विष्णु पुराण · अध्याय 5.18
इति श्रीविष्णुमहापुराणे पञ्चमांशे सप्तशो ऽध्यायः (17)
श्रीपराशर उवाच
चिन्तयन्नितिगोविन्दमुपगम्य स यादवः ।
अक्रुरोस्मीति चरणौ ननाम शिरसा हरेः
सो ऽप्येनं ध्वजवज्राब्जकृतचिह्नेन पाणिना ।
संस्पृश्याकृष्य च प्रीत्य सुगाढं परिषस्वजे
कृतसंवन्दनौ तेन यथावद्बलकेशवौ ।
ततः प्रवीष्टौ संहृष्टौ तमादायात्ममन्दिरम्
सह ताभ्यां तदाक्रूरः कृतसंवन्दनादिकः ।
भुक्तभोज्यो यथान्याय्यमाचचक्षे ततस्तयोः
यथा निर्भत्सितस्तेन कंसेनानकदुन्दुभिः ।
यथा च देवकी देवी दानवेन दुरात्मना
उग्रसेने यथा कंसःस दुरात्मा च वर्तते ।
यं चैवार्थं समुद्दिश्य कंसेन तु विसर्जितः
तत्सर्वं विस्तराच्छुत्वा भगवान्देवकीसुतः ।
उवाचाखिलमप्येतज्ज्ञातं दानपते मया
करिष्ये तन्माहभाग यदत्रौपयिकं मतम् ।
विचिन्त्यं नान्यथैतत्ते विद्धि कंसं हतं मया
अहं रामश् च मथुरां श्वो यास्यावःसह त्वया ।
गोपवृद्धाश् च यास्यन्ति ह्यादायोपायनं बहु
निशेयं नीयतां वीर न चिन्तां कर्तुमर्हसि ।
त्रिरात्राभ्यन्तरे कंसं निहनष्यामि सानुगम्
श्रीपराशर उवाच
समादिश्य ततो गोपानक्रूरो ऽपि च केशवः ।
सुष्वाप बलभद्रश् च नन्दगोपगृहे ततः
ततः प्रभाते विमले कृष्णरामौ महाद्युती ।
अक्रूरेण समं गन्तुमुद्यतौ मथुरां पुरीम्
दृष्ट्वा गोपीजनःसास्रः श्लथद्वलयबाहुकः ।
निशश्वसातिदुःखार्तः प्राह परस्परम्
मथुरां प्राप्य गोविन्दः कथं गोकुलमेष्यति ।
नगरस्त्रीकलालापमधु श्रोत्रेण पास्यति
विलासिवाक्यपानेषु नागरीणां कृतास्पदम् ।
चित्तमस्य कथं भूयो ग्राम्यगोपीषु यास्यति
सारं समस्तगोष्ठस्य विधिना हरता हरिम् ।
प्रहृतं गोपयोषित्सु निर्घृणेन दुरात्मना
भावर्गभस्मितं वाक्यं विलासललिता गतिः ।
नागरीणामतीवैतत्कटाक्षेक्षितमेव च
ग्राम्यो हरिरयं तासां विलासनिगडैर् युतः ।
भवतीनांपुनः पार्श्वं कया युक्त्या समेष्यति
एषैष रथमारुह्य मथुरां याति केशवः ।
क्रूरेणाक्रूरकेणात्र निर्घृणेन प्रतारितः
किं न वेत्ति नृशंसोयमनुरागपरं जनम् ।
येनैवमक्ष्णोराह्लादं नयत्यन्यत्र नो हरिम्
एष रामेण सहितः प्रयात्यत्यन्तनिर्घृणः ।
रथमारुह्य गोविन्दस्त्वर्यतामस्य वारणे
गुरूणामग्रतो वक्तुं विं ब्रवीथ न नः क्षमम् ।
गुरवःकिं करिष्यन्ति दग्धानां विरहाग्निना
नदङ्गोपमिखा गोपा गन्तुमेते समुद्यताः ।
नोद्यमं कुरुते कश्चिद्गोविन्दविनिवर्तने
सुप्रभाताद्य रजनी मथुरावासयोषिताम् ।
पास्यन्त्यच्युतवक्त्राब्जं यासां नेत्रालिपङ्क्तयः
धन्यास्ते पथि ये कृष्णमितो यान्त्यनिवारिताः ।
उद्वहिष्यन्ति पश्यन्तः स्वदेहं पुलकाञ्चितम्
मथुरानगरीपौरनयनानां महोत्सवः ।
गोविन्दावयवैर् दृष्टैर् अतीवाद्य भविष्यति
को नु स्वप्रःसभाग्याभिर् दृष्टस्ताभिर् अधोक्षजम् ।
विस्तारिकां तिनयना या द्रक्ष्यन्त्यनिवारिताः
अहो गोपीजनस्यास्य दर्शयित्वा महानिधिम् ।
उत्कृत्तान्यत्र नेत्राणि विधिना करुणात्मना
अनुरागेण शैथिल्यमस्मासु व्रजिते हरौः ।
शैथिल्यमुपयान्त्याशु करेषु वलयान्यपि
अक्रूरः क्रूरहृदयः शीव्रं प्रेरयते हयान् ।
एव मार्तासु योषित्सु कृपा कस्य न जायते
एष कृष्णरथस्योच्चैश् चक्ररेणुर् निरीक्ष्यताम् ।
दूरीभूतो हरिर्येन सो ऽपि रेणुर्नलक्ष्यते
श्रीपराशर उवाच
इत्येवमतिहार्देन गोपीजननिरीक्षितः ।
तत्याज व्रजभूभागं सह रामेण केशवः
गच्छन्तो जवनाश्वेन रथेन यमुनातटम् ।
प्रप्तमध्याह्नसमये रामाक्रूरजनार्दनाः
अथाह कुष्ममक्रूरो भवद्य्भां तावदास्यताम् ।
यावत्करोमि कालिन्द्या आह्निकार्हणमंभसि
श्रीपराशर उवाच
तथेत्युक्तस्ततस्नातःस्वाचान्तःस महामतिः ।
दध्यौ ब्रह्म परं विप्र ग्रविष्टो यमुनाजले
फणासहस्रमालाढ्यं बलभद्रं ददर्श सः ।
कुन्दमालाङ्गमुन्निद्रपद्मपत्रायतेक्षणम्
वृतं वासुकिरंभाद्यैर् महद्भिः पवना शिभिः ।
संस्तूयमानमुद्गन्धिवनमालाविभूषितम्
दधानमसिते वस्त्रे चारुरूपावतंसकम् ।
चारुकुण्डलिनं भान्तमन्तर्जलतले स्थितम्
तस्योत्संगे घनश्याममाताम्रायतलोचनम् ।
चतुर्बाहुमुदाराङ्गं चक्राद्यायुधभूषणम्
पीते वसानं वसने चित्रमाल्योपशोभितम् ।
शक्रचापत-डिन्मालाविचित्रमिव तोयदम्
श्रीवत्सवक्षसं चारु स्फुरन्मकरकुण्डलम् ।
ददर्श कृष्णमक्लिष्टं पुण्डरीकावतंसकम्
सनन्दनाद्यैर् मुनिभिः सद्धयोगैर् अकल्मषैः ।
संचिन्त्यमानं तत्रस्थैर् नासाग्रन्यस्तलोचनैः
बलकृष्णौ तथाक्रूरः प्रत्यभिज्ञाय विस्मितः ।
अचिन्तयद्रथाच्छीघ्रं कथमत्रागताविति
विवक्षोस्तंभयामास वाचं तस्य जनार्दनः ।
ततो निष्क्रम्य सलिलाद्रथमभ्यागतः पुनः
ददर्श तत्र चैवोभौ रथस्योपरि निष्ठितौ ।
रामकृष्णौ यथापूर्वं मनुष्यवपुषान्वितौ
निमग्नश् च पुनस् तोये ददर्श च तथैव तौ ।
संस्तूयमानौ गन्धर्वैर् मुनिसिद्धमहोरगैः
ततो विज्ञातसद्भावःस तु दानपतिस्तदा ।
तुष्टाव सर्व विज्ञानमयमच्युतमीश्वरम्
अक्रूर उवाच
सन्मात्ररूपिणेतिन्त्यमहिम्रे परमात्मने ।
व्यापिने नैकरूपैकस्वरूपाय नमो नमः
सर्वरूपाय ते ऽचिन्त्यहविर्भूताय ते नमः ।
नमो विज्ञानपाराय पराय प्रकृतेः प्रभोः
भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।
आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः
प्रसीद सर्व सर्वात्म्न क्षराक्षरमयेश्वर ।
ब्रह्मविष्णुशिवाख्याभिः कल्पनाभिर् उदीरितः
अनाख्येयस्वरूपात्मन्ननाख्येयप्रयोजन ।
अनाख्येन भिधानं त्वां नतोस्मि परमेश्वर
न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः ।
तद्ब्रह्म परमं नित्यमविकारि भवानजः
न कल्पनामृतेर्थस्य सर्वस्याधिगमो यतः ।
ततः कृष्णच्युतानन्तविष्णुसंज्ञाभिरिड्यते
सर्वार्थस्त्वमज विकल्पनाभिर् एतैर् वाद्यैर् भवति हि यैर् अनन्तविश्वम् ।
विश्वात्मा त्वमिति विकारहीनमेतत्सर्वस्मिन्न हि भवतोस्ति किञ्चिदन्यत्
त्वं ब्रह्मा पशुपतिर्यमा विधाता धाता त्वं त्रिदशपतिःसमीरणो ऽग्निः ।
तोयेशो धनपतिंरतकस्त्वमेको भिन्नार्थैर् जगदभिपासिशक्तिभेदैः
विश्वं भवान्सृजति सूर्यगभस्तिरूपो विश्वेश ते गुणमयोयमतः प्रपञ्चः ।
रूपं परं सदिति वाचकमक्षरं यज्ज्ञानात्मने सदसते प्रणतो ऽस्मि तस्मै
ओं नमो वासुदेवाय नमःसंकर्षणाय च ।
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0