विष्णु पुराण · अध्याय 5.26
इति श्रीविष्णुमहापुराणे पञ्चमांशे पञ्चविंशोध्यायः (25)
श्रीपराशर उवाच
भीष्मकः कुण्डिने राजा विदर्भविषये ऽभवत् ।
रुक्मीतस्यभवत्पुत्रो रुक्मिणी च वरानना
रुक्मिणीं चकमे कृष्णःसा च तं चारुहीसिनि ।
न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे
ददौ च शिशुपालाय जरासन्धप्रचोदितः ।
भीष्मको रुक्मिणा सार्ध रुक्मिणीमुरुविक्रमः
विवाहार्यं ततः सर्वे जरासंधमुखा नृपाः ।
भीष्मकस्य पुरं जग्मुः शिशुपालप्रियैषिणः
कृष्णो ऽपि बलभद्राद्यैर् यदुभिः परिवारितः ।
प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूभृतः
श्वो भाविनि विवाहे तु तां कन्यां हृतवान्हरिः ।
विपक्षभारम् आसज्य रामादिष्व् अथ बन्धुषु
ततश् च पैण्ड्रकश्र्श्रीमान्दन्तवक्रो विदूरथः ।
शिशुपालजरासंधशाल्वाद्याश् च महीभृतः
कुपितास्ते हरिं हन्तुं चक्रुरुद्योगमुत्तमम् ।
निर्जिताश् च समागम्य रामाद्योर्यदुपुङ्गवैः
कुण्डिनं न प्रवेक्ष्यामि ह्यहत्वा युधि केशवम् ।
कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णमनुद्रुतः
हत्वा बलं सनागाश्वं पत्तिस्यन्दनसंकुलम् ।
निर्जितः पातितश्चोर्व्यां लीलयैव स चक्रिणा
निर्जित्य रुक्मिणं सम्यगुपयेमे च रुक्मिणीम् ।
राक्षसेन विवाहेन संप्राप्तां मधुसुदनः
तस्यां जज्ञे च प्रद्युम्नो मदनांशःसवीर्यवान् ।
जहार शंबरो यं वै यो जघान च शंबरम्
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0