भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 5.15

5.15.1

इति श्रीविष्णुमहापुराणे पञ्चमांशे चतुर्दशोध्यायः (14)
श्रीपराशर उवाच
ककुद्मति हते ऽरिष्टे धेनुके विनिपातिते ।
प्रलंबे निधनं नीते धृते गोवर्धनाचले

5.15.2

दमिते कालिये नागे भग्नेतुङ्गद्रुमद्वये ।
हतायां पूतनायां च शकटे परिवर्तिते

5.15.3

कंसाय नारदः प्राह यथावृत्तमनुक्रमात् ।
यशोदादेवकीगर्बपरिवृत्तद्यशेषतः

5.15.4

श्रुत्वा तत्सकलं कंसो नारदाद्देवदर्शनात् ।
वसुदेवं प्रति तदा कोपं चक्रे सुदुर्मतिः

5.15.5

सोतिकोपादुपालभ्य सर्वयादवसंसदि ।
जगर्ज यादवांश्चैव कार्यं चैतदचिन्तयत्

5.15.6

यावन्न बलमारूढौ रामकृष्णौ सुबालकौ ।
तावदेव मया वध्यावसाध्यौ रूढयौवनौ

5.15.7

चाणूरोत्र महावीर्यो मुष्टिकश् च महाबलः ।
एताभ्यां मल्लयुद्धेन मारयिष्याम दुर्मती

5.15.8

धनुर्महमहायोगव्याजेनानीय तौ व्रजात् ।
तथा तथा यतिष्यामि यास्येते संक्षयं यथा

5.15.9

श्वफल्पतनयं शूरमक्रूरं यदुपुङ्गवम् ।
तयोरानयनार्थाय प्रेषयिष्यामि गोकुलम्

5.15.10

वृन्दा वनचरं घोरमादेक्ष्यामि च केशिनम् ।
तत्रैवासावतिबलस्तावुभौ घातयिष्यति

5.15.11

गजः कुवलायापीडो मत्सकाशमिहागतौ ।
घातयिष्यति वा गोषौ वसुदेवसुतावुभौ

5.15.12

श्रीपराशर उवाच
इत्यालोच्य स दुष्टात्मा कंसो रामजनार्दनौ ।
हन्तुं कृतम् अर्तिवीराव् अक्रूरं वाक्यम् अवृब्रवीत्

5.15.13

कंस उवाच
भो भो दानपते वाक्यं क्रियतां प्रीतये मम ।
इतः स्यन्दनमारुह्य गम्यतां नन्दगोकुलम्

5.15.14

वसुदेवसुतौ तत्र विष्णोर् अंशसमुद्भवौ ।
नाशाय किल संभूतौ मम दुष्टौ प्रवर्धतः

5.15.15

धनुर्महो ममाप्यत्र चतुर्दश्यां भविष्यति ।
आनेयौ भवता गत्वा मल्लयुद्धाय तत्र तौ

5.15.16

चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम ।
ताभ्यां सहानयोर्युद्धं सर्वलोको ऽत्र पश्यतु

5.15.17

गजः कुवलयापीडो महामात्रप्रचोदितः ।
स वा हनिष्यते पापौ वसुदेवात्मजौ शिशु

5.15.18

तौ हत्वा वसुदेवं च नन्दगोपं च दुर्मतिम् ।
हनिष्ये पितरं चैनमुग्रसेनं सुदुर्मतिम्

5.15.19

ततःसमस्तगोपानां गोधनान्यखिलान्यहम् ।
वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम्

5.15.20

त्वामृते यादवाश्चैते द्विषो दानपते मम ।
एतेषां च वधायाहं यतिष्ये ऽनुक्रमात्ततः

5.15.21

तदा निष्कण्टकं सर्वं राज्यमेतदयादवम् ।
प्रसाधिष्ये त्वया तस्मान्मत्प्रीत्यै वीर गम्यताम्

5.15.22

यथा च माहिषं सर्पिर्दधिचाप्युपहार्य वै ।
गोपाःसमानयन्त्वाशु तथा वाच्यास्त्वया च ते

5.15.23

श्रीपराशर उवाच
इत्याज्ञप्तस्तदाक्रूरोमहाभागवतो द्वज ।
प्रीतिमानभवत्कृष्णं श्वोद्रक्ष्यामीति सत्वरः

5.15.24

तथेत्यक्त्वा च राजानं रथमारुह्य शोभनम् ।
निश्चक्राम ततः पुर्या मथुराया मधुप्रियः

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc