भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 5.29

5.29.1

इति श्रीविष्णुमहापुराणे पञ्चमांशे ऽष्टाविंशोध्यायः (28)
श्रीपराशर उवाच
द्वारवत्यां स्थिते कृष्णे शक्रस्त्रिभुवनेश्वरः ।
आजगामाथ मैत्रेय मत्तैरावतपृष्ठगः

5.29.2

प्रविश्य द्वारकां सो ऽथ समेत्य हरिणा ततः ।
कथयामास दैत्यस्य नरकस्य विचोष्टितम्

5.29.3

त्वयानाथेन देवानां मनष्यत्वेपि तिष्ठता ।
प्रशमं सर्वदुःखानि नीतानि मधुसूदन

5.29.4

तपस्विव्यमनार्थाय सोरिष्टो धेनुकस् तथा ।
प्रवृत्तो यस् तथा केशीते सर्वे निहतास्त्वया

5.29.5

कंसः कुवलयापीडः पूतना बालघातिनी ।
नाशं नीतास्त्वया सर्वे ये ऽन्ये जगदुपद्रवाः

5.29.6

युष्मद्दोर्दडसंभूतिपरित्राते जगत्त्रये ।
यज्वयज्ञांशसंप्राप्त्या तृप्तिं यान्ति दिवौकसः

5.29.7

सो ऽहं सांप्रतमायातो यन्निमित्तं जनार्दन ।
तच्छुत्वा तत्प्रतीकारप्रयत्नं कर्तुमर्हसि

5.29.8

भौमो ऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः ।
करोति सर्वभूतानाम् उपघातम् अरिन्दम

5.29.9

देवसिद्दसुरादीनां नृपाणां च नजार्दन ।
हृत्वा तु सो ऽसुरः कन्या रुरुधे निजमन्दिरे

5.29.10

छत्रं यत्सलिलस्रावि तज्जहार प्रचेतसः ।
मदंरस्य तथा शृङ्गं हृतवान्मणिपर्वतम्

5.29.11

अमृतस्त्राविणी दिव्ये मन्मातुः कृष्णकुञ्जले ।
जहार सो ऽसुरो दित्या वाञ्छत्यैरावतं गजम्

5.29.12

दुर्नीतमेतद्गोविन्दमया तस्य निवेदितम् ।
यदत्र प्रतिकर्तव्यं तत्स्वयं परिमृश्यताम्

5.29.13

श्रीपराशस उवाच
इतिश्रुत्वा स्मितं कृत्वा भगवान्देवकीसुतः ।
गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात्

5.29.14

संचिन्त्यागतमारुह्य गरुडं गगनेचरम् ।
सत्यभामां समारोप्य ययौ प्राग्ज्योतिषं पुरम्

5.29.15

आरुह्यौरावतं नागं शक्रो ऽपि त्रिदिवं ययौ ।
ततौ जगाम कृष्णश् च पश्यतां द्वारकौकसाम्

5.29.16

प्राग्ज्योतिषपुरस्यापि समन्ताच्छतयोजनम् ।
आचिता मौरवैः पाशैः क्षुरान्तैर् भूर् द्विजोत्तम

5.29.17

ताञ्चिच्छेद हरिः पाशान्क्षिप्त्वा चक्रं सुदर्शनम् ।
ततो मुरःसमुत्तस्थौ तं जघान च केशवः

5.29.18

मुरस्य तनयान्सप्त सहस्रांस्तांस्ततो हरिः ।
चक्रधाराग्निनिर्दग्धांश्चकार शलभानिव

5.29.19

हत्वासुरं हयग्रीवं तथा पञ्चजनं द्विज ।
प्राग्ज्योतिषपुरं धीमांस्त्वारावान्समुपाद्रवत्

5.29.20

नरकेणास्य तत्राभून्महासैन्येन संयुगम् ।
कृष्णस्य यत्र गोविन्दो यत्र गोविन्दो जघ्ने दैत्यान्सहस्रशः

5.29.21

शस्त्रास्त्रवर्षं मुञ्चन्तं तं भौमं नरकं बली ।
क्षिप्त्वा चक्रं द्विधा चक्रे चक्री दैतेयचक्रहा

5.29.22

हते तु नरके भूमिर्गृहीत्वादितिकुण्डले ।
उपतस्थे जगन्नाथं वाक्यं चेदमथाब्रवीत्

5.29.23

पृथ्व्युवाच
यदाहमुद्धृता नाथ त्वया सूकरमूर्तिना ।
त्वत्स्पर्शसंभवः पुत्रस्तदायं मय्यजायत

5.29.24

सो ऽयं त्वयैव दत्तो मे त्वयैब विनिपातितः ।
गृहाम कुण्डले चेमे पालयास्य च संततिम्

5.29.25

भारावतरणार्थाय ममैव भगवानिमम् ।
अंशेन लोकमायातः प्रसादसुमुखः प्रभो

5.29.26

त्वं कर्ता च विकर्ता च संहर्ता प्रभवो ऽप्ययः ।
जगतान्त्वं जगद्रूपःस्तूयते ऽच्युत किं तव

5.29.27

व्याप्तिव्याप्यं क्रियाकर्ता कार्यं च भगवान्यथा ।
सर्वभूतात्मभूतस्य स्तूयते तव किं तथा

5.29.28

परमात्मा च भूतात्मा त्वमात्मा चाप्ययो भवान् ।
यथातथा स्तुतिर्नाथ किमर्थं ते प्रवर्तते

5.29.29

प्रसीद सर्वभूतात्मन्नरकेण तु यत्कृतम् ।
तत्क्षम्यतामदोषाय त्वत्सुतस्त्वन्निपातितः

5.29.30

श्रीपराशर उवाच
तथेति चोक्त्वा धरणीं भगवान् भूतभावनः ।
रत्नानि नरकावासाज्जग्राह मुनिसत्तम

5.29.31

कन्यापुरे स कन्यानां षोडःशातुलविक्रमः ।
शताधिकानि ददृशे सहस्राणि महामुने

5.29.32

चतुर्दंष्ट्रान्गजांश्चाग्र्यान् षट्सहस्रांश् च दृष्टवान् ।
कांभोजानां तथाश्वानां नियुतान्येकविंशतिम्

5.29.33

ताः कन्यास्तांस् तथा नागांस्तानश्वान् द्वारकां पुरीम् ।
प्रापयामास गोविन्दःसद्यो नरककिङ्करैः

5.29.34

ददृशे वारुणं च्छत्रं तथैव मणिपर्वतम् ।
आरोपयामास हरिर्गरुडेपतगेश्वरे

5.29.35

आरुह्य च स्वयं कृष्णः सत्यभामासहायवान् ।
अदित्याः कुण्डले दानुं जगाम त्रिदशालयम्

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc