विष्णु पुराण · अध्याय 5.16
इति श्रीविष्णुमहापुराणे पञ्चमासे पञ्चदशो ऽध्यायः (15)
श्रीपराशर उवाच
केशी चापि बलोदग्रः कंसदूतः प्रचोदितः ।
कृष्णस्य निधनाकाङ्क्षी वृन्दावनमुपागमत्
स खुरक्षतभूपृष्ठःसटाक्षेपधुतांबुदः ।
द्रुतविक्रान्तचन्द्रार्कमार्गो गोपानुपाद्रवत्
तस्य देषितशब्देन गोपाला दैत्यवाजिनः ।
गोप्यश् च भयसंविग्ना गोविन्दं शरणं ययुः
त्राहित्राहिति गोविन्दःश्रुत्वातेषां ततो वचः ।
सतोयजलदध्वानगंभीरमिदमुक्तवान्
अलं त्रासेन गोपालाः केशिनः किं भयातुरैः ।
भविद्भिर् गोपजाती यैर् वीरवीर्यं विलोप्यते
किमनोनाल्पसारेण हषिताटोपकारिणा ।
दैतेयबलवाह्येन वल्गता दुष्टवाजिना
एह्येहि दुष्ट कृष्णो ऽहं पूष्णस्त्विव पिनाकधृत् ।
पातयिष्यामि दशनान्वदनादखिलांस्तव
इत्युक्त्वास्फोट्य गोविन्दः केशिनःसंमुखं ययौ ।
विवृतास्यश् च सो ऽप्य् एनं दैतेयाश्व उपाद्रवत्
बाहुमाभोगितं कृत्वा मखे तस्य जनार्दनः ।
प्रवेशयामास तदा केशिनो दुष्टवाजिनः
केशिनो वदनं तेन विशता कृष्णबाहुना ।
शातिता दशनाः पेतुः सिताब्ब्रावयवा इव
कृष्णस्य ववृधे बाहुः केशिदेहगतो द्विज ।
विनाशाय यथा व्याधिरासंभूतेरुपेक्षितः
विपाटितोष्ठो बहुलं सफेनं रुधिरं वमन् ।
सोक्षिणी विवृते चक्रे विशिष्टे मुक्तबन्धने
जधान धरणीं पादैः शकृन्मूत्रं समुत्सृजन् ।
स्वेदार्द्रगात्रस्शान्तश् च निर्यत्नःसो ऽभवत्तदा
व्यादितास्यमहांरन्ध्रःसो ऽसुरः कृष्णबाहुना ।
निपातितो द्विधा भूमौ वैद्युतेन यथा द्रुमः
द्विपादे पृष्ठपुच्छार्ध श्रवणैकाक्षिनासिके ।
केशिनस्ते द्विधा भूते शकले द्वे विरेजतुः
हत्वा तु केशिनं कृष्णो गोपालैर् मुदितैर् वृतः ।
अनायस्ततनुःस्वस्थो हसंस्तत्रैव तस्थिवान्
ततो गोप्यश् च गोपाश् च हते केशिनि विस्मिताः ।
तुष्टुवुः पुण्डरीकाक्षमनुरागमनोरमम्
अथाहान्तर्हितो विप्र नारदो जलदे स्थितः ।
केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः
साधुसाधु जगन्नाथ लीलयैव यदच्युत ।
निहतो ऽयं त्वया केशी क्लेशदस्त्रिदिवौकासाम्
युद्धोत्सुकोहमत्यर्थं नरवाजिमहाहवम् ।
अभूतपूर्वमन्यत्र द्रष्टुं स्वर्गादिहागतः
कर्माण्यऽत्रावतारे ते कृतानि मधुसूदन ।
यानि तैर् विस्मितं चेतस्तोषमेतेन मे गतम्
तुरङ्गस्यास्य शक्रोपि कृष्ण देवाश् च बिभ्यति ।
धुतकेसारजालस्य ह्रेषतो ऽभ्रावलोकिनः
यस्मात्त्वयैष दुष्टात्मा हतः केशी जनार्दन ।
तस्मात्केशवनाम्ना त्वं लोके ख्यातो भविष्यसि
स्वस्त्यस्तु ते गमिष्यामि कंसयुद्धे ऽधुना पुनः ।
परश्वो ऽह समेष्यामि त्वया केशिनिषूदन
उग्रसेनसुते कंसे सानुगे विनिपातिते ।
भारावतारकर्ता त्वं पृथिव्या पृथिवीधर
तत्रानेक प्रकाराणि युद्धानि पृथिवीक्षिताम् ।
द्रष्टव्यानि मया युष्मत्प्रणीतानि जनार्दन
सो ऽहं यास्यामि गोविन्द देवकार्यं महत्कृतम् ।
त्वयैव विदितं सर्वं स्वस्ति ते ऽस्तु व्रजाम्यहम्
नारदे तु गते कृष्णः सह गोपैः सभाजितः ।
विवेश गोकुलं गोपीनेत्रपानैकभाजनम्
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0