रसेनो मुसलमयश्चूर्णमकारयत् ।
जज्ञे तदेरकायूर्णं प्रक्षिप्तं तैर् महोदधौ
मुसलस्याथ लोहस्य पूर्णितस्य तु यादवैः ।
खण्डं चूर्णितशेषं तु ततो यत्तोमराकृति
तदप्यंबुनिधौ क्षिप्तं मत्स्यो जग्राह जालिभिः ।
घातितस्योदरात्तस्य लुब्धो जग्रह तज्जाराः
विज्ञातपरमार्थोपि भगवान्मधुसूदनः ।
नैच्छत्तदन्यथा कर्तुं विधिना यत्समीहितम्
देवैश् च प्रहितो वायुः प्रणिपत्त्याह केशवम् ।
रजस्येवमहं दूतः प्रहितो भगवन्सुरैः
वस्वश्विमरुदादित्यरुद्रसाध्यादिभिः सह ।
विज्ञापयति शक्रस्त्वां तदिदं श्रूयतां विभो
भारावतरणार्थाय वर्षाणामधिकं शतम् ।
भगवानवतीर्णोत्र त्रिदशेःसह चोदितः
दुर्वृत्ता निहता दैत्या भुवो भारो ऽवतारितः ।
त्वया मनाथास्त्रिदशा भवन्तु त्रिदिवे सदा
तदतीतं जगन्नाथ वर्षाणामधिकं शतम् ।
इदानीं गम्यतां स्वर्गो भवता यदि रोचते
देवैर् विज्ञाप्यते देव तथात्रैव रतिस्तव ।
तत्स्थीयतां यथाकालमास्थेयमनुजीविभिः
श्रीभगवानुवाच
यत्त्वमात्थाखिलं दूत वेद्म्य् एतद् अहम् अप्य् उत ।
प्रारब्ध एव हि मया यादवानांपरिक्षयः
भुवो नाद्यापि भारो ऽयं यादवैरनिबर्हितैः ।
अवतार्य करोम्येतत् सप्तरात्रेण सत्वरः
यथा गृहीतमंभोधेर्दत्त्वाहं द्वारकाभुवम् ।
यादवानुपसंहृत्य यास्यामि त्रिदशालयम्
मनुष्यदेहमुत्सृज्य संकर्षमसहायवान् ।
प्राप्त एवास्मि मन्तव्यो देवेन्द्रेण तथामरैः
जरासंधादयो ये ऽन्ये निहता भारहेतवः ।
क्षितेस्तेभ्यः कुमारो ऽपि यदूनां नापचीयते
तदेतं सुमहाभारम् अवतार्य क्षितेर् अहम् ।
यास्याम्यमरलोकस्य पालनाय ब्रवीहि तान्
श्रीपराशर उवाच
इत्युक्तो वासुदेवेन देवदूतः प्रणम्य तम् ।
मैत्रेय दिव्यया गत्या देवराजान्तिकं ययौ
भगवानप्यथोत्पातान्दिव्यभौमान्तरिक्षजान् ।
ददर्श द्वारकापुर्यां विनाशाय दिवानिशम्
तान्दृष्ट्वा यादवानाह पश्यध्वमतिदारुणान् ।
महोत्पाताञ्छमायैषां प्रभासं याम मा चिरम्
श्रीपराशर उवाच
एवमुक्ते तु कृष्णेन यादवप्रवारस्ततः ।
महाभागवतः प्राह प्रणिपत्योद्धवो हरिम्
भगवन्यन्मया कार्यं तदाज्ञापय सांप्रतम् ।
मन्ये कुलमिदं सर्वं भगवान्संहरिष्यति
नाशायास्य निमित्तानि कुलस्याच्युत लक्षये
श्रीभगवानुवाच
गच्छ त्वं दिव्यया गत्या मत्प्रसादसमुत्थया ।
यद्बदर्याश्रमं पुण्यं गन्धमादनपर्वते ।
नरनारायणस्थाने तत्पवित्रं महीतले
मन्मना मत्प्रसादेन तत्र सिद्धिमवाप्स्यसि ।
अहं स्वर्गं गमिष्यामि ह्युपसंहृत्य वैकुलम्
द्वारकां च मया त्यक्तां समुद्रः प्लावयिष्यति ।
मद्वेश्म चैकं मुक्त्वातु भयान्मत्तो जलाशये ।
तत्र सन्निहितश्चाहं भक्तानां हितकाम्यया
श्रीपराशर उवाच
इत्युक्तः प्रणिपत्यैनं जगामाशु तपेवनम् ।
नरनारायणस्थानं केशवेनानुमोदितः
ततस्ते यादवाःसर्वे रथानारुह्य शीघ्रगान् ।
प्रभासं प्रययुःसार्धं कृष्णरामादिभिर् द्विज
प्रभासं समनुप्राप्ताः कुकुरान्धकवृष्णयः ।
चक्रुस्तत्र महापानं वासुदेवेन चोदिताः
पिबतां तत्र चैतेषां संघर्षेण परस्परम् ।
अतिवादेन्धनो जज्ञे कलहाग्निः क्षयावहः
मैत्रेय उवाच
स्वंस्वं वै भुञ्जतां तेषां कलहः किंनिमित्तकः ।
संघर्षो वा द्विजश्रेष्ठ तन्ममाख्यातुमर्हसि
श्रीपराशर उवाच
मृष्टं मदीयमन्नं ते न मृष्टमिति जल्पताम् ।
मृष्टामृष्टकथा जज्ञे संघर्षकलहौ ततः
ततश्चान्योन्यमभ्येत्य क्रिधसंरक्तलोचनाः ।
जघ्नुः परस्परं ते तु शस्त्रैर् दैवबलात्कृताः
क्षीणशस्त्राश् च जगृहुः प्रत्यासन्नामथैरकाम्
एरका तु गृहीता वै वज्रभूतेव लक्ष्यते ।
तया परस्परं जघ्नुःसंप्रहारे सुदारुणे
प्रद्युम्नसांबप्रमुखाः कृतवर्माथ सात्यकिः ।
अनिरुद्धादयश्चान्ये पृथुर्विपृथुरेव च
चारुवर्मा चारुकश् च तथाक्रूरादयो द्विज ।
एरकारूपिभिर् वज्रैस् ते निजघ्नुः परस्परम्
निवारयामास हरिर्यादवांस्ते च केशवम् ।
सहायं मेनिरेरीणां प्राप्तं जघ्नुः परस्परम्
कृष्णो ऽपि कुपितस्तेषामेरकामुष्टिमाददे ।
वधाय सो ऽपि मुसलं मुष्टर्लौहमभूत्तदा
जघान तेन निःशेषान्यादवानाततायिनः ।
जघ्नुस्ते सहसाभ्येत्य तथान्येपि परस्परम्
ततश्चार्णवमध्येन जैत्रो ऽसौ चक्रिणो रथः ।
पश्यतो दारुकस्याथ प्रायादश्वैर् धृतो द्विज
चक्रं गदा तथा शार्ङ्ग तूणीशङ्खोसिरेव च ।
प्रदक्षिणं हरिं कृत्वा जग्मुरादित्यवर्त्मना
क्षणेन नाभवत्कश्चिद्यादवानामघातितः ।
ऋते कृष्णं महात्मानं दारुकं च महामुने
चङ्क्रम्यमाणौ तौ रामं वृक्षमूले कृतासनम् ।
ददृशाते मुखाच्चास्य निष्क्रामन्तं महोरगम्
निष्क्रम्य स मखात्तस्य महाभोगो भुजङ्गमः ।
प्रययावर्णवं सिद्धैः पुज्यमानस्तथोरगैः
ततोर्घ्यमादाय तदा जलधिःसंमुखं ययौ ।
प्रविवेश ततस्तोयं पूजितः पन्नगोत्तमैः
दृष्ट्वा बलस्य निर्याणं दारुकं प्राह केशवः ।
इदं सर्वं समाचक्ष्व वसुदेवोग्रसेनयोः
निर्याणं बलभद्रस्य यादवानां तथा क्षयम् ।
योगो स्थित्वाहमप्येतत्परित्यक्ष्ये कलेवरम्
वाच्यश् च द्वारकावासी जनः सर्वस् तथाहुकः ।
यथोमां नगरीं सर्वां समुद्रः प्लावयिष्यति
तस्माद्भवद्भिः सर्वैस् तु प्रतीक्ष्यो ह्यर्जुनागमः ।
न स्थेयं द्वारकामध्ये निष्क्रान्ते तत्र पाण्डवे
तेनैव सह गन्तव्यां यत्र याति स कौरवः
गत्वा च ब्रूहि कैन्तेयमर्जुनं वचनान्मम ।
पालनीयस्त्वया शक्त्या जनो ऽयं मत्परिग्रहः
त्वमर्जुनेन सहितो द्वारवत्यां तथा जनम् ।
गृहीत्वा यादि वज्रश् च यदुराजो भविष्यति
श्रीपराशर उवाच
इत्युक्तो दारुकः कृष्णं प्रणिपत्य पुनः पुनः ।
प्रदक्षिणं च बहुशः कृत्वा प्रायाद्यथोदितम्
स च गत्वा तदाचष्ट द्वारकायां तथार्ऽजुनम् ।
आनिनाय महाबुद्धिर्वज्रं चक्रे तथा नृपम्
भगवानपि गोविन्दो वासुदेवात्मकं परम् ।
ब्रह्मात्मनि समारोप्य सर्वभूतेष्वधारयत् ।
निष्प्रपञ्चे महाभाग संयोज्यात्मानमात्मनि ।
तुर्यावस्थसलीलं च शेतेस्म पुरुषोत्तमः
संमानयन्द्विजवचो दुर्वासा यदुवाच ह ।
योगयुक्तो ऽभवत्पादं कृत्वा जानुनि सत्तम
आययौ स जरानाम तदा तत्र स लुब्धकः ।
मुसलावशेषलोहैकसायकन्यस्ततोमरः
स तत्पादं मृगाकरमवेक्ष्यारादविस्थितः ।
तले विव्याध तेनैव तोमरेण द्विजोत्तम
ततश् च ददृशे तत्र चदुर्बाहुधरं नरम् ।
प्रणिपत्याह चैवैनं प्रसीदेति पुनः पुनः
अजानता कृतमिदं मया हरिणशङ्कया ।
क्षम्यतां मम पापेन दग्धं मां त्रातुमर्हसि
श्रीपराशर उवाच
ततस्तं भगवानाह न तेस्तु भयमण्वपि ।
गच्छ त्वं मत्प्रसादेन लुब्ध स्वर्गं सुरास्पदम्
श्रीपराशर उवाच
विमानमागतं सद्यस्तद्वाक्यसमनन्तरम् ।
आरुह्य प्रययौ स्वर्गं लुब्धकस्तत्प्रसादतः
गते तस्मिन्सभगवान्संयोज्यात्मानमात्मनि ।
ब्रह्मभूते ऽव्ययेचिन्त्ये वासुदेवमये ऽमले
अजन्मन्यमरे विष्णवाप्रमेये ऽखिलात्मनि ।
तत्याज मानुषं देहमतीत्य त्रिविधां गतिम्
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0