भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 5.28

5.28.1

इति श्रीविष्णुमहापुराणे पञ्चसांशे स्पतविंशोध्यायः (27)
श्रीपराशर उवाच
चारुदेष्णं सुदेष्णं च चारुदेहं च वीर्यवान् ।
सुषेणं चारुगुप्तं च भद्रचारुं तथा परम्

5.28.2

चारुविन्दं सुचारुं च चारुं चबलिनां वरम् ।
रुक्मिण्यजनयत्पुत्रान्कन्यां चारुमतीं तथा

5.28.3

अन्याश् च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः ।
कालिदी मित्रविन्दा च सत्या चाग्नजिती तथा

5.28.4

देवी जाम्बवती चापि रोहिणी कामरूपिणी ।
मद्रराजसुता चान्या सुशीला शीलमण्डना

5.28.5

सत्राजिती सत्यभामा लक्ष्मणा चारुहासिनी ।
षोडशासन् सहस्राणि स्त्रीणामन्यानि चक्रिणः

5.28.6

प्रद्युम्नऽपि महावीर्यो रुक्मिणस्तनयां शुभाम् ।
स्वयंबरे तां जग्राह सा च तं तनयं हरेः

5.28.7

तस्यामस्याभक्तपुत्रो महाबलपराक्रमः ।
अनिरुद्धो रणे रुद्धवीर्योदधिररिन्दमः

5.28.8

तस्यापि रुक्मिणः पौत्रीं वरयामास केशवः ।
दौहित्राय ददौ रक्मी तां स्पर्धन्नपि चक्रिणा

5.28.9

तस्या विवाहे रामाद्या यादवा हरिणा सह ।
कल्याणार्थं ततःसर्वे ये चान्ये भूभृतस् तथा ।
रुक्मिणी नगरं जग्मुर्नाम्ना भोजकटं द्विज

5.28.10

विवाहे तत्र निर्वृत्ते प्रद्युम्नस्य महात्मनः ।
कलिङ्गराजप्रमुखा रुक्मिणं वाक्यमब्रुवन्

5.28.11

अनक्षज्ञो हली द्युते तथास्य व्यसनं महत् ।
तज्जयामो बलं कस्माद्द्युतेनैनं महाबलम्

5.28.12

श्रीपराशर उवाच
तथेति तानाह नृपान्रुक्मी बलमदान्वितः ।
सभायां सह रामेण चक्रे द्यूतं च वै तदा

5.28.13

सहस्रमेकं निष्काणां रुक्मिणा विजितो बलः ।
द्वितीये ऽपिपणे चान्यत्सहस्रं रुक्मिणा जितः

5.28.14

ततो दशसहस्राणि निष्काणां पणमाददे ।
बलभद्रो ऽजयत्तानि रुक्मी द्युतविदां वरः

5.28.15

ततो जहास स्वनवत्कलिङ्गाधिपतिर्धिज ।
दन्तान् विदर्शयन् मूढो रुक्मी चाह मदोद्धतः

5.28.16

अविद्यो ऽयं मया द्यूते बलभद्रः पराजितः ।
भुधैवाक्षावलेपान्धो यो ऽवमेने ऽक्षकोविदान्

5.28.17

दृष्ट्वा कलिङ्गराजानं प्रकाशदशनाननम् ।
रिक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः

5.28.18

ततः कोपपरीतात्मा निष्ककोटिं समाददे ।
ग्लहं जग्राह रुक्मी च तदर्थेक्षानपातयत्

5.28.19

अजयद्बलदेवस्तं प्राहोच्चैर् विजितं मया ।
मयेति रुक्मी प्राहोच्चैर् अलीकोक्तेर् अलं बल

5.28.20

त्वयोक्तो ऽयं ग्लहःसत्यं न मयैषोनुमोदितः ।
एवं त्वया चेद्विजितं विजितं न मया कथम्

5.28.21

श्रीपराशर उवाच
अथान्तरिक्षे वागुच्चेः प्राह गंभीरनादिनी ।
बलदेवस्य तं कोपं वर्धयन्ती महात्मनः

5.28.22

जितं बलेन धर्मेण रुक्मिणा भाषितं मृषा ।
अनुक्त्वापि वचः किञ्चित् कृत भवति कर्मणा

5.28.23

ततो बलः समुत्थाय कोपसंरक्कलोचनः ।
जघानाष्टपदेनैव रिक्मिणं स महाबलः

5.28.24

कलिङ्गराजं चादाय विस्फुरन्तं बलाद्बलः ।
बभञ्ज दन्तान्कुपितो यैः प्रकाशैर् जहास सः

5.28.25

आकृष्य च महास्तंभं जातरूपमयं बलः ।
जघान तान्ये तत्पक्षे भूभृतः कुपितो भृशम्

5.28.26

ततो हाहाकृतं सर्वं पलायन परं द्विज ।
तद्राजमण्डलं भीतं बभूव कुपिते बले

5.28.27

बलेन निहतं दृष्ट्वा रुक्मिणं मधुसूदनः ।
नोवाच किञ्चिन्मैत्रेय रुक्मिणी बलयोर्भयात्

5.28.28

ततोनिरुद्धमादाय कृतदारं द्विजोत्तम ।
द्वारकामाजगामाथ यदुचक्रं च केशवः

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc