भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 5.2

5.2.1

ते सर्वे सर्वदा भद्रे मत्प्रसादादसंशयम् ।
असंदिग्धा भविष्यन्ति गच्छ देवि यथोदितम् ।
इति विष्णुमहापुराणे पञ्चमांशे प्रथमो ऽध्यायः (1)
श्रीपराशर उवाच
यथोक्तं सा जगद्धात्रा देवदेवेन वै तथा ।
षड्गर्भगर्बविन्यासं चक्रे चान्यस्य कर्षणम्

5.2.2

सप्तमे रोहिणीं गर्भे प्राप्ते गर्भं ततो हरिः ।
लोकत्र योपकाराय देवक्याः प्रविवेश ह

5.2.3

योगनिद्रा यशोदायास्तस्मिन्नेव तथा दिने ।
संभूता जठरे तद्वद्यथोक्तं परमेष्ठिना

5.2.4

ततो ग्रहगणःसम्यक्प्रचचार दिवि द्विज ।
विष्णोरंशे भुवं याते ऋतवश्चाबभुः शुभाः

5.2.5

न सेहे देवकीं द्रष्टं कश्तिदप्यतितेजसा ।
जाज्वल्यमानां तां दृष्ट्वा मनांसि क्षोभमाययुः

5.2.6

अदृष्टाः पुरुषैः स्त्रीभिर् देवकीं देवतागणाः ।
बिभ्राणां वपुषा विष्णुं तुष्टुवुस्तामहर्निशम्

5.2.7

देवता ऊचुः
प्रकृतिस्त्वं परा सूक्ष्मा ब्रह्मगर्भाभवत्पुरा ।
ततो वाणी जगद्धातुर्वेदगर्भासि शोभने

5.2.8

सृज्यस्वरूपगर्भासि सृष्टिभूता सनातने ।
बीजभूता तु सर्वस्य यज्ञभूता भवस्त्रयी

5.2.9

फलगर्भा त्वमेवेज्या वह्निगर्भा तथारणिः ।
अदितिर्देवगर्भा त्वं दैत्यगर्भा तथा दितिः

5.2.10

ज्योत्स्ना वासरगर्भा त्वं ज्ञानगर्भासि सन्नतिः ।
नयगर्भा परा नीतिर्लज्जा त्वं प्रश्रयोद्वहा

5.2.11

कामगर्भा तथेच्छा त्वं तुष्टिः संतोषगर्भिणी ।
मेधा च बोधगर्भसि धैर्यगर्भोद्वहा धृतिः

5.2.12

ग्रहर्क्षतारकागर्भा द्यौरस्याखिलहैतुकी ।
एता विभूतयो देवि तथान्याश् च सहस्रशः

5.2.13

तथा संख्या जगद्धात्री सांप्रतं जठरे तव ।
समुद्राद्रिनदीद्वीपवनपत्तनभूषणा ।
ग्रामखर्वटखेटाढ्या समस्ता पृतिवी शुभे

5.2.14

समस्तवह्नयोंऽभांसि सकलाश् च समीरणाः ।
महोरगास् तथा यक्षा राक्षसाः प्रेतगुद्यकाः

5.2.15

ग्रहर्क्षतारकाचित्रविमानशतसंकुतम् ।
अवकाशमशेषस्य यद्ददाति नभस्थलम्

5.2.16

भूलोकश् च भुवर्लोकःस्वर्लोको ऽथ महर्जनः ।
तपश् च ब्रह्मलोकश् च ब्रह्माण्डमखिलं शुभे

5.2.17

तदन्तरे स्थिता देवा दैत्यगन्धर्वचारणाः ।
महोरगास् तथा यक्षा राक्षसाः प्रेतगुह्यकाः

5.2.18

मनुष्याः पशवश्चान्ये ये च जीवा यशस्विनि ।
तैर् अन्तस्थैर् अनन्तो ऽसौ सर्वगः सर्वभावनः

5.2.19

रूपकर्मस्वरूपाणि न परिच्छेदगोचरे ।
यस्याखिलप्रमाणानि स विष्णुर् गर्भगस् तव

5.2.20

त्वं स्वाहा त्वं स्वधा विद्या स्वधा त्वं ज्योतिरंबरे ।
त्वं सर्वलोकरक्षार्थमवतीर्णा महीतले

5.2.21

प्रसीद देवि सर्वस्य जगतः शं शुभे कुरु ।
प्रीत्या तं धारयेशानं धृतं येनाखिलं जगत्

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc