विष्णु पुराण · अध्याय 5.33
इति श्रीविष्णुमहापुराणे पञ्चमांशे द्वात्रिंशो ऽध्यायः (32)
श्रीपराशर उवाच
बाणोपि प्रणिपत्याग्रे मैत्रेयाह त्रिलोचनम् ।
देव बाहुसहस्रेण निर्विण्णोस्म्याहवं विना
कच्चिन्ममैषां बाहूनां साफल्यजनको रणः ।
भविष्यति विना युद्धं भाराय मम किं भुजैः
श्रीशङ्कर उवाच
मयूरध्वजभङ्गस्ते यदा बाणा भविष्यति ।
पिशिताशिजनानन्दं प्रप्स्यसे त्वं तदा रणम्
श्रीपराशर उवाच
ततः प्रणम्य वरदं शंभुमभ्यागतो गृहम् ।
सभग्नं ध्वजमालोक्य हृष्टो हर्षं पुनर्ययौ
एतस्मिन्नेव काले तु योगविद्याबलेन तम् ।
अनिरुद्धमथानिन्ये चित्रलेखा वराप्सराः
कन्यान्तःपुरमभ्येत्य रममाणं सहोषया ।
विज्ञाय रक्षिणो गत्वा शशंसुर्दैत्यभूपते
व्यादिष्टं किङ्कराणां तु सैन्यं तेन महात्मना ।
जघान परिघं घोरमादाय परवीरहा
हतेषु तेषु बाणोपि रथस्थस्तद्वधोद्यतः ।
युध्यमानो यथाशक्ति यदुवीरेण निर्जितः
मायया युयुधे तेन स तदा मन्त्रिचोदितः ।
ततस्तं पन्नगास्त्रेण बबन्ध यदुनन्दनम्
द्वारवत्यां क्व यातो ऽसावनिरुद्धेति जल्पताम् ।
यदूनामाचचक्षे तं बद्धं बाणेन नारदः
तं शोशितपुरं नीतं श्रुत्वा विद्याविदग्धया ।
योषिता प्रत्ययं जग्मुर्यादवा नामरैर् इति
ततो गरुडमारुह्य स्मृतमात्रागतं हरिः ।
बलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम्
पुरप्रवेशे प्रमथैर् युद्धमासीन्महात्मनः ।
ययौ बाणपुराभ्याशं नीत्वा तान्संक्षयं हरिः
ततस्त्रिपादस्त्रिशिरा ज्वरो माहेश्वरो महान् ।
बाणरक्षार्थमभ्येत्य युयुधे शार्ङ्गधन्वना
तद्भस्मस्पर्शसंभूततापः कृष्णाङ्गसंगमात् ।
अवाप बलदेवोपि श्रममामीलितेक्षणः
ततःस युद्ध्यमानस्तु सह देवेन शार्ङ्गिणा ।
वैष्णवेन ज्वरेणाशु कृष्णदेहान्निराकृतः
नारायणभुजाघातपारिपीजनविह्वलम् ।
तं वीक्ष्य क्षम्यतामस्येत्याह देवः पितामहः
ततश् च क्षान्तमेवेति प्रोक्त्वा तं वैष्णवं ज्वरम् ।
आत्मन्येवलयं निन्ये भगवान्मधुसूदनः
ज्वर उवाच
मम त्वाय समं युद्धं ये स्मरीष्यन्ति मानवाः ।
विज्वरास्ते भविष्यन्ती त्युक्त्वा चैनं ययौ ज्वरः
ततोग्नीन्भगवान्पञ्च जित्वा नीत्वा तथा क्षयम् ।
दानवानां बलं कृष्णश्चूर्णयामास लीलया
ततःसमस्तसैन्येन दैतेयानां बलेःसुतः ।
युयुधे शङ्करश्चैव कार्त्तिकेयश् च शौरिणा
हरिशङ्करयोर्युद्धमतीवासीत्सुदारुणम् ।
चुक्षुभुःस कला लोकाः शस्त्रास्त्रांशुप्रतापितिः
प्रलयोयमशेषस्य जगतो नूनमागतः ।
मेनिरे त्रिदशास्तत्र वर्तमाने महारणे
जृंभ कास्त्रेण गोविन्दो जृंभयामास शङ्करम् ।
ततः प्रणेमुर्दैतेयाः प्रमथाश् च समन्ततः
जृंभाभिभूतस्यु हरो रथोपस्थ उपाविशत् ।
न शशाक ततो योद्धुं कृष्णेनाक्लिष्टकर्मणा
गरुजक्षतवाहश् च प्रद्युम्नास्त्रेण पीडितः ।
कृष्णहुङ्कारनिर्धूतशक्तिश्चापययौ गुहः
जृंभिते शङ्करे नष्टे दैत्यसैन्ये गुहे जिते ।
नीते प्रमथसैन्ये च संक्षयं शार्ङ्गधन्वना
नन्दिना संगृहीताश्वमधिरूढो महारथम् ।
बाणस्तत्राययौ योद्धुं कृष्णकार्ष्णिबलैः सह
बलभद्रो महावीर्यो बाणसैन्यमनेकधा ।
विव्याध बाणैः प्रभ्रश्य धर्मतश्चापलायत
आकृष्य लाङ्गलाग्रेण मुकलेनाशु ताडितम् ।
बलं बलेन ददृशे बाणो बाणैश् च चक्रिणा
ततः कृष्णेन बाणस्य युद्धमासीत्सुदारुणम्
समस्यतोरिषून्दीप्तान्कायत्राणविभेदिनः ।
कृष्णश्चिच्छेद बाणैस् तान् बाणेन प्रहिताञ्छितान् ।
विव्याध केशवं बाणो बाणं विव्याध चक्रधृक्
मुमुचाते तथास्त्राणि बाणकृष्णौ जिगीषया ।
परस्परक्षतिकरौ लाघवादनिशं द्विज
भिद्यमानेष्वशेषेषु शरेष्वस्त्रे च सीदति ।
प्राचुर्येण ततो बाणं हन्तुं चक्रे हरिर्मनः
ततोर्कशतसंघाततेजसा सदृशद्युति ।
जग्राह दैत्यचक्रारिर्हरिश्चक्रं सुदर्शनम्
मुञ्चतो बाणनाशाय ततश्चक्रं मधुद्विषः ।
नग्ना दैतेयविद्याभूत्कोटरी पुरतो हरेः
तामग्रतो हरिर्दृष्ट्वा मीलिताक्षःसुदर्शनम् ।
मुमोच बाणमुद्दिश्य च्छेत्तुं बाहुवनं रिपोः
क्रमेण तत्तु बाहूनां बाणस्याच्युतचोदितम् ।
छेदं चक्रे ऽसुरापास्तशस्त्रौ घक्षपणादृतम्
छिन्ने बाहुवने तत्तु करस्थं मधुसूतनः ।
मुमुक्षुर्बाणनाशाय विज्ञातस्त्रिपुरद्विषा
समुपेत्याह गोविन्दं सामपूर्वमुमापतिः ।
विलोक्य बामं दादडच्छेदासृक्स्राववर्षिणम्
शङ्कर उवाच
कृष्णकृष्ण जगन्नाथ जाने त्वां पुरुषोत्तमम् ।
परेशं परमात्मानमनादिनिधनं हरिम्
देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका ।
लीलेयं सर्वभूतस्य तव चेष्टोपलक्षणा
तत्प्रसीदाभयं दत्तं बाणस्यास्य मया प्रभो ।
तत्त्वाय नानृतं कार्यं यन्मया व्याहृतं वचः
अस्मत्संश्रयदृप्तोयं नापराधी तवाव्यय ।
मया दत्तवरो दैत्यस्ततस्त्वां क्षमयाम्यहम्
श्रीपराशर उवाच
इत्युक्तः प्राह गोविदः शुलपाणिमुमापतिम् ।
प्रसन्नपदनो भूत्वा गतामर्षो ऽसुरं प्रति
श्रीभगवानुवाच
युष्मद्दत्तवरो बाणो जीवतामेष शङ्कर ।
त्वद्वाक्यगौरवादेतन्मया चक्रं निवर्तितम्
त्वया यदभयं दत्तं तद्दत्तमखिलं मया ।
मत्तो ऽविभिन्नमात्मानं द्रष्टुमर्हसि शङ्कर
योहं स त्वं जगच्चेदं सदेवासुरमानुषम् ।
मत्तो नान्यदशेषं यत्तत्त्वञ्ज्ञातुमिहार्हसि
अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः ।
वदन्ति भेदं पश्यन्ति चावयोरन्तरं हर
प्रसन्नो ऽहं गमिष्यामि त्वं गच्छ वृषभध्वज
श्रीपराशर उवाच
इत्युक्त्वा प्रययौ कृष्णः प्राद्युम्निर्यत्र तिष्ठति ।
तद्बन्धफणिनो नेशुर्गरुडानिलपोथिताः
ततो ऽनिरुद्धमारोप्य सपत्नीकं गरुत्मति ।
आजग्मुर्द्वारकां रामकार्ष्णिदामोदराः पुरीम्
पुत्रपौत्रैः परिवृतस्तत्र रेमे जनार्दनः ।
देवीभिः सततं विप्र भूभारतरमेच्छया
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0