विष्णु पुराण · अध्याय 5.35
इति श्रीविष्णुमहापुराणे पञ्जमांशे चतुस्त्रिंशो ऽध्यायः (34)
मैत्रेय उवाच
भूय एवाहमिच्छामि बलभद्रस्य धीमतः ।
श्रोतुं पराक्रमं ब्रह्मन् तन्ममाख्यातुमर्हसि
यमुनाकर्षणादीनि श्रुतानि भगवन्मया ।
तत्कथ्यतां महाभाग यदन्यत्कृतवान्बलः
श्रीपराशर उवाच
मैत्रेय श्रुयतां कर्म यद्रामेणाभवत्कृतम् ।
अनन्ते नाप्रमेयेन शेषेण धरणीधृता
सुयोधनस्य तनयां स्वयंवरकृतक्षणाम् ।
बलादादत्तवान्वीरः सांबो जांबवतीसुतः
ततः क्रुद्धामहावीर्याः कर्णदुर्योधनादयः ।
भीष्मद्रोणादयश्चैनं बबन्धुर्युधि निर्जितम्
तच्छुत्वा यादवाःसर्वे क्रोधं दुर्योधनादिषु ।
मैत्रेय चक्रुः कृष्णश् च तान्निहन्तुं महोद्यमम्
तान्निवार्य बलः प्राह मदलोलकलाक्षरम् ।
मोक्ष्यन्ति ते मद्वचनाद्यास्याम्येको हि कौरवान्
श्रीपराशर उवाच
बलदेवस्ततो दृष्ट्वा नगरं नागसाह्वयम् ।
बाह्योपवनमध्ये ऽभून्न विवेश च तत्पुरम्
बलमागतमाज्ञाय भूपा दुर्योधनादयः ।
गामर्घ्यमुदकं चैव रामाय प्रत्यवेदयन्
गृहीत्वा विधिवत्सर्वं ततस्तानाह कौरवान् ।
आज्ञापयत्युग्रसेनःसांबमाशु विमुञ्चत
ततस्तद्वचनं श्रुत्वा भीष्मद्रोणादयो नृपाः ।
कर्मदुर्योधनाद्याश् च चुक्षुभुर्द्विजसत्तम
ऊचुश् च कुपिताःसर्वे बाह्लिकाद्याश् च कौरवाः ।
अराज्यार्हं यदोर्वशमवेक्ष्य मुसलायुध
भोभोः किमेतद्भवता बलभद्रेरितं वचः ।
आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति
उग्रसेनो ऽपि यद्याज्ञां कौरवाणां प्रदास्यति ।
तदलं पाण्डुरैश् छत्रैर् नृपयोग्यैर् विडंबनैः
तद्गच्छ बल मा वा त्वं सांबमन्यायचेष्टितम् ।
विमोक्ष्यामो न भवतश्चोग्रसेनस्य शासनात्
प्रणतिर्या कृतास्माकं मान्यानां कुकुरान्धकैः ।
न नाम सा कृता केयमाज्ञा स्वामिनि भृत्यतः
गर्वमारोपिता यूयं समानासनभोजनैः ।
को दोषो भवतां नीतिर्यत्प्रीत्या नावलोकिता
अस्माभिर् अर्घो भवतो योयं बल निवेदितः ।
प्रेम्णैतन्नैतदस्माकं कुलाद्युष्मत्कुलोचितम्
श्रीपराशर उवाच
इत्युक्त्वा कुरवः सांबं मुञ्चामो न हरेःसुतम् ।
कृतैतनिश्चयस्तूर्णं विविशुर्गजसाह्वयम्
मत्तः कोपेन चाघूर्मस्ततोधिक्षेपजन्मना ।
उत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः
ततो विदारिता पृथ्वी पार्ष्णिघातान्महात्मनः ।
आस्फोटयामास तदा दिशः शब्देन पूरयन्
उवाच चातिताम्राक्षो भृकुटीकुटिलाननः
अह मदावलेपोयमसाराणां दुरात्मनाम् ।
कौरवाणां महीपत्वमस्माकं किल कालजम् ।
उग्रसेनस्य येनाज्ञां मन्यन्ते ऽद्यपि लङ्घनम्
उग्रसेनः समध्यास्ते सुधार्मा न शचीपतिः ।
धिङ्मानुषशतोच्छिष्टे तुष्टिरेषां नृपासने
पारिजाततरोः पुष्पमञ्जरीर्वनिताजनः ।
बिभर्ति यस्य भत्यानां सो ऽप्येषां न महीपतिः
समस्तभूभृतां नाथ उग्रसेनः स तिष्ठतु ।
अद्य निष्कौरवामुर्वी कृत्वा यास्यामि तत्पुरीम्
कर्णं दुर्योधनं द्रोणमद्य भीष्मं सबाह्लिकम् ।
दुःशसनादीन्भूरिं च भूरिश्रवसमेव च
सोमदत्तं शलं चैव भीमार्जुनयुधिष्ठिरान् ।
यमौ च कौरवांश्चान्यान्हत्वा साश्वरथद्विपान्
वीरमादाय तं सांबं सपत्नीकं ततः पुरीम् ।
द्वारकामुग्रसेनादीन्गत्वा द्रक्ष्यामि बान्धवान्
अथ वा कौरवावासं समस्तैः कुरुभिः सह ।
भागीरथ्यां क्षिपाम्याशु नगरं नागसाह्वयम्
श्रीपराशर उवाच
इत्युक्त्वा मदरक्ताक्षः कर्षणाधोमुखं हलम् ।
प्राकारवप्रदुर्गस्य चकर्ष मुसलायुधः
आघूर्णितं तत्सहसा ततो वै हास्तिनं पुरम् ।
दृष्ट्वा संक्षुब्धहृदयाश्चुक्षुभुःसर्वकौरवाः
रामराम महाबाहो क्षम्यतां क्षम्यतां त्वया ।
उपसंह्रियतां कोपः प्रसीद मुसलायुध
एष सांबःसपत्नीकस्तवनिर्यातितो बलात् ।
अविज्ञातप्रभावाणां क्ष्मयतामपराधिनाम्
श्रीपराशर उवाच
ततो निर्यातयामासुःसांबं पत्नीसमन्वितम् ।
निष्क्रम्य स्वपुरात्तूर्णं कौरवा मुनिपुङ्गव
भीष्मद्रोणकृपादीनां प्रणम्य वदतां प्रियम् ।
क्षान्तमेव मयेत्याह बलो बलवतां वरः
अद्याप्याघूर्णिताकारं लक्ष्यते तत्पुरं द्विज ।
एष प्रभावो रामस्य बलशौर्योपलक्षणः
ततस्तु कौरवाःसांबं संपूज्य बलि ना सह ।
प्रेषयामासुरुद्वाहधनभार्यासमन्वितम्
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0