भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 5.22

5.22.1

इति श्रीविष्णुमहापुराणे पञ्चमांश एवविंशोध्यायः (21)
श्रीपराशर उवाच
जरासंधमुते कस उपयेमे महाबलः ।
अस्तिं प्राप्तिं च मैत्रेय चयोर्भर्तृहणं हरिम्

5.22.2

महा बलपरीवारो मगधाधिपतिर्बली ।
हन्तुमभ्याययौ कोपाज्जरासंधःसयादवम्

5.22.3

उपेत्य मथुरां सो ऽथ रुरोध मगधेश्वरः ।
अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर् वृतः

5.22.4

निष्क्रम्याल्पपरीवारावुभौ रामजनार्दनौ ।
युयुधाते समं तस्य बलिनौ बलिसैनिकैः

5.22.5

ततो रामश् च कृष्णश् च मतिं चक्रतुरञ्जसा ।
आयुधानां पुराणानामादाने मुनिसत्तम

5.22.6

अनन्तरं हरेः शार्ङ्गं तूणी चाक्षयसायकौ ।
आकाशादागतौ विप्र तथा कौमोदकी गदा

5.22.7

हलं च बलभद्रस्य गगनादागतं महत् ।
मनसो ऽभिमतं विप्र सानन्दं मुसलं तथा

5.22.8

ततो युद्धे पराजित्य ससैन्यं सगधाधिपम् ।
पुरीं विविशतुर्वीरावुभौ रामजनार्दनौ

5.22.9

जिते तस्मिन्सुदुर्वृत्ते जरासंधे महा मुने ।
जीवमाने गते कृष्णस्तेनामन्यत नाजितम्

5.22.10

पुनरप्याजगामाथ जरासंधो बलान्वितः ।
जितश् च रामकृष्णाभ्यामपक्रान्तो द्विजोत्तम

5.22.11

दश चाष्टौ च संग्रमानेवमत्यन्तदुर्मदः ।
यदुभिर् मागधो राजा चक्रे कृष्णपुरोगमैः

5.22.12

सर्वेष्वेतेषु युद्धेषु यादवैः स पराजितः ।
अपक्राञ्चो जरासंधःस्वल्पसैन्यैर् बलाधिकः

5.22.13

न तद्बलं यादवानां विजितं यदनेकशः ।
तत् तु संनिधिमाहात्म्यं विष्णोर् अंशस्य चक्रिणः

5.22.14

मनुष्यधर्मशीलस्य लीला सा जगतीपतेः ।
अस्त्राण्यनेकरूपाणि यदरातिषु मुञ्चति

5.22.15

मनसैव जगत्सृष्टिं संहारं च करोति यः ।
तस्यापिपक्षक्षपणे कियानुद्यमविस्तरः

5.22.16

तथापि यो मनुष्याणां धर्मस्तमनुवर्तते ।
कुर्वन्बलवता संधिं हीनैर् युद्धं करोत्यसौ

5.22.17

साम चोपप्रदानं च तथा भेदं च दर्शयन् ।
करोति दण्डपातं च क्वचिदेव पलायनम्

5.22.18

मनुष्यदेहिनां चेष्टामित्येवमनुवर्तते ।
लीला जगत्पतेस्तस्य च्छन्दतः परिवर्तते

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc