विष्णु पुराण · अध्याय 5.31
इति श्रीपिष्णुमहापुराणे पञ्चमांसे त्रिंशोध्यायः (30)
श्रीपराशर उवाच
संस्तुतो भगवानित्थं देवराजेन केशवः ।
प्रहस्य भावगंभीरमुवाचेन्द्रं द्विजोत्तम
श्रीकृष्ण उवाच
देवराजो भवानिन्द्रो वयं मर्त्या जगत्पते ।
क्षन्तव्यं भवतैवेदम् अपराधं कृतं मम
पारिजाततरुश्चायं नीयतामुचितास्पदम् ।
गृहीतोयं मया शक्र सत्यावचनकारणात्
वज्रं चेदं गृहाम त्वं यदत्र प्रहितं त्वया ।
तबैवैतत्प्रहरणं शक्र वैरिविदारणम्
इन्द्र उवाच
विमोहयसि मामीश मर्त्यो ऽहमिति किं वदन् ।
जानीमस्त्वां भगवतो न तु सूक्ष्मविदो वयम्
यो ऽसि सो ऽसि जगत्त्रणप्रवृत्तौ नाथ संस्थितः ।
जगतः शल्यनिष्कर्षं करोष्यमुरसूदन
नीयतां पारीजातो ऽयं कृष्ण द्वारवतींपुरीम् ।
मर्त्यलोके त्वया त्यक्ते नायं संस्थास्यते भुवि
देवदेव जगन्नाथ कृष्ण विष्णो महाभुज ।
शङ्खचक्रगदापाणे क्षमस्वैतद् व्यतिक्रमम्
श्रीपराशर उवाच
तथेत्युक्त्वा च देवेन्द्रमाजगाम भुवं हरिः ।
प्रसक्तैः सिद्धगन्धर्वैः स्तूयमानः सुरर्षिभिः
ततः शङ्खमुपाध्माय द्वारकोपरि संस्थितः ।
हर्षमुत्पादयामास द्वारकावासिनां द्वज
अवतीर्याथ गरुडात्सत्यभामा सहायवान् ।
निष्कुटे स्थापयामास पारिजातं महातरुम्
यम् अभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम् ।
वास्यते यस्य पुष्पोत्थगन्धेनोर्वी त्रियोजनम्
ततस्ते यादवाःसर्वे देहवन्धानमानुषान् ।
ददृशुः पादपे तस्मिन् कुर्वन्तो मखदर्शनम्
किङ्करैः समुपानीतं हस्त्यश्वादि ततो धनम् ।
विभज्य प्रददौ कृष्णो बान्धवानां महामतिः
कन्याश् च कृष्णे जग्राह नरकस्य परिग्रहान्
ततः काले शुभे प्राप्ते उपयेमे जनार्दनः ।
ताः कन्या नरकेणासन्सर्वतो याःसमाहृताः
एकस्मिन्नेव गोविन्दः काले तासां महामुने ।
जग्राह विधिवत्वाणीन्पृथग्गेहेषु धर्मतः
षोडशस्त्रीसहस्राणि शतमेकं ततोधिकम् ।
तावन्ति चक्रेरूपाणि भगवान् मधुसूदनः
एकैकमेव ताः कन्या मेनिरे मधुसूदनः ।
ममैव पाणिग्रहणं मैत्रेय कृतवानिति
निशासुच जगत्स्रष्टा तासां गेहेषु केशवः ।
उवास विप्र सर्वासां विश्वरूपधरो हरिः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0