भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 5.21

5.21.1

इति श्रीविष्णुमहापुराणे पञ्चमांशे विंशोध्यायः (20)
श्रीपराशर उवाच
तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात् ।
देवकी वसुदेवौ कुदृष्ट्वा मायां पुनर्हरिः ।
मोहाय यदुचक्रस्य विततान स वैष्णवीम्

5.21.2

उवाच चांब हे तात चिरादुत्कण्ठितेन मे ।
भवन्तौ कंसभीतेन दृष्टौ संकर्षणेन च

5.21.3

कुर्वतां याति यः कालो मातापित्रोरपूजनम् ।
तत्खण्डमायुषो व्यर्थमसाधूनां हि जायते

5.21.4

गुरुदेवद्विजातीनां मातापित्रोश् च पूजनम् ।
कुर्वतां सफलः कालो देहिनां तात जायते

5.21.5

तत्क्षन्तव्यमिदं सर्वमतिक्रमकृतं पितः ।
कंसवीर्यप्रतापाभ्यामावयोः परवश्ययोः

5.21.6

श्रीपराशर उवाच
इत्युक्त्वाथ प्रणम्योभौ यदुवृद्धाननुक्रमात् ।
यथावदभिपूज्याथ चक्रतुः पौरमाननम्

5.21.7

कंसपत्न्यस्ततः कंसं परिवार्य हतं भुवि ।
विलेपुर्मातरश्चास्य दुःखशोकपरिप्लुताः

5.21.8

बहुप्रकारमस्वस्थाः पश्चात्तापातुरो हरिः ।
ताःसमाश्वासयामास स्वयमस्राविलेक्षमः

5.21.9

उग्रसेनं ततो बन्धामुमोच मधुसूदनः ।
अभ्यसिंचत्तदैवैनं निजराज्ये हतात्मजम्

5.21.10

राज्योभिषिक्तः कृष्णेन यदुसिंहःसुतस्य सः ।
चकार प्रेतकार्याणि ये चान्ये तत्र घातिताः

5.21.11

कृतौर्धदैहिकं चैनं सिंहासनगतं हरिः ।
उवाचाज्ञापय विभो यत्कार्यमविशङ्कितः

5.21.12

ययातिशापाद्वंशोयमराज्यार्हेपि सांप्रतम् ।
मयि भृत्ये स्थिते देवनाज्ञापयतु किं नृपैः

5.21.13

श्रीपराशर उवाच
इत्युक्त्वा सो ऽस्मरद्वायुमाजगाम च तत्क्षणात् ।
उवाच चैनं भगवान्केशवः कार्यमानुषः

5.21.14

गच्छेदं ब्रूहि वायो त्वमलं गर्वोण वासव ।
दीयतामुग्रसेनाय सुधर्मा भवता सभा

5.21.15

कृष्णो ब्रवीति राजार्हमेतद्रत्नमनुत्तमम् ।
सूधर्माख्यसभायुक्तमस्यां यदुभिर् आसितुम्

5.21.16

श्रीपराशर उवाच
इत्युक्तः पवनो गत्वा सर्वमाह शचीपतिम् ।
ददौ सो ऽपि सुधर्माख्यां सभां वायोः पुरन्दरः

5.21.17

वायुना चाहृतां दिव्यां सभां ते यदुपुङ्गवाः ।
बुभुजुःसर्वरत्नाढ्यां गोविन्दभुजसंश्रयाः

5.21.18

विदिताखिलविज्ञानौ सर्वज्ञानमयावपि ।
शिष्याचार्यक्रमं वीरौ ख्यापयन्तौ सदूत्तमौ

5.21.19

ततःसांदीपनिं काश्यमवन्तीपुरवासिनम् ।
विद्यार्थं जग्मतुर्बालौ कृतोपनयनक्रमौ

5.21.20

वेदाभ्यासकृतप्रीति संकर्षणजनार्दनौ ।
तस्य शिष्यत्वमभ्येत्य गुरुवृत्तिपुरौ हि तौ ।
दर्शयाञ्चक्रतुर् वीरा वाचारमखिले जने

5.21.21

सरहस्यं धनुर्वेदं ससंग्रहमधीयताम् ।
अहोरात्रचतुःषष्ट्या तदद्भुतमभूद्द्वूज

5.21.22

सांदीपनिरसंभाव्यं तयोः कर्मातिमानुषम् ।
विचिन्त्य तौ तदा मेने प्राप्तौ चन्द्रदिवाकरौ

5.21.23

सांगांश् च चतुरो वेदान्सर्वशास्त्राणि चैव हि ।
अस्त्रग्राममशेषं च प्रोक्तमात्रमवाप्य तौ

5.21.24

ऊचुतुर्व्रियतां या ते दातव्या गुरुदक्षिमा

5.21.25

सो ऽप्य् अतीन्द्रियमालोक्य तयोः कर्म महामति ।
अयाचत सृतं पुत्रं प्रभासे लवणार्णवे

5.21.26

गृहीतास्त्रौ ततस्तौ तु सार्घ्यहस्तो महोदधिः ।
उवाच न मया पुत्रो हृतःसांदीपनेरिति

5.21.27

दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम् ।
जग्राह योस्ति सलिले ममैवा सुरसूदन

5.21.28

श्रीपराशर उवाच
इत्युक्त्वोन्तर्जलं गत्वा हत्वा पञ्चजनं च तम् ।
कष्णो जग्राह तस्यास्थिप्रभवं शङ्खमुत्तमम्

5.21.29

यस्य नादेन दैत्यानां बलहानिरजायत ।
देवानां ववृधे तेजो यात्यधर्मश् च संक्षयम्

5.21.30

तं पाञ्चजन्यमापूर्य गत्वा यमपुरं हरिः ।
बलदेवश् च बलवाञ्जित्वा वैवस्वतं यमम्

5.21.31

तं बालं यातनासंस्थ यथापूर्वशरीरिणम् ।
पित्रे प्रदत्तवान्कृष्णो बलश् च बलिनां वरः

5.21.32

मथुरां च पुनः प्राप्ताबुग्रसेनेन पालिताम् ।
प्रहृष्टपुरुषस्त्रीकामुभौ रामजनार्दनौ

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc