भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 5.34

5.34.1

इति श्रीविष्णुमहापुराणे पञ्चमांशे त्रयस्त्रिंशो ऽध्यायः (33)
मैत्रेय उवाच
चक्रे कर्म महच्छौरिर्बीभ्रणो मानुषीं तनुम् ।
जिगाय शक्रं शर्वं च सर्वान्देवांश् च लीलया

5.34.2

यच् चान्यद् अकरोत् कर्म दिव्यचेष्टविघातकृत् ।
तत्कथ्यतां महाभाग परं कौतूहलं हि मे

5.34.3

श्रीपराशर उवाच
गदतो मम विप्रर्षे श्रूयतामिदमादरात् ।
नरावतारे कृष्णेन दग्धा वाराणसी यथा

5.34.4

पैण्ड्रको वासुदेवस्तु वासुदेवो ऽभवद्भुवि ।
अवतीर्मस्त्वमित्युक्तो जनैर् अज्ञानमोहितैः

5.34.5

स मेने वासुदेवोहमवतीर्णो महीतले ।
नष्टस्मृतिस्ततःसर्वं विष्णुचिह्नमचीकरत्

5.34.6

दूतं च प्रेषयामास कृष्णाय सुमहात्मने ।
त्यक्त्वा चक्रादिकं चिह्नं मदीयं नाम चात्मनः

5.34.7

वासुदेवात्मकं मूढ त्यक्त्वा सर्वमशेषतः ।
आत्मनो जीवितार्थाय ततो मे प्रणति व्रज

5.34.8

इत्युक्तःसंप्रहस्यैनं दूतं प्राहजनार्दनः ।
निजचिह्नमहं चक्रं समुत्सृक्ष्ये त्वयीति वै

5.34.9

वाच्यश् च पैण्ड्रको गत्वा त्वया दूत वचो मम ।
ज्ञातस् त्वद्वाक्यसद्भावो यत्कार्यं तद्विधीयताम्

5.34.10

गृहीतचिह्नवेषोहमागमिष्यामि ते पुरम् ।
उत्स्रक्ष्यामि च तच्चक्रं निजचिह्नमसंशयम्

5.34.11

आज्ञापूर्वं च यदिदमागच्छेति त्वयोदितम् ।
संपादयिष्ये श्वस्तुभ्यं समागम्याविलंबितम्

5.34.12

शरणं ते समभ्येत्य कर्तास्मि नृपते तथा ।
यथा त्वत्तो भयं भूयो न मे किञ्चिद् भविष्यति

5.34.13

श्रीपराशर उवाच
इत्युक्तेपगते दूते संस्मृत्याभ्यागतं हरिः ।
गरुत्मन्तमथारुह्य त्वरितस्तत्पुरं ययौ

5.34.14

ततस्तु केशवोद्योगं श्रुत्वा काशीपतिस्तदा ।
सर्वसैन्यपरिवारः पार्ष्णिग्राह उपाययौ

5.34.15

ततो बलेन महता काशीराजबलेन च ।
पैण्ड्रको वासुदेवो ऽसौ केशवाभिमुखो ययौ

5.34.16

तं ददर्श हरिर्दूरादुदारस्यन्दने स्थितम् ।
चक्रहस्तं गदाशार्ङ्गबाहुं पाणिगतांबुजम्

5.34.17

स्रग्धरं पीतवसनं सुपर्मरचितध्वजम् ।
वक्षस्थले कृतं चास्य श्रीवत्सं ददृशे हरिः

5.34.18

किरीटकुण्डलधरं नानारत्नोपशोभितम् ।
तं दृष्ट्वा भावगंभीरं जहास गरुडध्वजः

5.34.19

युयुधे च बलेनास्य हस्त्यश्वबलिना द्विज ।
निस्त्रिंशासिगदाशूलशक्तिकार्मुकशालिना

5.34.20

क्षणेन शार्ङ्गनिर्मुक्तैः शरैर् अरिविदारणैः ।
गदाचक्रनिपातैश् च सूदयामास तद्बलम्

5.34.21

काशीराजबलं चैवं क्षयं नीत्वा जनार्दनः ।
उवाच पैण्ड्रकं मूढमात्मचिह्नोपलक्षितम्

5.34.22

श्रीभगवानुवाच
पैण्ड्रकोक्तं त्वया यत्तुदूतवक्त्रेण मां प्रति ।
समुत्सृजेति चिह्नानि तत्ते संपादयाम्यहम्

5.34.23

चक्रमेतत्समुत्सृष्टं गदेयं ते विसर्जिता ।
गरुत्मानेष चोत्सृष्टःसमारोहतु ते ध्वजम्

5.34.24

श्रीपराशर उवाच
इत्युच्चार्य विमुक्तेन चक्रेणासौ विदारितः ।
पातितो गदया भग्नो ध्वजश्चास्य गरुत्मता

5.34.25

ततो हाहाकृते लोके काशीपुर्यधिपो बली ।
युयुधे वासुदेवेन मित्रस्यापचितौ स्थितः

5.34.26

ततः शार्ङ्गधनुर्मुक्तैश् छित्त्वा तस्य शिरः शरैः ।
काशीपुर्यां स चिक्षेप कुर्वंल्लोकस्य विस्मयम्

5.34.27

हत्वा त पौड्रकं शौरि काशीराजं च सानुगम् ।
पुनर्द्वारवतीं प्राप्तो रेमे स्वर्गगतो यता

5.34.28

तच्छिरः पतितं तत्रदृष्ट्वा काशीपतेः पुरे ।
जनः किमेतदित्याह च्छिन्नं केनेति विस्मितः

5.34.29

ज्ञात्वा तं वासुदेवेन हतं तस्य सुतस्ततः ।
पुरोहितेन सहितस्तोषयामास शङ्करम्

5.34.30

अविमुक्ते महाक्षेत्रे तोषितस्तेन शङ्करः ।
वरं वृणीष्वेति तदा तं प्रोवाच नृपात्मजम्

5.34.31

स वव्रे भगवन्कृत्या पितृहन्तुर्वधाय मे ।
समुतिष्ठतु कृष्णस्य त्वत्प्रसादान्महेश्वर

5.34.32

श्रीपराशर उवाच
एवं भविष्यतीत्युक्ते दक्षिणाग्नेरनन्तरम् ।
महाकृत्या समुत्तस्थौ तस्यैवाग्नेर्विनाशनी

5.34.33

ततो ज्वालाकरालास्या ज्वलत्केशकपालिका ।
कृष्णकृष्णेति कुपिता कृत्या द्वारवरीं ययौ

5.34.34

तामवेक्ष्य जनस्त्रासाद्विचलल्लोचनो मुने ।
ययौ शरण्यं जगतां शरणं मधुसूदनम्

5.34.35

काशीराजसुतेनेयमाराध्य वृषभध्वजम् ।
उत्पादिता महाकृत्येत्यवगम्याथ चक्रिणा

5.34.36

जहिकृत्यामिमामुग्रां वह्निज्वालाजटालकाम् ।
चक्रमुत्सृष्टमक्षेषु क्रीडासक्तेन लीलया

5.34.37

तदग्निमालाजटिलज्वालोद्गारातिभीषणाम् ।
कृत्यामनुजगामाशु विष्णुचक्रं सुदर्शनम्

5.34.38

चक्रप्रतापनिर्दग्धा कृत्या माहेश्वरी तदा ।
ननाश वेगिनी वेगात्तदप्यनुजगाम ताम्

5.34.39

कृत्या वाराणसीमेव प्रविवेश त्वरान्विता ।
विष्णुचक्रप्रतिहतप्रभावा मुनिसत्तम

5.34.40

ततः काशीबलं भूरि प्रमथानां तथा बलम् ।
समस्तशस्त्रास्त्रयुतं चक्रस्याभिमुखं ययौ

5.34.41

शस्त्रास्त्रमोक्षचतुरं दग्ध्वा तद्बलमोजसा ।
कृत्या गर्भमशेषां तां तदा वाराणसींपुरीम्

5.34.42

सभूभृद्भृत्यपौरां तु साश्वमातङ्गमानवाम् ।
अशेषगोष्ठकोशां तां दुर्निरिक्ष्यां सुरैर् अपि

5.34.43

ज्वालापरिष्कृताशेषगृहप्राकारचत्वराम् ।
ददाह तद्धरेश्चक्रं सकलामेव तां पुरीम्

5.34.44

अक्षीणामर्षमत्युग्रं साध्यसाधनसस्पृहम् ।
तच्चक्रं प्रस्फुरद्दीप्ति विष्णोरभ्याययौ करम्

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc