विष्णु पुराण · अध्याय 5.32
इति श्रीविष्णुमहापुराणे पञ्चमांश एकत्रिंशो ऽध्यायः (31)
श्रीपराशर उवाच
प्रद्युम्नाद्या हरेः पुत्रा रुक्मिण्यां क्वथितास्तव ।
भानुभौमेरिकाद्यंश् च सत्यभामा व्यजायत
दीप्तिमत्ताम्रपक्षाद्य रोहिण्यां कथिता हरेः ।
बभूवुर्जाम्बवत्यां च सांबाद्या बाहुशालिनः
तनया भद्रविन्दाद्या नाग्नजित्यां महाबलाः ।
संग्रामजित्प्रधानास्तु शैब्यायां च हरेःसुताः
वृकाद्याश् च सुता माद्र्यां गात्रवत्प्रमुखान् सुतान् ।
अवाप लक्ष्माणा पुत्रान्कालिन्द्याश् च श्रुतादयः
अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः ।
अष्टायुतानि पुत्राणां सहस्राणी शतं तथा
प्रद्युम्नः प्रथमस्तेषां सर्वेषां रुक्मिणीसुतः ।
प्रद्युम्नादनिरुद्धो ऽभूद्वज्रस्तस्मादजायत
अनिरुद्धो रणे ऽरुद्धो बलेः पौत्रीं महाबलः ।
उषांबाणस्य तनयामुपयेमे द्विजोत्तम
यत्र युद्धमभूद्धोरं हरिशङ्करयोर्महत् ।
छिन्नं सहस्रं बाहूनां यत्र बाणस्य चाक्रिणा
मैत्रेय उवाच
कथं युद्दमभूद्ब्रह्यन्नुषार्थे हरकृष्णयोः ।
कथं क्षयं च बाणस्य बाहूनां कृतवान्हरिः
एतत्सर्वं महाभाग ममाख्यातुं त्वमर्हसि ।
महत्कौतूहलं जातं कथां श्रोतुमिमां हरेः
श्रीपराशर उवाच
उषा बाणसुता विप्र पार्वतीं सह शंभुना ।
क्रीडन्तीमुपलक्ष्योच्चैः स्पृहां चक्रे तदाश्रयाम्
ततःसकलचित्तज्ञा गौरी तामाह भामिनीम् ।
अलमत्यर्थतापेन भर्त्रा त्वमपि रंस्यसे
इत्युक्ता सा तया चक्रे कदेति मतिमात्मनः ।
को वा भर्ता ममेत्याह पुनस्तामाह पार्वती
पार्वत्युवाच
वैशाखशुक्लद्वादश्यां स्वप्ने योभिभवं तव ।
करिष्यति स ते भर्ता राजपुत्रि भविष्यति
श्रीपराशर उवाच
तस्यां तिथाबुषास्वप्ने यथा देव्या समीरितम् ।
तथैवा भिभवं चक्रे कश्चिद्रागं च तत्र सा
ततः प्रबुद्धा पुरुषमपश्यन्ती समुत्मुका ।
क्व गतेसीति निर्लज्जा मैत्रेयोक्तवती सखिम्
बाणस्य मन्त्री कुंभाण्डं चित्ररेखा च तत्सुता ।
तस्याःसख्यभवत्सा च प्राह कोयं त्वयोच्यते
यदा लज्जाकुला नास्यै कथयामास सा सखी ।
तदा विश्वासमानीय सर्वमेवाभ्यवादयत्
विदितार्थां तु तामाह पुनश्चोषा यथोदितम् ।
देव्या तथैव तत्प्राप्तौ यो ह्युपायः कुरुष्व तम्
चित्रलेखोवाच
दुर्विज्ञेयमिदं वक्तुं प्राप्तुं वापि न सक्यते ।
तथापि किञ्चत्कर्तव्यमुपकारं प्रिये तव
सप्ताष्टदिनपर्यन्तं तावत्कालः प्रतीक्ष्यताम् ।
इत्युक्त्वाभ्यन्तरं गत्वा उपायं तमथाकरोत्
श्रीपराशर उवाच
ततः पदे सुरान्दैत्यन्गन्धर्वांश् च प्रधानतः ।
मनुष्यांश् च विलिख्यास्यै चित्रलेखा व्यदर्शयत्
अपास्य सा तु गन्धर्वांस् तथोरगसुरासुरान् ।
मनुष्येषु ददौ दृष्टिं तेष्व् अप्य् अन्धकवृष्णिषु
कृष्णरामौ विलोक्यासीत् सुभ्रूर् लज्जाजडेव सा ।
प्रद्युम्नदर्शने व्रीडेदृष्टिं निन्येन्यतो द्विज
दृष्टमात्रे ततः कान्ते प्रद्युम्नतनये द्विज ।
दृष्टत्यर्थविलासिन्या लज्जा क्वापि निराकृता
सोयंसोयमितीत्युक्ते तया सा योगगामिनी ।
चित्रलेखाब्रजीदेनामुषां बाणसुरां तदा
चित्रलेखोवाच
अयं कृष्णस्य पौत्रस्ते भर्ता देव्या प्रसादितः ।
अनिरुद्ध इति ख्यातः प्रख्यातः प्रियदर्शनः
प्राप्नोषि यदि भर्तारमिमं प्राप्तं त्वयाखिलम् ।
दुष्प्रवेशा पुरी पूर्वं द्वारका कृष्णपालिता
तथापि यत्नाद्भर्तारमानयिष्यामि ते सखि ।
रहस्यमेतद्वक्तव्यं न कस्यचिदपि त्वया
अचिरादागमिष्यामि सहस्व विरहं मम ।
ययौ द्वारवतीं चोषां समाश्वास्य ततः सखीम्
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0