विष्णु पुराण · अध्याय 5.36
इति श्रीविष्णुमहापुराणे पञ्चमांशे पञ्चत्रिंशो ऽध्यायः (35)
श्रीपराशर उवाच
मैत्रेयैतद्बलं तस्य बलस्य बलशालिनः ।
कृतं यदन्यत्तेनाभूत्तदपि श्रूयतां त्वया
नरकस्यासुरेद्रस्य देवपक्षविरोधिनः ।
सखाभवन्महावीर्यो द्विविदो वानरर्षभः
वैरानुबन्धं बलवान्स चकार सुरान्प्रति ।
नरकं हतवान्कृष्णो देवराजेन चोदितः
करिष्ये सर्वदेवानां तस्मादेतत्प्रतीक्रियाम् ।
यज्ञविध्वंसनं कुर्वन् मर्त्यलोकक्षयं तथा
ततो विध्वंसयामास यज्ञानज्ञानमोहितः ।
बिभेद साधुमर्यादां क्षयं चक्रे च देहिनाम्
ददाह सवनान्देशान्पुरग्रमान्तराणि च ।
क्वचिच्च पर्वताक्षेपेर्ग्रमादीन्समचूर्णयत्
शैलानुत्पाट्य तोयेषु मुमोचांबुनिधौ तथा ।
पुनश्चार्मवमध्यस्थः क्षोभयामास सागरम्
तेन विक्षोभितश्चाब्धिरुद्वेलो द्विज जायते ।
प्लावयंस्तीरजान्ग्रमान्पुरादीनतिवेगवान्
कामरूपी महारूपी कृत्वा सस्यान्यशेषतः ।
लुठन्भ्रमणसंमर्दैः संचूर्मयति वानरः
तेन विप्रकृतं सर्वं जगदेतद्दुरात्मना ।
निःस्वाध्यायवषट्कारं मैत्रेयासीत्सुदुःखितम्
एकदारैवतोद्याने पपौ पानं हला युधः ।
रेवती च महाभागा तथैवान्या वरस्त्रियः
उद्गीयमानो विलसल्ललनामौलिमध्यगः ।
रेमे यदुकुलश्रेष्ठः कुबेर इव नन्दने
ततःस वानरो ऽभ्येत्य गृहीत्वा सीरिणो हलम् ।
मुसलं च चकारास्य संमुखं च विडंबनम्
तथैव योषितां तासां जहासाभिमुखं कपिः ।
पानपूर्माश् च करकाञ्चिक्षेपाहत्य वै तदा
ततः कोपपरीतात्मा भर्त्सयामास तं हली ।
तथापि तमवज्ञाय चक्रेकिलकिलध्वनिम्
ततः स्मयित्वा स बलो जग्राह मुसलं रुषा ।
सो ऽपि शैलशिलां भीमां जग्राह प्लवगोत्तमः
चिक्षेप स च तां क्षिप्तां मुसलेन सहस्रधा ।
विभेद यादवश्रेष्ठःसा पपात महीतले
अथ तन्मुसलं चासौ समुल्लङ्घ्य प्लवङ्गमः ।
वेगेनागत्य रोषेण करेणोरस्यताडयत्
ततो बलेन कोपेन मुष्टिना मूर्ध्नि ताडितः ।
पपात रुधिरोद्गारी द्विविदः क्षीणजीवितः
पतता तच्छरीरेण गिरेः शृगमशीर्यत ।
मैत्रेय शतधा वज्रिवज्रेमेव विदारितम्
पुष्पवृष्टिं ततो देवा रामस्योपरि चिक्षिपुः ।
प्रशशंसुस्ततो ऽभ्येत्य साध्वेतत्ते महत्कृतम्
अनेन दुष्टकपिना दैत्यपक्षोपकारिणा ।
जगन्निराकृतं वीर दिष्ट्या स क्षयमागतः
इत्युक्त्वा दिवमाजग्मुर्देवा हृष्टःसगुह्यकाः
श्रीपराशर उवाच
एवंविधान्यनेकानि बलदेवस्य धीमतः ।
कर्माण्यपरिमेयानिशेषस्य धरणीभृतः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0