भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 5.1

5.1.2

इति श्रीविष्णुमाहपुराणे चतुर्थांशे चतुर्विंशोध्यायः (24)
श्रीविष्णुमाहपुराणे चतुथासः समाप्तः
इति श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्य श्रीधरीयव्याख्याद्वयोपेते चतुर्थोशः समाप्तः ।
अत श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्य श्रीधरीयव्याख्याद्वयोपेते पञ्चमाशः प्रारभ्यते
श्रीमते रामानुजाय नमः
मैत्रेय उवाच
नृपाणां कथितःसर्वो भवता वंशविस्तरः ।
वंशानुचरितं चैव यथावदनुवर्णितम् ।
अंशावतारो ब्रह्मर्षे यो ऽयं यदुकुलोद्भवः ।
विष्णोस्तं विस्तरेणाहं श्रोतुमिच्छामि तत्त्वतः

5.1.3

चकार यानि कर्माणि भगवान् पुरुषोत्तमः ।
अंशांशेनावतीर्योर्व्यां तत्र तानि मुने वद

5.1.4

श्रीपारशर उवाच
मैत्रेय श्रूयतामेतद्यत्पृष्टो ऽहमिह त्वया ।
विष्णोरंशांशसंभूतिचरितं जगतो हितम्

5.1.5

देवकस्य सुतां पूर्वं वसुदेवो महामुने ।
उपयेमे महाभागां देवकीं देवतोपमाम्

5.1.6

कंसस्तयोर्वररथं चोदयामास सारथिः ।
वसुदेवस्य देवक्या संयोगे भोजनन्दनः

5.1.7

आथान्तरिक्षे वागुच्चैः कंसमाभाष्य सादरम् ।
मेघगंभीरनिर्घोषं समाभाष्येदमब्रवीत्

5.1.8

यामेतां वहसे मूढ सह भर्त्रा रथे स्थिताम् ।
अस्यास् तवाष्टमो गर्भः प्राणान् अपहरिष्यति

5.1.9

श्रीपराशर उवाच
इत्याकर्ण्यं समुत्पाट्य खड्गं कंसो महाबलः ।
देवकीं हन्तुमारब्धो वसुदेवो ऽब्रवीदिदम्

5.1.10

न हन्तव्या महाभाग देवकी भवतानघ ।
समर्पयिष्ये सकलान्गर्भानस्योदरोद्भवान्

5.1.11

श्रीपराशर उवाच
तथेत्याह ततः कंसो वसुदेवं द्विजोत्तम ।
न घातयामास च तां देवकींसत्यगौरवात्

5.1.12

एतस्मिन्नेवकाले तु भूरिभारावपीडिता ।
जगाम धरणी मेरौ समाजं त्रिदिवौकसाम्

5.1.13

स ब्रह्मकान्सुरान्सर्वान्प्रणिपत्याथ मेदिनि ।
कथयामास तत्सर्वं खेदात्करुणभाषिणी

5.1.14

भूमिरुवाच
अग्निःसुवर्णस्य गुरुर्गवां सूर्यः परो गुरुः ।
ममाप्यखिललो कानां कुरुर्नारायणो गरुः

5.1.15

प्रजापतिपतिर्ब्रह्म पूर्वेषामपि पूर्वजः ।
कलाकाष्ठानिमेषात्मा कालश्चाव्यक्तमूर्तिमान्

5.1.16

तदंशभूतःसर्वैषां समूहो वःसुरोत्तमाः

5.1.17

आदित्या सरुतःसाध्या रुद्रा वस्वश्विवह्नयः ।
पितरो ये च लोकानां स्रष्टारो ऽत्रिपुरोगमाः

5.1.18

एते तस्याप्रमेयस्य विष्णो रूपं महात्मनः

5.1.19

यक्षराक्षसदैतेयपिशाचोरगदानवाः ।
गन्धर्वाप्सरसश्चैवरूपं विष्णोर्महात्मनः

5.1.20

ग्रहर्क्षतारकाचित्रगगनाग्निजलानिलाः ।
अहं च विषयाश्चैव सर्व विष्णुमयं जगत्

5.1.21

तथा चानेकरूपस्य यस्य रूपाण्य हर्निशम् ।
बाध्यबाधकतां यान्ति कल्लोला इव सागरे

5.1.22

तत्सांप्रतममी दैत्याः कालनेमिपुरोगमाः ।
मर्त्यलोकं समाक्रम्य बाधन्ते ऽहर्निशं प्रजाः

5.1.23

कालनेमिर्हतो यो ऽसौ विष्णुना प्रभविष्णुना ।
उग्रसेनसुतः कंसःसंभूतःस महासुरः

5.1.24

आरिष्टो धेनुकः केशी प्रलंबो नरकस् तथा ।
सुंदो ऽसुरस्तथात्युग्रो बाणश्चापि बलेःसुतः

5.1.25

तथान्ये च महावीर्या नृपाणां भवनेषु ये ।
समुत्पन्ना दुरात्मानस्तान्न संख्यातुमुत्सहे

5.1.26

अक्षोहिण्योत्र बहुला दिव्यमूर्तिधराःसुराः ।
महाबलानां दृप्तानां दैत्येन्द्रणां ममोपरि

5.1.27

तद्भूरिभार पीडार्ता न शक्नोम्यमरेश्वराः ।
बिभर्तुमात्मानमहमिति विज्ञापयामि वः

5.1.28

क्रियतां तन्महाभागा मम भारावतारणम् ।
यथा रसातलं नाहं गच्छेयमतिविह्वला

5.1.29

इत्याकर्ण्य धरावाक्यमशेषैस् त्रिदशेश्वरैः ।
भुवो भारावतारार्थं ब्रह्मा प्राह प्रचोदितः

5.1.30

ब्रह्मोवाच
यथाह वसुधा सर्वं सत्यमेव दिवौकसः ।
अहं भवो भवन्तश् च सर्वे नारायणात्मकाः

5.1.31

विभूतयश् च यास्तस्य तासामेव परस्परम् ।
आधिक्यन्यू6नताबाध्यबाधकत्वेन वर्तते

5.1.32

तदागच्छत गच्छामः क्षीराब्धेस्तटमुत्तमम् ।
तत्राराध्य हरिं तस्मै सर्वं विज्ञापयाम वै

5.1.33

सर्वथैव जगत्यर्थे स सर्वात्मा जगन्मयः ।
सत्त्वांशेनावतीर्योर्व्यां धर्मस्य कुरुते स्थितिम्

5.1.34

श्रीपराशर उवाच
इत्युक्त्वा प्रययो तत्र सह देवैः पितामहः ।
समाहितमनाश्चैवं तुष्टाव गरुडध्वजम्

5.1.35

ब्रह्मोवाच
द्वे विद्ये त्वमनाम्नायपरा चैवापरा तथा ।
त एव भवतो रूपे मूर्तामूर्तात्मिके प्रभो

5.1.36

द्वे ब्रह्मणी त्वणीयोतिस्थूलात्मन्सर्व सर्ववित् ।
शब्दब्रह्मपरं चैव ब्रह्म ब्रह्ममयस्य यत्

5.1.37

ऋग्वेदस्त्वं यजुर्वेदःसामवेदस्त्वथर्वणः ।
शिक्षाकल्पो निरुक्तं च च्छन्दो ज्योतिषमेव च

5.1.38

इतिहासपुराणे च तथा व्याकरणं प्रभो ।
मीमांसा न्यायशास्त्रं च धर्मशास्त्राण्यधोक्षज

5.1.39

आत्माऽत्मदेहगुणवद्विचाराचारि यद्वच ।
तदप्याद्यपते नान्यदध्यात्मात्मस्वरूपवत्

5.1.40

त्वमव्यक्तमनिर्देश्यमचिन्त्यानामवर्मवत् ।
अपाणिपादरूपं च शुद्धं नित्यं परात्परम्

5.1.41

शृणोष्यकर्णः परिपश्यसि त्वमचक्षुरूपो बहुरूपरूपः ।
अपादहस्तो जवनो ग्रहीता त्वं वेत्सि सर्वं च सर्ववेद्यः

5.1.42

अणोरणीयां समसत्स्वरूपं त्वां पश्यतो ज्ञाननिवृत्तिरग्र्या ।
धीरस्य धीरस्य बिभर्ति नान्यद्वरेण्यरूपात्परतः परात्मन्

5.1.43

त्वं विश्वनाभिर् भुवनस्य गोप्ता सर्वाणि भूतानि तवान्तराणि ।
यद्भूतभव्यं यदणोरणीयः पुमांस् त्वम् एकः प्रकृतेः परस्तात्

5.1.44

एकश्चतुर्धा भगवान्हुताशो वर्चोविभूतं जगतो ददासि ।
त्वं विश्वतश्चक्षुरनन्तमूर्ते त्रेधा पदं त्वं निदधासि धातः

5.1.45

यथाग्निरेको बहुधा समिध्यते विकारभेदैर् अविकाररूपः ।
तथा भवान्सर्वगतैकरूपी रूपाण्यशेषाण्यनुपुष्यतीश

5.1.46

एकं तवाग्र्यं परमं पदं यत्पश्यन्ति त्वां सूरयो ज्ञानदृश्यम् ।
त्वत्तो नान्यत्किञ्चिदस्ति स्वरूपं यद्वा भूतं यच्च भव्यं परात्मन्

5.1.47

व्यक्ताव्यक्तस्वरूपस्त्वं समष्टिव्यष्टिरूपवान् ।
सर्वज्ञःसर्वनित्सर्वशक्तिज्ञानबलर्धिमान्

5.1.48

अन्यूनश्चाप्यवृद्धिश् च स्वाधीनो नादिमान्वशी ।
क्लमतन्द्री भयक्रोधकामादिभिर् असंयुतः

5.1.49

निरवद्यः परः प्राप्तेर्निरधिष्ठो ऽक्षरः क्रमः ।
सर्वेश्वरः पराधारो धाम्नां धामात्मको ऽक्षयः

5.1.50

सकलावरणानीतनिरालंबनभावन ।
महाविभूतिसंस्थान नमस्ते पुरुषोत्तम

5.1.51

नाकारणात्कारणाद्वा कारणाकारणान्न च ।
शरीरग्रहणं वापि धर्मत्राणाय केवलम्

5.1.52

श्रीपराशर उवाच
इत्येवं संस्तवं श्रुत्वा मनसा भगवानजः ।
ब्रह्माणमाह प्रीतेन विश्वरूपं प्रकाशयन्

5.1.53

श्रीभगवानुवाच
भोभो ब्रह्मंस्त्वया मत्तःसह देवैर् यदिष्यते ।
तदुच्यतामशेषं च सिद्धमेवावधार्यताम्

5.1.54

श्रीपराशर उवाच
ततो ब्रह्मा हरेर्दिव्य विश्विरूपमवेक्ष्य तत् ।
तुष्टाव भूयो देवेषु साध्वसावनतात्मसु

5.1.55

ब्रह्मोवाच
नमो नमस्तेस्तु सहस्रकृत्वःसहस्रबाहो बहुवक्त्रपाद ।
नमोनमस्ते जगतः प्रवृत्तिविनाशसंस्थानकराप्रमेय

5.1.56

सूक्ष्मातिसूक्ष्मातिबृहत्प्रमाम गरीयसामप्यतिगौरवात्मन् ।
प्रधानबुद्धीन्द्रियवत्प्रधानमूलात्परात्मन्भगवन्प्रसीद

5.1.57

एषा मही देव महीप्रसूतैर् महासुरैः पीडितशैलबन्धा ।
परायणं त्वां जगतामुपैति भारावतारार्थमपारसार

5.1.58

एते वयं वृत्ररिपुस्तथायं नासत्यदस्त्रौ वरुणस्तथैव ।
इमे च रुद्रा वसवःससूर्याःसमीरणाग्निप्रसुखास्तथान्ये

5.1.59

सुराःसमस्ताःसुरनाथकार्यमेभिर् मया यच्च तदीश सर्वाम् ।
आज्ञापयाज्ञां परिपालयन्तस्तवैव तिष्ठाम सदास्तदोषाः

5.1.60

श्रीपराशर उवाच
एवं संस्तूयमानस्तु भगवान्परमेश्वरः ।
उज्जहारात्मनः केशौ सितकृष्णौ महामुने

5.1.61

उवाच च सुरानेतौ मत्केशौ वसुधातले ।
अवतीर्य भुवो भारक्लेशहानिं करिष्यतः

5.1.62

सुराश् च सकलाःस्वांशैर् अवतीर्य महीतले ।
कुर्वन्तु युद्धमुन्मत्तैः पूर्वोत्पन्नैर् महासुरैः

5.1.63

ततः क्षयमशेषास्ते दैतेया धरमीतले ।
प्रयास्यन्ति न संदेहो मद्दृपातविचूर्णिताः

5.1.64

वसुदेवस्य या पत्नी देवकी देवतोपमा ।
तत्रायमष्टमो गर्भो मत्केशो भविता सुराः

5.1.65

अवतीर्य च तत्रायं कंसं घातयिता भुवि ।
कालनेमीं समुद्भूतमित्युक्त्वान्तर्दधे हरिः

5.1.66

अदृश्याय ततस्तस्मै प्रणिपत्य महामुने ।
मेरुपृष्ठं सुरा जग्मुरवतेरुश् च भूतले

5.1.67

कंसाय चाष्टमो गर्भो देवक्या धरणीधरः ।
भविष्यतीत्याच चक्षे भगवान्नारदो मुनिः

5.1.68

कंसो ऽपि तदुपश्रुत्य नारदात्कुपितस्ततः ।
देवकीं वसुदेवं च गृहे गुप्तावधारयत्

5.1.69

वसुदेवेन कंसाय तेनैवोक्तं यथा पुरा ।
तथैव वसुदेवो ऽपि पुत्रम् अर्पितवान् द्विज

5.1.70

हिरण्यकशिपोः पुत्राःषड्गर्भा इति विश्रुताः ।
विष्णुप्रयुक्ता स्तान्निद्राक्रमाद्गर्भानयोजयत्

5.1.71

योगनिद्रा महामाया वैष्णवी मोहितं यया ।
अविद्यया जगत्सर्वं तामाह भगवान्हरिः

5.1.72

श्रीभगवानुवाच
निद्रे गच्छ ममादेशात्पातालातलसंश्रयान् ।
एकैकत्वेन षड्गर्भान्देवकीजठरं नय

5.1.73

हतेषु तेषु कंसेन शेषाख्योंशस्ततो मम ।
अंशांशोनादरे तस्याःसप्तमः संभविष्यति

5.1.74

गोकुले वसुदेवस्य भार्यान्या रोहिणी स्थिता ।
तस्याःस संभूतिसमं देवि नेयस्त्वयोदरम्

5.1.75

सप्तमो भोजरा जस्य भयाद्रोधोपरोधतः ।
देवक्याः पितितो गर्भ इति लोको वदिष्यति

5.1.76

गर्भसंकर्षणात्सो ऽथ लोके संकर्षणेति वै ।
संज्ञामवाप्स्यते वीरः श्वेताद्रिशिखरोपमः

5.1.77

ततो ऽहं संभविष्यामि देवकीजठरे शुभे ।
भर्गं त्वया यशोदाया गन्तव्यमविलंबितम्

5.1.78

प्रावृट्काले च नभसि कृष्णाष्टम्यामहं निशि ।
उत्पत्स्यामि नवम्यां तु प्रसूतिं त्वमवाप्स्यसि

5.1.79

यशोदाशयने मां तु देवक्यास्त्वामनिन्दिते ।
मच्छक्तिप्रोरितमतिर्वसुदेवो नयिष्यति

5.1.80

कंसश् च त्वामुपादाय देवि शैलशिलातले ।
प्रक्षेप्स्यत्यन्तारिक्षे च संस्थानं त्वमवाप्स्यसि

5.1.81

ततस्त्वां शतदृक्छक्रः प्रणम्य मम गौरवात् ।
प्रणिपातानतशिरा भगिनीत्वे ग्रहीष्यति

5.1.82

त्वं च शुंभनिशुंभादीन्हत्वा दैत्यान्सहस्रशः ।
स्थानैर् अनेकैः पृथिवीमशेषां मण्डयिष्यसि

5.1.83

त्वं भूतिः सन्नतिः क्षान्तिः कान्तिर्द्यौः पृथिवी धृतिः ।
लज्जापुष्टी रुषा या तु काचिदन्या त्वमेव सा

5.1.84

ये त्वामार्येति दुर्गेति वेदगर्भांबिकेति च ।
भद्रेति भद्रकालीति क्षेमदा भग्यदेति च

5.1.85

प्रातश्चैवापराह्ने च स्तोष्यन्त्यानम्रमूर्तयः ।
तेषां हि प्रार्थितं सर्वं मत्प्रसादाद्भविष्यति

5.1.86

सुरामांसोपहरैश् च भक्ष्यभोज्यैश् च पूजिता ।
नॄणामशेषसामांस्त्वं प्रसन्ना संप्रदास्यसि

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc