विष्णु पुराण · अध्याय 5.23
इति श्रीविष्णुमहापुराणे पञ्चमाशे द्वाविंशो ऽध्यायः (22)
श्रीपराशर उवाच
गार्ग्यं गोष्ठ्यां द्विजं श्यालःषण्ड इत्युक्तवान्द्विज ।
यदूनां सन्निधौ सर्वे जहसुर्यादवास्तदा
ततः कोपपरीतात्मा दक्षिणापथमेत्य सः ।
सुतमिच्छंस्तपस्तेपे यदुचक्रभयावहम्
आराधयन्महादेवं लोहचूर्णमभक्षयत् ।
ददौ वरं च तुष्टो ऽस्मै वर्षे तु द्वादशे हरः
संतोषयामास च तं यवनेशो ह्यनात्मजः ।
तद्योषित्संगमाच्चास्य पुत्रो ऽभूदलिसन्निभः
तं कालयवनं नाम राये स्वे यवनेश्वरः ।
अभिषिच्य वनं यातो वज्रग्रकठिनोरसम्
स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् ।
अपृच्छन्नारदस्तस्मै कथयामास यादवान्
म्लेच्छकोटिसहस्राणां सहस्रैः सो ऽभिसंवृतः ।
गजाश्वरथसंपन्नैश् चकार परमोद्यमम्
प्रययौ स व्यवच्छिन्नं छिन्नयानो दिनेदिने ।
यादवान्प्रति सामर्षो मैत्रेय मथुरां पुरीम्
कृष्णो ऽपि चिन्तयामास क्षपितं यादवं बलम् ।
यवनेन रणे गम्यं मागधस्य भविष्यति
मागधस्य बलं क्षीणं स कालयवनो बली ।
हन्तैतदेवमायातं यदूनां व्यसनं द्विधा
तस्माद्दुर्गं करिष्यामि यदूनामरिदुर्जयम् ।
स्त्रियो ऽपि यत्र युद्धेयुः किं पुनर्वृष्णिपुङ्गवाः
मयि मत्ते प्रमत्ते वा सुप्ते प्रवसिते ऽपि वा ।
यादवाभिभवं दुष्टा मा कुर्वंस्त्वरयोधिकाः
इति संचिन्त्य गोविन्दो योजनानां महोदधिम् ।
ययाचे द्वादशपुरीं द्वारकां तत्र निर्ममे
महोद्यानां महावप्रां तटाकशतशोभिताम् ।
प्रासादगृहसंबाधामिन्द्रस्येवामरावतीम्
मथुरावासिनं लोकं तत्रानीय जनार्दनः ।
आसन्ने कालयवने मथुरां च स्वयं ययौ
बहिरावासिते सैन्ये मथुराया निरायुधः ।
निर्जगाम च गोविन्दो ददर्श यवनश् च तम्
स ज्ञात्वा वासुदेवं तं बाहुप्रहरणं नृपः ।
अनुयातो महायोगी चेतोभिः प्राप्यते न यः
तेनानुयातः कृष्णो ऽपि प्रविवेश महागुहाम् ।
यत्र शेते महावीर्यो मुचुकुन्दो नरेश्वरः
सो ऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नृपम् ।
पादेन ताडयामास मत्वा कृष्णं सुदुर्मतिः
उत्थाय मुचुकुन्दो ऽपि ददर्श यवनं नृपः
दृष्टमात्रश् च तेनासौ जज्वाल यवनोग्निना ।
तत्क्रोधजेन मैत्रेय भस्मीभूतश् च तत्क्षणात्
स हि देवासुरे युद्धे गतो हत्वा महासुरान् ।
निद्रार्तःसुमहाकालं निद्रां वव्रे वरं सुरान्
प्रोक्तश् च देवैः संसुप्तं यस्त्वामुत्थापयिष्यति ।
देहजेनाग्निना सद्यःस तु भस्मीभविष्यति
एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसूदनम् ।
कस्त्वमित्याह सो ऽप्याह जातोहं शशिनः कुले ।
वसुदेवस्य तनयो यदोर्वंशसमुद्बवः
मुचुकुन्दो ऽपि तत्रासौ वृद्धगर्ग्यावचो ऽस्मरत्
संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम् ।
प्राह ज्ञातो भवान् विष्णोर् अंशस्त्वं परमेश्वर
पुरा गार्ग्येण कथितमष्टाविंशतिमे युगे ।
द्वापरान्ते हरेर्जन्म यदुवंशे भविष्यति
स त्वं प्राप्तो न संदेहो मर्त्यानामुपकारकृत्
तथाहि सुमहत्तेजो नालं सोढुमहं तव ।
तथाहि सजलांभोदनादधीरतरं तव ।
वाक्यं नमति चैवोर्वी युष्मत्पादप्रपीडिता
देवासुरमहायुद्धे दैत्यसैन्यमहाभटाः ।
न सेहुर्मम ते जस्ते त्वत्तेजो न सहाम्यहम्
संसारपतितस्यैको जन्तोस्त्वं शरणं परम् ।
प्रसीद त्वं प्रपन्नार्तिहर नाशय मे ऽशुभम्
त्वं पयो निधयः शैलसरितस्त्वं वनानि च ।
मेदिनी गगनं वायुरापोग्निस्त्वं तथा मनः
बुद्धिरव्याकृतप्राणाः प्राणेशस्त्वं तथा पुमान् ।
पुंसः परतरं यच्च व्याप्य जन्म विकारवत्
शब्दादिहीनमजरममेयं क्षयवर्जितम् ।
अवृद्धिनाशं तद्ब्रह्म त्वमाद्यन्तविवर्जितम्
त्वत्तो ऽमराःसपितरो यक्षगन्धर्वकिन्नराः ।
सिद्धाश्चाप्सरसस्त्वत्तो मनुष्याः पशवः खगाः
सरीसृपा मृगाःसर्वे त्वत्तःसर्वे महीरुहाः ।
यच्च भूतं भविष्यं च किञ्चिदत्र चराचरम्
मूर्तामूर्तं तथा चापि स्थूलं सूक्ष्मतरं तथा ।
तत्सर्वं त्वं जगत्कर्ता नास्ति किञ्चित्त्वा या विना
मया संसारचक्रे ऽस्मिन्भ्रमता भगवंस्तदा ।
तापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्विचित्
दुःखान्येव सुखानीति मृगतृष्णाजलाशयाः ।
मया नाथ गृहीतानि तानि तापाय मे ऽभवन्
राज्यमुर्वी बलं कोशो मित्रपक्षस्तथात्मजाः ।
भार्या भृत्य जनो ये च शब्दाद्य विषयाः प्रभो
सुखबुद्ध्या मया सर्वं गृहीतमिदमव्ययम् ।
परिणामे तदेवेश तापात्मकमभून्मम
देवलोकगतिं प्राप्तो नाथ देवगणो ऽपि हि ।
मत्तःसाहाय्यकामोभूच्छाश्वती कुत्र निर्वृतिः
त्वामनाराध्य जगतां सर्वेषां प्रभवास्पदम् ।
शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः
त्वन्मायामूढमनसो जन्ममृत्युजरादिकान् ।
अवाप्य तापान्पश्यन्ति प्रेतराजमनन्तरम्
ततो निजक्रियासूतिनरकेष्वतिदारुणम् ।
प्राप्नुवन्ति नरा दुःखमस्वरूपविदस्तव
अहमत्यन्तविषयी मोहितस्तव मायया ।
ममत्वगर्वगर्तान्तर्भ्रमामि परमेश्वर
सो ऽहं त्वां शरणमपारमप्रमेयं संप्राप्तः परमपदं यतो न किञ्चित् ।
संसारभ्रमपरितापतप्तचेतानिर्वाणे परिणतधाम्नि साभिलाषः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0