विष्णु पुराण · अध्याय 5.24
इति श्रीविष्णुमहापुराणेच पञ्चमांशे त्रयोविंशो ऽध्यायः (23)
श्रीपराशर उवाच
इत्थंस्तुतस्तदा तेन मुचुकुन्देन धीमता ।
प्राहेशः सर्वभूतानामनादिनिधनो हरिः
श्रीभगवानुवाच
यथाभिवाञ्छितान्दिव्यान्गच्छलोकान्नराधिप ।
अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः
भुक्त्वा दिव्यन्महा भोगान्भविष्यसि महाकुले ।
जातिस्मरो मत्प्रसादात्ततोमोक्षमवाप्स्यसि
श्रीपराशर उवाच
इत्युक्तः प्रणिपत्येशं जगतामच्युतं नृपः ।
गुहामुखाद्विनिष्क्रान्ततःस ददर्शाल्पकान्नरान्
ततः कलियुगं मत्वा प्राप्तं तप्तुं नृपस्तपः ।
नरनारायणस्थानं प्रययौ गन्धमादनम्
कृष्णोपि घातयित्वारिमुपायेन हि तद्वलम् ।
जग्राह मथुरामेत्य हस्त्यश्वस्यन्दनोज्ज्वलम्
आनीय चोग्रसेनाय द्वारवत्वां न्यवेदयत् ।
पराभिभवनिः शङ्कं बभूव च यदोः कुलम्
बलदेवो ऽपि मैत्रेय प्रशान्ताखिलविग्रहः ।
ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम्
ततो गोपाश् च गोप्यश् च यथा पूर्वम् अमित्रजित् ।
तथैवाभ्यवदत्प्रम्णा बहुमानपुरःसरम्
स कैश्चित् संपरिष्वक्तः कांश्चिच्च परिषस्वजे ।
हास्यं चक्रे समं कैश्चिद् गोपैर् गोपीजनैस् तथा
प्रियाण्यनेकान्यवदन् गोपास्तत्र हलायुधम् ।
गोप्यश् च प्रेमकुपिताः प्रोचुःसेर्ष्यमथापराः
गोप्यः पप्रच्छुरपरा नागरीजनवल्लभम् ।
कच्चिदास्ते सुखं कृष्णश्चलप्रेमलवात्मकः
अस्मच्चेष्टामपहसन्न कच्चित्पुरयोषिताम् ।
सौभाग्यमान मधिकं करोति क्षणसौहृदः
कच्चित्स्मरति नः कृष्णो गीतानुगमनं कलम् ।
अप्यसौ मातरं द्रष्टु सकृदप्यागमिष्यति
अथ वा किं तदालापैः क्रियन्तामपराः कथाः ।
यस्यास्मभिर् विना तेन विनास्माकं भविष्यति
पिता माता तथा भ्राता भर्ता बन्धुजनश् च किम् ।
संत्यक्तस्तत्कृतेस्माभिर् अकृतज्ञध्वजो हि सः
तथापि कच्चिदालापमिहागमनसंश्रयम् ।
करोति कृष्णो वक्तव्यं भवता राम नानृतम्
दामोदरो ऽसौ गोविन्दः पुरस्त्रीसक्तमानसः ।
अपेतप्रीतिरस्मासु दुर्दर्शः प्रतिभाति नः
आमन्त्रितश् च कृष्णेति पुनर्दामोदरेति च ।
जहसुःसस्वरं गोप्यो हरिणा हृतचेतसः
संदेशैः साममधुरैः प्रेमगर्भैर् अगर्वितैः ।
रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः
गोपैश् च पूर्ववद्रामः परिहासमनोहराः ।
कथाश्चकार रेमे च सह तैर् व्रजभूमिषु
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0