विष्णु पुराण · अध्याय 5.17
इति श्रीविष्णुमाहपुराणे पञ्चमांशे षोटशो ऽध्यायः (16)
श्रीपराशर उवाच
अक्रूरो ऽपि विनिष्क्रम्य स्यन्दनेनाशुगामिना ।
कृष्णसंदर्शनाकाङ्क्षी प्रययौ नन्दगोकुलम्
चिन्तयामास चाक्रूरो नास्ति धन्यतरो मया ।
यो ऽहम् अंशावतीर्णस्य मुखं द्रक्ष्यामि चक्रिणः
अद्य मे सफलं जन्म सुप्रभाताभवन्निशा ।
यदुन्निद्राभपत्राक्षं विष्णोर्द्रक्ष्याम्यहं मुखम्
पापं हरति यत्पुंसां स्मृतं संकल्पनामयम् ।
तत्पुण्डरीकनयनं विष्णोर्द्रक्ष्याम्यहं मुखम्
विनिर्जग्मुर्यतो वेदा वेदाङ्गान्यखिलानि च ।
द्रक्ष्यामि तत्परं धाम धाम्रां भगवतो मुखम्
यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः ।
इज्यते यो ऽखिलाधारस्तं द्रक्ष्यामि जगत्पतिम्
इष्ट्वा यमिन्द्रो यज्ञानां शतेनामरराजताम् ।
अवाप तमनन्तादिमहं द्रक्ष्यामि केशवम्
न ब्रह्म नेन्द्ररुद्राश्विवस्वादित्यमरुद्गणाः ।
यस्य स्वरूपं जानन्ति प्रत्यक्षं याति मे हरिः
सर्वात्मा सर्ववित् सर्वः सर्वभूतेष्व् अवस्थितः ।
योह्यऽचिन्त्यो ऽव्ययो व्यापी स वक्ष्यति मया सह
मत्स्य कूर्मवराहाश्वसिंहरूपादिभिः स्थितिम् ।
चकार जगतो यो ऽजः जगतो यो ऽजः सो ऽद्य मां प्रलपिष्यति
सांप्रतं च जगत्स्वामी कार्यमात्महृदि स्थितम् ।
कर्तुं मनुष्यतां प्राप्तःस्वेच्छादेहधृदव्ययः
योनन्तः पृथिवीं धत्ते शेखरस्थितिसंस्थिताम् ।
सो ऽवतीर्णो जगत्यर्थे माम क्रूरेति वक्ष्यति
पितृपुत्रसुहृद्भ्रातृमातृबन्धुमयीमिमाम् ।
यन्मायां नालमुत्तर्तुं जगत्तस्मै नमोनमः
तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते ।
योगमायाममेयाय तस्मै विद्यात्मने नमः
यज्वभिर् यज्ञपुरुषो वासुदेवश् च सात्त्वतैः ।
वेदान्तवेदिभिर् विष्णुः प्रोच्यते यो नतोस्मि तम्
यथा यत्र जगद्धाम्नि धातर्येतत्प्रतिष्ठितम् ।
सदसत्तेन सत्येन मय्यसौ यातु सौम्याताम्
स्मृते सकलकल्याणभाजनं यत्र जायते ।
पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम्
श्रीपराशर उवाच
इत्थं संचिन्तयन्विष्णुं भक्तिनम्रात्ममानसः ।
अक्रूरो गोकुलं प्राप्तः किञ्चित्सूर्ये विराजति
स ददर्श तदा कृष्णमादावादोहने गवाम् ।
वत्समध्यागतं फुल्लनी लोत्पलदलच्छविम्
प्रफुल्लपद्मपत्राक्षं श्रीवत्सांकितवक्षसम् ।
प्रलंबबाहुमायामतुङ्गोरस्थलमुन्नसम्
सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम् ।
जुङ्गरक्तनखं पद्य्भां धरण्यां सुप्रतिःषितम्
बिभ्राणं वाससी पीते वन्यपुष्पविभूषितम् ।
सेंदुनीलाचलाभं तं सितांभोजावतंसकम्
हंसकुन्देन्दुधवलं नीलांबरधरं द्विज ।
तस्यानु बलभद्रं च ददर्श यदुनन्दनम्
प्रांशुमुत्तुङ्गबाह्वंसं विकासि मुखपङ्कजम् ।
मेघमालापरिवृतं कैलासाद्रिमिवापरम्
तौ दृष्ट्वा विकसद्वक्त्रसरोजः स महामतिः ।
पुलकाञ्चितसर्वाङ्गस्तदाक्रूरो ऽजगद्धातरि भवन्मुने
तदेतत्परमं धाम तदेतत्परमं पदम् ।
भगवद्वासुदेवांशो द्विधा यो ऽयं व्यवस्थितः
साफल्यमक्ष्णोर्युगमेतदत्र दृष्टे जगद्धातरि यातमुच्चैः ।
अप्यङ्गमेतद्भगवत्प्रसादात्तदङ्गसंगे फलवन्मम स्यात्
अप्येष पृष्ठे मम हस्तपद्मं करिष्यति श्रीमदनन्तमूर्तिः ।
यस्याङ्गुलिस्पर्शहताखिलाघैर् अवाप्यते सिद्धिरपास्तदोषा
येनाग्निविद्युद्रविरश्मिमालाकरालमत्युग्रमपेत चक्त्रम् ।
चक्रं घ्नता दैत्यपतेर्हृतानि दैत्याङ्गनानां नयनाञ्जनानि
यत्रांबु विन्यस्य बलिर्मनोज्ञानवाप भोगान्वसुधातवलस्थः ।
तथामरत्वं त्रिदशाधिपत्वं मन्वन्तरं पूर्णमपेतशत्रुम्
अप्येष मां कंसपरिग्रहेण दोषास्पदीभूतमदोषदुष्टम् ।
कर्तामानोपहतं धिगस्तु तज्जन्म यत्साधुबहिष्कृतस्य
ज्ञानात्मकस्यामलसत्त्वराशेरपेतदोषस्य सदा स्फुटस्य ।
किं वा जगत्यत्र समस्तपुंसामज्ञातमस्यास्ति हृदि स्थितस्य
तस्मादहं भक्तिविनम्रचेता व्रजामि सर्वेश्वमीश्वराणाम् ।
अंशावतारं पुरुषोत्तमस्य ह्यनादिमध्यान्तमजस्य विष्णोः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0