भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 5.19

5.19.1

इति श्रीविष्णुमहापुराणे पञ्चमांशे ऽष्टाशो ऽध्यायः (18)
श्रीपराशर उवाच
एवमन्तर्जले विष्णुमभिष्टूय स यादवः ।
अर्चयामास सर्वेशं धूपपुष्पैर् मनोमयैः

5.19.2

परित्यक्तान्यविषयो मनस्तत्र निवेश्य सः ।
ब्रह्मभूते चिरं स्थित्वा विरराम समाधिनः

5.19.3

कृतकृत्यमिवात्मानं मन्यमामौ महामतिः ।
आजगाम रथं भूयो निर्गम्य यमुनांभसः

5.19.4

ददर्श रामकृष्णौ च यथापुर्वमवस्थितौ ।
विस्मिताक्षस्तदाक्रूरस्तं च कृष्णो ऽभ्यभाषत

5.19.5

श्रीकृष्ण उवाच
नूनं ते दृष्टमाश्चर्यमक्रूर यमुनाजले ।
विस्मयोत्फुल्लनयनो भवान्संलक्ष्यते यतः

5.19.6

अक्रूर उवाच
अन्तर्जले यदाश्चर्यं दृष्टं तत्र मयाच्युत ।
तदत्रापि हि पश्यामि मूर्तिमत्पुरतः स्थितम्

5.19.7

जगदेतन्महाश्चर्यरूपं यस्य महात्मनः ।
तेनाश्चर्यपरेणाहं भवता कृष्ण संगतः

5.19.8

तत्किमेतेन मथुरां यास्यामो मधुसूदन ।
बिभेमि कंसाद्धिग्जन्म परिपिण्डोपजीविनाम्

5.19.9

इत्युक्त्वा चोदयामास स हयान् वातरंहसः ।
संप्राप्तश्चापि सायाह्ने सो ऽक्रूरो मथुरां पुरीम्

5.19.10

विलोक्य मथुरां कृष्णं रामं चाह स यादवः ।
पद्य्भां यातं महावीरौ रथेनैको विशाम्यहम्

5.19.11

गन्तव्यं वसुदेवस्य नो भवद्य्भां तथा गृहम् ।
युवयोर्हि कृते वृद्धःस कंसेन निरस्यते

5.19.12

श्रीपराशर उवाच
इत्युक्त्वा प्रविवेशाथ सो ऽक्रूरो मथुरां पुरीम् ।
प्रविष्टौ रामकृष्णौ च राजमार्गमुपागतौ

5.19.13

स्त्रीभिर् नरैश् च सानन्दं लोतनैर् अभिवीक्षितौ ।
जग्मतुर्लीलया वीरौ मत्तौ बालगजाविव

5.19.14

भ्रममाणौ ततो दृष्ट्वा रजकं रङ्गकारकम् ।
अयोचेतां सूरूपाणि वासांसि रुचिराणि तौ

5.19.15

कंसस्य रजकः सो ऽथ प्रसादारूढविस्मयः ।
बहून्याक्षेपवाक्यानि प्राहोच्चै रामकेशवौ

5.19.16

ततस्तलप्रहारेण कृष्णस्तस्य दुरात्मनः ।
पातयामास रोषेण रजकस्य शिरो भुवि

5.19.17

हत्वाऽदाय च वस्त्राणि पीतनीलांबरौ ततः ।
कृष्णरामौ मुदा युक्तौ मालाकारगृहं गतौ

5.19.18

विकासिनेत्रयुगलो मालाकारोतिविस्मितः ।
एतौ कस्य सुतौ यातौ मैत्रेयाचिन्तयत्तदा

5.19.19

पीतनीलांबरधरौ तौ दृष्ट्वातिमनोहरौ ।
स तर्कयामास तदा भुवं देवावुपागतौ

5.19.20

विकासिमुखपद्माभ्यां ताभ्यां पुष्पाणि याचितः ।
भिवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम्

5.19.21

प्रसादपरमौ नाथौ मम गेहमुपागतौ ।
धन्यो ऽहमर्चयिष्यामीत्याह तौ माल्यजीवनः

5.19.22

ततः प्रहृष्टवदनस्तयोः पुष्पणि कामतः ।
चारूण्येतान्यथैतानि प्रददौ स प्रलोभयन्

5.19.23

पुनःपुनः प्रणम्योभौ मालाकारो नरोत्तमौ ।
ददौ पुष्पाणि चारूणि गन्धवन्त्यमलानि च

5.19.24

मालाकाराय कृष्णो पि प्रसन्नः प्रददौ वरान् ।
श्रीस्त्वां मत्संश्रया भद्र न कदाचित्त्यजिष्यति

5.19.25

बलहानिर्न ते सौम्य धनहानिरथापि वा ।
यावद्दिनानि तावच्च न नशिष्यति संततिः

5.19.26

भुक्त्वा च विपुलान्भोगांस्त्वमन्ते मत्प्रसादतः ।
ममानुस्मरणं प्राप्यदिव्यं लोकमवाप्स्यसि

5.19.27

धर्मे मनश् च ते भद्र सार्वकालं भविष्यति ।
युष्मत्संततिजातानां धीर्घमायुर्भविष्यति

5.19.28

नोपसर्गादिकं दोषं युष्मत्संततिसंभवः ।
अवाप्स्यति महाभागा यावत्सूर्यो भविष्यति

5.19.29

श्रीपराशर उवाच
अत्युक्त्वा तद्गृहात्कृष्णो बलदेवसहायवान् ।
निर्जगाम मुनिश्रेष्ठ मालाकारेण पूजितः

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc