विष्णु पुराण · अध्याय 5.25
इति श्रीविष्णुमहापुराणे पञ्चमांशे चतुर्विंशोध्यायः (24)
श्रीपराशर उवाच
वने विचरतस् तस्य सह गोपैर् महात्मनः ।
मानुषच्छद्मरूपस्य शेषस्य धरणीधृतः
निष्पादितो रुकार्यस्य कार्योणोर्वीप्रचारिणः ।
उपभोगार्थमत्यर्थं वरुणः प्राह वारुणीम्
अभीष्टा सर्वदा यस्य मदिरे त्वं महौजसः ।
अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे
इत्युक्ता वारुणी तेन सन्निधानमथाकरेत् ।
वृन्दावनसमुत्पन्नकदं बतरुकोटरे
विचरन् बलदेवो ऽपि मदिरागन्धमुत्तमम् ।
आघ्राय मदिरातर्षमवापाथ वराननः
ततः कदंबात्सहसामद्यधारां स लाङ्गली ।
पतन्तीं वीक्ष्य मैत्रेय प्रययौ परमां मुदम्
पपौ च गोपगोपीभिः समुपेतो मुदान्वितः ।
प्रगीयमानो ललीतं गीतवाद्यविशारदैः
स मत्तोत्यन्तघर्मांभःकणिकामौक्तिकोज्ज्वलः ।
आगच्छ यमुने स्नातुमिच्छामीत्याह विह्वलः
तस्य वाचं नदी सा तु मत्तोक्तामवमत्य वै ।
नाजगाम ततः क्त्रुद्धो हलं जग्राह लाङ्गली
गृहीत्वा तां हलान्तेन चकर्ष मदविह्वलः ।
पापे नायासि नायासि गम्यतामिच्छयान्यतः
साकृष्टा सहसा तेन मार्गं संत्यज्य निम्रगा ।
यत्रास्ते बलभद्रो ऽसौ प्लावयामास तद्वनम्
शोरीरिणी तदाभ्येत्य त्रासविह्वललोचना ।
प्रसीदेत्यब्रवीद्रामं मुञ्च मां मुसलायुध
ततस्तस्याः सुवचनमाकर्ण्य स हला युधः ।
सो ऽब्रवीदवजानासि मम शौर्यबले नदि ।
सो ऽहं त्वां हलपातेन नयिष्यामि सहस्रधा
श्रीपराशर उवाच
इत्युक्तयाति संत्रासात्तया नद्य प्रसादितः ।
भूभागे प्लाविते तस्मिन्मुमोच यमुनां बलः
ततः स्नातस्य वै कान्तिर् अजायत महात्मनः
अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम् ।
वरुणप्रहितां चास्मै मालामम्लानपङ्कजाम् ।
समुद्राभे तथा वस्त्रे नीले लक्ष्मीरयच्छत
कृतावतंसः स तदा चारुकुंडलभूषितः ।
नीलांबरधरःस्रग्वी शुशुभे कान्तिसंयुतः
इत्थं विभूषितो रेमे तत्र रामस् तथा व्रजे ।
मासद्वयेन यातश् च स पुनर्द्वारकां पुरीम्
रेवतीं नाम तनयां रैवतस्य महीपतेः ।
उपयेमे बलस्तस्यां जज्ञाते निशितोल्मुकौ
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0