विष्णु पुराण · अध्याय 5.20
इति श्रीविष्णुमहापुराणे पञ्चमांश एकोनविशोध्यायः (19)
श्रीपराशर उवाच
राजमार्गे ततः कृष्णःसानुलेपनभाजनाम् ।
ददर्श कुब्जामायान्तीं नवयोवनगोचराम्
तामाह ललितं कृष्णः कस्येदमनुलेपनम् ।
भवत्या नीयते सत्यं वदेन्दीवरलोचने
सकामेनेव सा प्रोक्ता सानुरागा हरिं प्रति ।
प्राह सा ललितं कुब्जा तद्दर्शनबलात्कृता
कान्त कस्मान्न जानासि कंसेन विनियोजिताम् ।
नैकवक्रेति विख्यातामनुलेपनकर्मणि
नान्यपिष्टं हि कंसस्य प्रीतये ह्यनुलेपनम् ।
भवाम्यहमतीवास्य प्रसादधनभाजनम्
श्रीकृष्ण उवाच
सुगन्धमेतद्राजार्हं रुचिरं रुचिरानने ।
आवयोर्गात्र सदृशं दीयतामनुलेपनम्
श्रीपराशर उवाच
श्रुत्वैतदाह सा कुब्जा गृह्यतामिति सादरम् ।
अनुलेपनं च प्रददौ गात्रयोग्यमथोभयोः
भक्तिच्छेदानुलिप्ताङ्गौ ततस्तौ पुरुषर्षभौ ।
सेंद्रचापौ व्यराजेतां सितकृष्णाविवांबुदौ
ततस्तां चुबुके शौरिरुल्लापन विधानवित् ।
उत्पाट्य तोलयामास व्द्यङ्गुलेनाग्रपाणिना
चकर्ष पद्य्भां च तदा ऋजुत्वं केशवो ऽनयत् ।
ततःसा ऋजुतां प्राप्तायोषितमभवद्वरा
विलासलिलितं प्राह प्रेमगर्भभरालसम् ।
वस्त्रे प्रगृह्य गोविन्दं मम गेहं व्रजेति वै
एवमुक्तस्तया शौरी रामस्यालोक्य चाननम् ।
प्रहस्य कुब्जां तामाह नैकवक्रामनिन्दिताम्
आयास्ये भवतीगेहमिति तां प्रहसन्हरिः ।
विससर्ज जहासोच्चै रामस्यालोक्य चाननम्
भक्तिभेदानुनिप्ताङ्गौ नीलपीतांबरौ तु तौ ।
धनुःशालां ततो यातौ चित्रमाल्योपसोभितौ
आयागं तद्धनूरत्नं ताभ्यां पृष्टैस् तु रक्षिभिः ।
आख्याते सहसा कृष्णो गृहीत्वा पूरयद्धनुः
ततः पूरयता तेन भज्यमानं बलाद्धनुः ।
चकार सुमहच्छब्दं मथुरा येन पूरिता
अनुयुक्तौ ततस्तौ तु भग्रे धनुषि रक्षिभिः ।
रक्षिसैन्यं निहत्योभौ निष्क्रान्तौ कार्मुकालयात्
अक्रूरागमवृत्तान्तमुपलभ्य महद्धनुः ।
भग्नं श्रुत्वा च कंसो ऽपि प्राह चाणूरमुष्टिकौ
कंस उवाच
गोपालदारकौ प्राप्तौ भवद्य्भां तु ममाग्रतः ।
मल्लयुद्धेन हन्तव्यौ मम प्राणहरौ दि तौ
नियुद्धे तद्विनाशेन भवद्भ्यां तोषितो ह्य् अहम् ।
दास्याम्यभिमतान्कामान्नान्यथैतौ महाबलौ
न्यायतोन्यायतो वापि भवद्य्भां तौ ममाहितौ ।
हन्ताव्यौ तद्वधाद्राज्यं सामान्यं वां भविष्यति
इत्यादिश्य स तौ मल्लौ ततश्चाहूय हस्तिपम् ।
प्रोवाचोच्चैस् त्वया मल्लसमाजद्वारि कुञ्जरः
स्थाप्यः कुवलयापीडस्तेन तौ गोपदारकौ ।
घातनीयौ नियुद्धाय रङ्गद्वारमुपागतौ
तमप्याज्ञाप्य दृष्ट्वा च सर्वान्मञ्चानुपाकृतान् ।
आसन्नमरणः कंसः सूर्योदयमुदैक्षत
ततः समस्तमञ्चेषु नागरःस तदा जनः ।
राजमञ्चेषु चारूढाःसह भृत्यैर् नराधिपाः
मल्लप्राश्रिकवर्गश् च रङ्गमध्यसमीपगः ।
कृतः कंसेन कंसो ऽपि तुङ्गमञ्चे व्यवस्थितः
अन्तःपुराणां मञ्चाश् च तथान्ये परिकल्पिताः ।
अन्ये च वारमुख्यानामन्ये नागरयोषिताम्
नन्दगोपादयो गोपा मञ्चेष्व् अन्येष्व् अवस्थिताः ।
अक्रूरवसुदेवौ च मञ्चप्रान्ते व्यवस्थितौ
नागरीयोषितां मध्ये देवकीपुत्रगर्धिनी ।
अन्तकाले ऽपि पुत्रस्य द्रक्ष्यामीति मुखं स्थिता
वाद्यमानेषु तुर्येषु चाणूरे चातिवल्गति ।
हाहाकारपरे लोके ह्यास्फोटयति मुष्टिके
ईषद्धसंतौ तौ वीरौ बलभद्रजनार्दनौ ।
गोपवेषधारौ वालौ रङ्गद्वारमुपागतौ
ततः कुवलयापीडो महामात्रप्रचोदितः ।
अभ्यधावत वेगेन हन्तुं गोपकुमारकौ
हाहाकारो महाञ्जज्ञे रङ्गमध्ये द्विजोत्तम ।
बलदेवो ऽनुजं दृष्ट्वा वचनं चेदम् अब्रवीत्
हन्तव्यो हि महाभाग नागो ऽयं शत्रुचोदितः
इत्युक्तःसो ऽग्रजेनाथ बलदेवेन वै द्विज ।
सिंहनादं ततश्चक्रे माधवः परवीरहा
करेण करमकृष्य तस्य केशिनिषूदनः ।
भ्रमयामास तं शैरिर् ऐरावतसमं बले
ईशोपि सर्वजगतां बाललीलानुसारतः ।
क्रीडित्वा सुचिरं कृष्णः कदिरन्तपदान्तरे
उत्पाट्य वामदन्तं तु दक्षिणेनैव पाणिना ।
ताडयामास यन्तारं तस्यासीच्छतधा शिरः
दक्षिण दन्तमुत्पाट्य बलभद्रो ऽपि तत्क्षणात् ।
स रोषस्तेन पार्श्वस्थान् गजपालानपोथयत्
ततस्तूत्प्लुत्य वेगेन रौहिणेयो महाबलः ।
जघान वामपादेन मस्तके हस्तिनं रुषा
स पपात हतस्तेन बलभद्रेण लीलया ।
सहस्राक्षेण वज्रेण ताडितः पर्वतो यथा
हत्वा कुवलयापीडं हस्त्यारोहप्रचोदितम् ।
मदासृगनुलिप्ताङ्गौ हस्तिदन्तवरायुधौ
मृगमध्ये यथा सिंहौ गर्वलीलावलोकिनौ ।
प्रविष्टौ सुमहारङ्गं बलभद्रजनार्दनौ
हाहाकारो महाञ्जज्ञे महारङ्गे त्वनन्तरम् ।
कृष्णो ऽयं बलभद्भोयमिति लोकस्य विस्मयः
सो ऽयं येन हता घोरा पूतना बालघातिनी ।
क्षिप्तं तु शकटं येन भग्नौ तु यमलार्जुनौ
सोयं यः कालियं नागं ममर्दारुह्य वालकः ।
धृतो गोवर्धनो येन सप्तरात्रं महागिरिः
अरिष्टो धेनुकः केशी लीलयैव महात्मना ।
निहता येन दुर्वृत्ता दृश्यतामेष सो ऽच्युतः
अयं चास्य महाबाहुर्बलभद्रो ऽग्रतो ऽग्रजः ।
प्रयाति लीलया योषिन्मनोनयननन्दनः
अयं स कथ्यते प्राज्ञैः पुराणार्थविशारदैः ।
गोपालो यादवं वंशं मग्नमभ्यद्धरिष्यति
अयं हि सर्वलोकस्य विष्णोरखिलजन्मनः ।
अवतीर्णो महीमंशो नूनं भारहरो भुवः
इत्येवं वर्णिते पौरै रामे कृष्णे च तत्क्षणात् ।
उरस्तताप देवक्याः स्नेहस्नुतपयोधरम्
महोत्सवम् इवासाद्य पुत्राननविलोकनात् ।
युववे वसुदेवो ऽभूद्विहायाभ्यागतां जराम्
विस्तारिताक्षियुगलो राजान्तःपुरयोषिताम् ।
नागारस्त्रीसमूहश् च द्रष्टुं न विरराम तम्
सख्यः पश्यत कृष्णस्य मुखमत्यरुणेक्षणम् ।
गजयुद्धकृतायासस्वेदांबुकणिकचितम्
विकासिशरदंभोजमपश्यामजलोक्षितम् ।
परिभूयं स्थितं जन्म सफलं क्रियतां दृशः
श्रीवत्सांकं महद्धाम बालस्यैतद्विलोक्यताम् ।
विपक्षक्षपणं वक्षो भुजयुग्यं च भामीनि
किं न पश्यसि दुग्धेन्दुमृणालधवलाकृतिम् ।
बलभद्रमिमं नीलपरिधानमुपगतम्
वल्गतामुष्टिकेनैव चाणूरेण तथा सखि ।
क्रीडतोबलभद्रस्य हरेर्हास्यं विलोक्यताम्
सख्यः पश्यत चाणूरं नियुद्धार्थमयं हरिः ।
समुपैति न संत्यत्र किं वृद्धा मुक्तकारिमः
क्व यौवनोन्मुखीभूतमुकुमारतनुर्हरिः ।
क्व वज्रकठिनाभोगशरीरो ऽयं महासुरः
इमौ सुललितैर् अङ्गैर् वर्तेते नवयौवनौ ।
दैतेयमल्लाश्चाणूरप्रमुखास्त्वतिदारुणाः
नियुद्धप्राश्निकानां तु महानेष व्यतिक्रमः ।
यद्बालबलिनोर् युद्धं मध्यस्थैः समुपेक्ष्यते
श्रीपारशर उवाच
इत्थं पुरस्त्रीलोकस्व वदतश्चालयन्भुवम् ।
ववल्ग बद्धकक्ष्योन्तर्जनस्य भगवान्हरिः
बलभद्रो ऽपि चास्फोट्य ववल्गललितं तथा ।
पदेपदे तथा भूमिर्यन्न शीर्णा तदद्भुतम्
चाणूरेण ततः कृष्णो ययुधे ऽमितविक्रमः ।
नियुद्धकुशलो दैत्यौ बलभद्रेण मुष्टिकः
सन्निपातावधूतैस् तु चाणूरेण समं हरिः ।
प्रक्षेपणैर् मुष्टिभिश् च कीलवज्रनिपातनैः
पादोद्धूतैः प्रमृष्टैश् च तयोर्युद्धम् अभून् महत्
अशस्त्रमतिघोरं तत् तयोर् युद्धं सुदारुणम् ।
बलप्राणविनिष्पाद्यं समाजोत्सवसन्निधौ
यावद्यावच्च चाणूरो युयुधे हरिणा सह ।
प्रामहानिमवापाग्र्यां तावत्तवल्लवाल्लवम्
कृष्णोपि युयुधे तेन लीलयैव जगन्मयः ।
खेदाच्चालयता कोपान्निजकेसरशेखरम्
बलक्षयं विवृद्धिं च दृष्ट्वा चाणूरकृष्णयोः ।
वारयामास तूर्याणि कंसः कोपपरायणः
मृदङ्गादिषु तूर्येषु प्रतिषिद्धेषु तत्क्षणात् ।
खे संगतान्यवाद्यन्त देवतूर्याण्यनेकशः
जय गोविन्द चाणूरं जहि केशव दानवम् ।
अन्तर्धानगता देवास्तमूचुरतिहर्षिताः
चाणूरेण चिरं कालं पीडित्वा मधुसूदनः ।
उत्पाट्य भ्रमयामास तद्वधाय कृतो द्यमः
भ्रामयित्वा शतगुणं दैत्यमल्लममित्रजित् ।
भूभावात्फोटयामास गगने गतजीवितम्
भूमावास्फोटितस्तेनचाणूरः शतधाभवत् ।
रक्तस्रावमहापङ्कां चकार च तदा भवम्
बलदेवो ऽपि तत्कालं मुष्टिकेन महाबलः ।
ययुधे दैत्यमल्लेन चाणूरेण यथा हरिः
सो ऽप्येनं मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना ।
पातयित्वा धरापृष्ठे निष्पिपेष गतायुषम्
कृष्ण स्तोशलकं भूयो मल्लराजं महाबलम् ।
वाममुष्टिप्रहारेण पातयामास भूतले
चाणूरे नहते मल्ले मुष्टेके विनिपातिते ।
नीते क्षयं तोशलके सर्वे मल्लाः प्रदुद्रुवुः
ववल्गतुस्ततो रङ्गे कृष्णसंकर्षणावुभौ ।
समानवयसो गोपान्बलादाकृष्यहर्षितौ
कंसो ऽपि कोपरक्ताक्षः प्राहोच्चैर् व्यायतान्नरान् ।
गोपावेतौ समाजौघान्निष्क्राम्येतां बलादितः
नन्दो ऽपि गृह्यतां पापो निर्गलैर् आयसैर् इह ।
अवृद्धार्हैम दण्डेन वसुदेवो ऽपि बध्यताम्
वल्गन्ति गोपाः कृष्णेन ये चेमे सहिताः पुराः ।
गावो निगृह्य तामेषां यच्चास्ति वसु किञ्चन
एवमाज्ञापयानं तु प्रहस्य मधुसूदनः ।
उत्प्लुत्यारुह्य तं मञ्चं कंसं जग्राह वेगतः
केशेष्वा कृष्य विगलत्किरीटमवनीतले ।
सं कंसं पातयामास तस्योपरि पपात च
अशेषजगदाधारगुरुणा पततोपरि ।
कृष्णेन त्याजितः प्राणानुग्रसेनात्मजो नृपः
मृतस्य केशेषु तदा गृहीत्वा मधुसूदनः ।
चकर्ष देहं कंसस्य रङ्गमध्ये महाबलः
गौरवेमातिपतता परिघातेन कृष्यता ।
कृता कंसस्य देहेन वेगेनेव महांभसः
कंसे गृहीते कृष्णेन तद्भ्राताभ्यागतो रुषा ।
सुनामा बल भद्रेण लीलयैव निपातितः
ततो हाहाकृतं सर्वमासीत्तद्रङ्गमण्डलम् ।
अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम्
कृष्णे ऽपि वसुदेवस्य पादौ जग्राह सत्वरः ।
देवक्याश् च महाबाहुर्बलदेवसहायवान्
उत्थाप्य वसुदेवस्तं देवकी च जनार्दनम् ।
स्मृतजन्मोक्तवचनौ तावे व प्रणतौ स्थितौ
श्रीवसुदेव उवाच
प्रसीद सीदतां दत्तो देवानां यो वरः प्रभो ।
तथावयोः प्रसादेन कृतोद्धारःस केशव
आराधितो यद्भगवानवतीर्णो गृहे मम ।
दुर्वृत्तनिधनार्थाय तेन नः पावितं कुलम्
त्वमन्तः सर्वभूतानां सर्वभूतमयस्थितः ।
प्रवर्तेते समस्तात्मंस्त्वत्तो भूतभविष्यति
यज्ञैस् त्वम् इज्यसे ऽचिन्त्य सर्वदेवमयाच्युत ।
त्वमेव यज्ञो यष्टा च यज्वनां परमेश्वरः
समुद्भवःसमस्तस्य जगतस्त्वं जनार्दन
सापह्नवं मम मनो यदेतत्त्वयि जायते ।
देवक्याश्चात्मजप्रीत्या तदत्यन्तविडंबना
त्वं कर्ता सर्वभूतानामनादिनिधनो भवान् ।
त्वं मनुष्यस्य कस्यैषा जिह्वा पुत्रेते वक्ष्यति
जगदेतज्जगन्नाथ संभूतमखिलं यतः ।
कया युक्त्या विना मायां सो ऽस्मत्तः संभविष्यति
यस्मिन्प्रतिष्ठितं सर्वं जगत्स्थावरजङ्गमम् ।
स कोष्ठोत्संगशयने मानुषो जाय ते कथम्
स त्वं प्रसीद परम्श्वर पाहि विश्वमंशावतारकरणैर् न ममासि पुत्रः ।
आब्रह्यपादपमिदं जगदेतदीश त्वत्तो विमोहयसि किं पुरुषोत्तमास्मान्
मायाविमोहितदृशा तनयो ममेति कंसाद्भायं कृतमपास्तभयो ऽतितीव्रम् ।
नितो ऽसि गोकुलमरातिभया कुलेन वृद्धिं गतो ऽसि मम नास्ति ममत्वमीश
कर्माणि रुद्रमरुदश्विशतक्रतूनां साध्यानि यस्य न भवन्ति निरीक्षितानि ।
त्वं विष्णुरीश जगतामुपकारहेतोः प्राप्तोसि नः परिगतो विगतो हि मोहः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0