विष्णु पुराण · अध्याय 5.30
इति श्रीविष्णुमहापुराणे पञ्चमांश एकोनत्रिन्ध्यायः (29)
श्रीपराशर उवाच
गरुडो वारुणं छत्रं तथैव मणिपर्वतम् ।
सभार्यं च हृषीकेशं लीलयैव वहन्ययौ
ततः शखमुपाध्मासीत्स्वर्गद्वारगतो हरिः ।
उपतस्थुस् तथा देवाःसार्घ्यहस्ता जनर्जनम्
स देवैर् अर्चितः कृष्णो देवमातुर्निवेशनम् ।
सिताभ्रशिखराकारं प्रविश्य ददृशे ऽदितिम्
स तां प्रणम्य शक्रेण सह ते कुण्डलोत्तमे ।
ददौ नरकनाशं च शशंसास्यै जनार्दनः
ततः प्रीताजगन्माता धातारं जगतां हरिम् ।
तुष्टवादितिरव्यग्रा कृत्वा तत्प्रवणं मनः
अदितिरुवाच
नमस्ते पुण्डरीकाक्ष भक्तानामभयङ्कर ।
सनातनात्मन् सर्वात्मन् भूतात्मन् भूतभावन
प्रणेतर्मनसो बुद्धेरिन्द्रियाणां गुणात्मक ।
त्रिगुणातीत निर्द्वद्व शुद्धसत्त्व हृदि स्थित
सितदीर्घादिनिः शेषकल्पनापरिवर्जित ।
जन्मादिभिर् असंस्पृष्ट स्वप्नादिपरिवर्जित
संध्यारात्रिरहो भूमिर्गगनं वायुरंबु च ।
हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाच्युत
सर्गस्थितिविनाशानां कर्ता कर्तृपतिर्भवान् ।
ब्रह्मविष्णुशिवाख्याभिर् आत्ममूर्तिभिर् ईश्वर
देवा दैत्यास् तथा यक्षा राक्षसाः सिद्धपन्नगाः ।
कूष्माण्डाश् च पिसाचाश् च गन्धर्वा मनुजास् तथा
पशवश् च मृगाश्चैव पतङ्गाश् च सरीसृपाः ।
वृक्षगुल्मलताबह्व्यःसमस्तास्तृणजातयः
स्थूला मध्यास् तथा सूक्ष्माःसूक्ष्मात्सूक्ष्मतराश् च ये ।
देहभेदा भवान् सर्वे ये केचित्पुर्गलाश्रयाः
माया तवेयमज्ञातपरमार्थातिमोहिनी ।
अनात्मन्यात्मविज्ञानं यया मूढो निरुद्ध्यते
अस्वे स्वमिति भावोत्र यत्पुंसामुपजायते ।
अहं ममेति भावो यत्प्रायेणैवाभिजायते ।
संसारमातुर् मायायास् तवैतन्नाथ चेष्टितम्
यैः स्वधर्मपरैर् नाथ नरैर् आराधितो भवान् ।
ते तरन्त्यखिलामेतां मायामात्मविमुक्तये
ब्रह्माद्याःसकला देवा मनुष्याः पशवस् तथा ।
विष्णुमाया महावर्तमोहान्धतमसावृताः
आराध्य त्वामभीप्संते कामानात्मभवक्षयम् ।
यदेते पुरुषा माया सैवेयं भगवंस्तव
मया त्वं पुत्रकामिन्या वैरिपक्षजयाय च ।
आराधितो न मोक्षाय मायाविलसितं हि तत्
कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमादपि ।
जायते यदपुण्यानां सोपराधः स्वदोषजः
तत्प्रसीदाखिलजगन्मायामोहकराव्यय ।
अज्ञानं ज्ञानसद्भावभूतं भूतेश नाशय
नमस्ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः ।
नन्दहस्ताय ते विष्णो शङ्खहस्ताय ते नमः
एतत्पश्यामि ते रूपं स्थूलचिह्नोपलक्षितम् ।
न जानामि परं यत्ते प्रसीद परमेश्वर
श्रीपराशर उवाच
अदित्यैवं स्तुतो विष्णुः प्रहस्याह सुरारणिम् ।
माता देवि त्वमस्माकं प्रसीद वरदा भव
अदिदिरुवाच
एवमस्तु यथेच्छा ते त्वमशेषैः सुरासुरैः ।
अजेयः पुरुषव्याघ्र सर्त्यलोके भविष्यसि
श्रीपराशर उवाच
ततः कृष्णस्य पत्नी च शक्रेण सहितादितिम् ।
सत्यभामा प्रणम्याह प्रसीदेति पुनः पुनः
अदितिरुवाच
मत्प3सादान्न ते सुभ्रु जरा वैरूप्यमेव वा ।
भविष्यत्यनवद्याङ्गि सुस्थिरं नवयौवनम्
श्रीपराशर उवाच
अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् ।
यथावत्पूजयामास बहुमानपुरःसरम्
शची च सत्यभामायै पारिजातस्य पुष्पकम् ।
न ददौ मानुषीं मत्वा स्वयं पुष्पैर् अलङ्कृता
ततो ददर्श कृष्णो ऽपि सत्यभामासहायवान् ।
दवोद्यानानि हृद्यानि नन्दनादीनि सत्तम
ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम् ।
नित्याह्लादकरं ताम्रबालपल्लवशोभितम्
मथ्यमाने ऽमृते जातं जातरूपोपमत्वचम् ।
पारिजातं जगन्नाथः केशवः केशिसूदनः
तुतोष परमप्रीत्या तरुराजमनुत्तमम् ।
तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तम ।
कस्मान्न द्वारकामेष नीयते कृष्ण पादपः
यदि चेत्त्वद्वचः सत्यं त्वमत्यर्थं प्रियेति मे ।
मद्गेहनिष्कुटार्थाय तदयं नीयतां तरुः
न मे जांबवती तादृगभीष्टा न च रुक्मिणी ।
सत्ये यथा त्वमित्युक्तं त्वया कृष्णासकृत्प्रियम्
सत्यं तद्यदि गोविन्द नोपचारकृतं मम ।
तदस्तु पारिजातो ऽयं मम गेहविभूषणम्
बिभ्रती पारिजातस्य केशपक्षेण मञ्जरीम् ।
सपत्नीनामहं मध्ये शोभेयमिति कामये
श्रीपराशर उवाच
इत्युक्तःस प्रहस्यैनां पारिजातं गरुत्मति ।
आरोपयामास हरिस्तमूचुर्वनरक्षिणः
भो शची देवराजस्य महिषी तत्परीग्रहम् ।
पारिजातं न गोविन्द हर्तुमर्हसि पादपम्
उत्पन्नो देवराजाय दत्तःसो ऽपि ददौ पुनः ।
महिष्यै सुमहाभाग देव्यै शच्यै कुरूहलात्
शचीविभूषणार्थाय देवैर् अमृतमन्थने ।
उत्पादितो ऽयं न क्षेमी गृहीत्वैनं गमिष्यसि
देवराजो मुखप्रेक्षी यस्यास्तस्याः परिग्रहम् ।
मैढ्यात्प्रार्थयसे क्षेमी गृहीत्वैनं हि को व्रजेत्
अवश्यमस्य देवेन्द्रो निष्कृतिं कृष्ण यास्यति ।
वज्रोद्यतकरं शक्रमनुयास्यन्ति चामराः
तदलं सकलैर् देवैर् विग्रहेण तवाच्युत ।
विपाककटु यत्कर्म तन्न शंसंति पण्डिताः
श्रीपराशर उवाच
इत्युक्ते तैर् उवाचैतान् सत्यभामातिकोपिनी ।
का शची पारिजातस्य को वा शक्रःसुराधिपः
सामान्यःसर्वलोकस्य यद्येषो ऽमृतमन्थने ।
समुत्पन्नस्तरुः कस्मादोको गृह्णाति वासवः
यथा सुरा यथैवेन्दुर्यथा श्रीर्वनरक्षिणः ।
सामान्यःसर्वलोकस्य पारिजातस् तथा द्रुमः
भर्तृ बहुमहागर्वाद्रुणद्ध्येनमथो शची ।
तत्कथ्यतामलं क्षान्त्या सत्वा हारयति द्रुमम्
कथ्यतां च द्रुतं गत्वा पौलोम्या वचनं मम ।
सत्यभामा वदत्येतदितिगर्वोद्धताक्षरम्
यदि त्वं दयिता भर्तुर्यदि वश्यः पतिस्तव ।
मद्भर्तुर्हरतो वृक्षं तत्कारय निवारणम्
जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम् ।
पारिजातं तथाप्येनं मानुषी हारयामि ते
श्रीपराशर उवाच
इत्युक्ता रक्षिणो गत्वा शच्याः प्रोचुर्यथोदितम् ।
श्रुत्वा चोत्साहयामास शची चक्रं सुराधिपम्
ततःसमस्तदेवानां सैन्यैः परिवृतो हरिम् ।
प्रययौ पारिजातार्थमिन्द्रोयोद्धुं द्विजोत्तम
ततः परिघनिस्त्रिंशगदाशूलवरायुधाः ।
बभूवुस्त्रिदसाःसज्जाः शक्रे वज्रकरे स्थिते
ततो निरिक्ष्य गोविन्दो नागराजोपरि स्थितम् ।
शक्रं देवपरिवारं युद्धाय समुपस्थितम्
चकार शङ्खनिर्घोषं दिशः शब्देन पूरयन् ।
मुमोच शरसंघातान् सहस्रायुतशः शितान्
ततो दिशो नभश्चैव दृष्ट्वा शरशतैश्चितम् ।
मुमुचुस्त्रिदशाःसर्वे ह्यस्त्रशस्त्राम्यनेकशः
एकैकमस्त्रं शस्त्रं च दैवैर् मुक्तं सहस्रशः ।
चिच्छेद लीलयैवेशो जगतां मधुसूदनः
पाशं सलिलराजस्य समाकृष्यीरगात्पुनः ।
चकार खण्डशश्चञ्च्वा बालपन्नगदेहवत्
यमेन प्रहितं दण्डं गदाविक्षेपखण्डितम् ।
पृथिव्यां पातयामास भगवान् देवकीसुतः
शिबिकां च धनेशस्य चक्रेण तिलशो विभुः ।
चकार शौरिरर्कं च दृषृदृष्टहतौजसम्
नीतो ऽग्निः शीततां बाणैर् द्राविता वसवो दिशः ।
चक्रविच्छिन्नशुलाग्रा रुद्रा भुवि निपातिताः
साध्या विश्वे ऽथ मरुतो गन्धर्वाश्चैव सा यकैः ।
शार्ङ्गिणा प्रेरितैर् अस्ता व्योम्नि शाल्मलितूलवत्
गरुत्मानपि तुण्डेन पक्षाभ्यां च नखाङ्कुरैः ।
भक्षयंस्ताडयन् देवान् दारयंश् च चचार वै
ततः शतसहस्रेण देवेन्द्रमधुसूदनौ ।
परस्परं ववर्षाते धाराभिर् इव तोयदौ
ऐरावतेन गरुडो युयुधे तत्र संकुले ।
देवैः समस्तैर् युयुधे शक्रेण च जनार्दनः
भिन्नेष्वशेषबाणेषु शस्त्रेष्वस्त्रेषु च त्वरन् ।
जग्राह वासवो वज्रं कृष्णश्चक्रं सुदर्शनम्
ततो हाहाकृतं सर्वं त्रैलोक्यं द्विजसत्तम ।
वज्रचक्रकरौ दृष्ट्वा देवाराजजनार्दनौ
क्षिप्तं वज्रमथेन्द्रेण जग्राह भगवान्हरिः ।
न मुमोच तदा चक्रं शक्रं तिष्ठेति चाब्रवीत्
प्रणष्टवज्रं देवेन्द्रं गरुडक्षतवाहनम् ।
सत्यभामाब्रवीद्वीरं पलायनपरायणम्
त्रैलोक्येश न ते युक्तं शचीभर्तुः पलायनम् ।
पारिजातस्रगाभोगा त्वामुपस्थास्यते शची
कीदृशं देवराज्यं ते पारिजातिस्रगुज्ज्वलाम् ।
अपक्येतो यथापूर्वं ग्रणयाभ्यागतां शचीम्
अलं शक्र प्रयासेन न व्रीडां गन्तुमर्हसि ।
नीयतां पारिजातोयं देवाःसंतु गतव्यथाः
परिगर्वावलेपेन बहुमानपुरःसरम् ।
न ददर्श गृहं यातामुपचारेण मां शची
स्त्रीत्वादगुरुचित्ताहं स्वभर्तृश्लाघनापरा ।
ततः कृतवती शक्र भवता सह विग्रहम्
तदल पारीजातेन परस्वेन हृतेन मे ।
रूपेण गर्विता सा तु भर्त्रा का स्त्री न गर्विता
श्रीपराशर उवाच
इत्युक्तो वै निववृते देवराजस्तया द्विज ।
प्राह चैनामलं चण्डि सख्युः खे दोक्तिविस्तरैः
इन्द्र उवाच
न चापि सर्गसंहारस्थितिकर्ताखिलस्य यः ।
जितस्य तेन मे व्रीडा जायते विश्वरूपिणा
यस्माज्जगत्सकलमेतदनादिमध्याद्यस्मिन्यतश् च न भविष्यति सर्वभूतात् ।
तेनोद्भवप्रलयपालनकारणेन व्रीडा कथं भवति देवि निराकृतस्य
सकलभुवनसूतिर्मूर्तिरल्पाल्पसूक्ष्माविदितसकलबैद्यैर् ज्ञायते यस्य नान्यैः ।
तमजमकृतमीशं शाश्वतं स्वेच्छयैनं जगदुपकृतिमर्त्यं को विजेतुं समर्थः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0