विष्णु पुराण · अध्याय 5.27
इति श्रिविष्णुमहापुराणे पञ्चमांशे षड्विशोध्यायः (26)
श्रीमैत्रेय उवाच
संबरेणहृतो वीरः प्रद्युम्नः स कथं मुने ।
शंबरः स महावीर्यः प्रद्युम्नेन कथं हतः
यस्तेनापहृतः पूर्वं स कथं विजघान तम् ।
एतद्विस्तरतः श्रोतुमिच्छामि सरलं गुरो
श्रीपराशर उवाच
षष्ठेह्नि जातमात्रं तु प्रद्युम्नं सूतिकागृहात् ।
ममैष हन्तेति मुने हृतवान्कालशंबरः
हृत्वा चिक्षेप चैवैनं ग्राहोग्रे लवणार्णवे ।
कल्लोलजनितावर्ते सुघोरे मकारालये
पातितं तत्र चैवैको मत्स्यो जग्राह बालकम् ।
न ममार च तस्यापि जठराग्निप्रदीपितः
मत्स्यबन्धैश् च मत्स्यो ऽसौ मत्स्यैर् अन्यैः सह द्वज ।
घातितो ऽसूरवर्याय शंबराय निवेदितः
तस्य माया वती नाम पत्नी सर्वगृहेश्वरी ।
कारयामास सूदानामाधिपत्यमनिन्दिता
दारिते मत्स्यजठरे सा ददर्शातिशोभनम् ।
कुमारं मन्मथतरोर्दग्धस्य प्रथमाङ्कुरम्
को ऽयं कथमयं मत्स्यजठरे प्रविवेशितः ।
इत्येवं कौनुपाविष्टां नन्वीं प्राहाथ नारदः
अयं समस्तजगतः स्थितिसंहारकारिणः ।
शंबरेण हृतो विष्णोस्तनयः सूतिकागृहात्
क्षिप्तःसमुद्रे मत्स्येन निगीर्णस्ते गृहं गतः ।
नररत्नमिदं सुभ्रु विस्रब्धा परिपालय
श्रीपराशर उवाच
नारदेनैवम् उक्ता सा पालयामास तं शिशुम् ।
बाल्यादेवातिरागेणरूपातिशयमोहिता
स यदा यौवनाभोगभूषितो ऽभून्महामते ।
साभिलाषा तदा सापि बभूव गजगामिनि
मायावती ददौ तस्मै मायाः सर्वा महामुने ।
प्रद्युम्नायानुरागान्धा तत्र्यस्तहृदयेक्षणा
प्रसाज्जन्तीं तु तां प्राह स कार्ष्णिः कमलेभणाम् ।
मातृत्वमपहायाद्य किमेवं वर्तसे ऽन्यथा
सा तस्मै कथयामासन पुत्रस्त्वं ममेति वै ।
तनयं त्वामयं विष्णोर्हृतवान्कालशंबरः
क्षिप्तः समुद्रे मत्स्यस्य संप्राप्तो जठरान्मया ।
सा हि रोदितिते माता कान्ताद्याप्यतिवत्सला
श्रीपराशर उवाच
इत्युक्तः शंबरं युद्धे प्रद्युम्नः स समाह्वयत् ।
क्रोधाकुलीकृतमना युयुधे च महा बलः
हत्वा सैन्यमशेषं तु तस्य दैत्यस्य यादवः ।
सप्तमाया व्यतिक्रम्य मायां प्रयुयुजे ऽष्टमीम्
तया जघान तं दैत्यं मायया कालशंबरम् ।
उत्पत्त्य च तया सार्धमाजगाम पितुः पुरम्
अन्तःपुरे निपतितं मायावत्या समन्वितम् ।
तं दृष्ट्वा कृष्ण संकल्पा बभूवुः कृष्णयोषितः
रुक्मिणी साभवत्प्रेम्णा सास्रदृष्टिरनिन्दिता ।
धन्याया खल्व् अयं पुत्रो वर्तते नवयौवने
अस्मिन्वयसि पुत्रो मे प्रद्युम्नो यदि जीवति ।
सभाग्या जननी वत्स सा त्वाया का विभीषिता
अथ वा यादृसः स्नेहो मम यादृग्वपुस्तव ।
हरेरपत्यं सुव्यक्तं भवान्वत्स भविष्यति
श्रीपराशर उवाच
एतस्मिन्नन्तरे प्राप्तःसह कृष्णेन नारदः ।
अन्तःपुरचरां देवीं रुक्मिणीं प्राह हर्षयन्
एष ते तनयः सुभ्रु हत्वा शंबरमागतः ।
हृतो येनाभवद्बालो भवत्याःसूतिकागृहात्
इयं मायावती भार्या तनयस्यास्य ते सती ।
शंबरस्य न भार्येयं श्रूयतामत्र कारणम्
मन्मथे तु गते नाशं तदुद्भवपरयणा ।
शंबरं मोहयामास मायारूपेण रूपिणी
विहाराद्युपभोगेषु रूपं मायामयं शुभम् ।
दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा
कामो ऽवतीर्णः पुत्रस्ते तस्येयं दयिता रतिः ।
विशङ्का नात्र कर्तव्या स्नुषेयं तव शोभने
ततो हर्षसमाविष्टौ रुक्मिणी केशवौतदा ।
नगरी च समस्ता सा साधुसाध्वित्यभाषत
चिरं नष्टेन पुत्रेण संगतां प्रेक्ष्य रुक्मिणीम् ।
अवाप विस्मयं सर्वो द्वारवत्यां तदा जनः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0