विष्णु पुराण · अध्याय 5.14
इति श्रीविष्णुमहापुराणे पञ्चमांशे त्रयोदशोध्यायः (13)
श्रीपराशर वाच
प्रदोषाग्रो कदाचित्तु रासासक्ते जनार्दने ।
त्रासयन्समदो गौष्ठमरिष्टसमुपागमत्
स तोयतोयदच्छायस्तीक्ष्णशृङ्गोर्कलोचनः ।
खुराग्रपातैर् अत्यर्थं दारयन्धारणीतलम्
लेलिहानःसनिष्पेषं जिह्वयोष्ठौ पुनःपुनः ।
संरंभाविद्धलाङ्गूलः कठिनस्कन्धबन्धनः
उदग्रककुदाभोगप्रमाणो दुरतिक्रमः ।
विण्मू6त्रलिप्तपृष्ठाङ्गो गवमुद्वेगकारकः
प्रलंबकण्ठो ऽतिमुखस्तरुखाताङ्किताननः ।
पातयन्स गावं गर्भन्दैत्यो वृषभरूपधृक्
सूदयंस्तापसानुग्रो वनानटति यःसदा
ततस्तमतिघोराक्षमवेक्ष्यातिभयातुराः ।
गोपा गोपस्त्रियश्चैव कृष्णकृष्णेति चुक्रुशुः
सिंहनादं ततश् चक्रे तलशब्दं च केशवः ।
तच्छब्द श्रवणाच्चासौ दामोदरमुपाययौ
अग्रन्यस्तविषाणाग्रः कृष्णकुक्षिकृतेक्षणः ।
अभ्यधावत दुष्टात्मा कृष्णं वृषभदानवः
आयान्तं दैत्यवृषभं दृष्ट्वा कृष्णो महाबलः ।
न चचाल तदास्थानादवज्ञास्मितलीलया
आसन्नं चैव जग्राह ग्राहवन्मधुसूदनः ।
जघान जानुना कुक्षौ विषाणग्रहणाचलम्
तस्य दर्पबलं भङ्क्त्वा गृहीतस्य विषाणयोः ।
अपीडयदरिष्टस्य कण्ठं क्लिन्नमिवांबरम्
उत्पाट्य शृङ्गमेकं तु तेनैवाताडयत्ततः ।
ममार स महादैत्यौ मुखाच्छोणितमुद्वमन्
तुष्टुवुर् निहते तस्मिन् दैत्ये गोपा जनार्दनम् ।
जंभे हते सहस्राक्षं पुरा देवगणा यथा
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0