विष्णु पुराण · अध्याय 5.13
इति श्रीविष्णुमहापुराणे पञ्चमांशे द्वादशो ऽध्यायः (12)
श्रीपराशर उवाच
गते शक्रे तु गोपालाः कृष्णमक्लिष्टकारिणम् ।
ऊचुः प्रीत्या धृतं दृष्ट्वा तेन गोवर्धनाचलम्
वयमस्मान्महाभाग भगवन्महतो भयात् ।
गावश् च भवता त्राता गिरिधारणकर्मणा
बालक्रीडेयमतुला गोपालत्वं जुगुप्सितम् ।
दिव्यं च भवतः कर्म किमेतत्तात कथ्यताम्
कालीयो दमितस्तोये धेनुको विनिपातितः ।
धृतो गोवर्धनश्चायं शङ्कितानि मनांसि नः
सत्यं सत्यं हरेः पादौ शपामो ऽमित विक्रम ।
यथावद्वीर्यमालोक्य न त्वां मन्यामहे नरम्
प्रीतिःसस्त्रीकुमारस्य व्रजस्य त्वयि केशव ।
कर्म चेदमशक्यं यत्समस्तैस् त्रिदशेरपि
बालत्वं चातिवीर्यत्वं जन्म चास्मासु शोभनम् ।
चिन्त्यमानममेयात्मञ्छङ्कां कृष्ण प्रयच्छति
देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा ।
किमस्माकं विचारेण बान्धवो ऽसि नमोस्तु ते
श्रीपराशर उवाच
क्षणं भूत्वा त्वसौ तूष्णीं किञ्चित्प्रणयकोपवान् ।
इत्य् एवम् उक्तस् तैर् गोपैः कृष्णो ऽप्य् आह महामतिः
श्रीभगवानुवाच
मत्संबन्धेन वो गोपा यदि लज्जा न जायते ।
श्लाघ्यो वाहं ततः किं वो विचारेण प्रयोजनम्
यदि वो ऽस्ति मयि प्रीतिः श्लाघ्यो ऽहं भवतां यदि ।
तदात्मबन्धुसदृशी बुद्धिर्वः क्रियातां मयि
नाहं देवो न गान्धर्वो न यक्षो न च दानवः ।
अहं वो बान्धवो जातो नैतच्चिन्त्यमितो ऽन्यथा
श्रीपराशर उवाच
इति श्रुत्वा हरेर्वाक्यं बद्धमौनास्ततो वनम् ।
ययुर्गोपा महाभाग तस्मन्प्रणयकोपिनि
कृष्णस्तु विमलं व्योम शरच्चन्द्रस्य चन्द्रिकाम् ।
तदा कुमुदिनीं फुल्लामामोदितदिगन्तराम्
वनराजीं तथा कूजन्द्भृङ्गमालामनोहराम् ।
विलोक्य सह गोपीभिर् मनश्चक्रे रतिं प्रति
विना रामेण मधुरमतीव वनिताप्रियम् ।
जगौ कलपदं शौरिस्तारमन्द्रकृतक्रमम्
रम्यं गीतध्वनिं श्रुत्वा संत्यज्यावसथांस्तदा ।
आजग्मुस्त्वरिता गोप्यो यत्रास्ते मधुसूदनः
शनैः शनैर् जगौ गोपी काचित्तस्य लयानुगम् ।
दत्तावधाना काचिच्च तमेव मनसास्मरत्
काचित्कृष्णेतिकृष्णेति प्रोक्त्वा लज्जामुपाययौ ।
ययौ च काचित्प्रेमान्धा तत्पार्श्वमविलंबितम्
काचिच्चावसथस्यान्ते स्थित्वा दृष्ट्वा बहिर्गुरुम् ।
तन्मयत्वेन गोविन्दं दध्यौ मीलितलोचना
तच्चित्तविमलाह्लादक्षीणपुण्यचया तथा ।
तदप्राप्तिमहादुःखविलीनाशेषपातका
चिन्तयती जगत्सूतिं परब्रह्मस्वरूपिणम् ।
निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका
गोपीपरिवृतो रात्रिं शरच्चन्द्रमनोरमाम् ।
मानयामास गोविन्दो रासारंभरसोत्सुकः
गोप्यश् च वृन्दशः कृष्णचेष्टास्वायत्तमूर्तयः ।
अन्यदेशं गते कृष्णे चेरुर्वृन्दावनान्तरम्
कृष्णे निबद्धहृदया इदमूचुः परस्परम्
कृष्णो ऽहमेष ललितं व्रजाम्यालोक्यतां गतिः ।
अन्या ब्रवीन्ति कृष्णस्य मम गीतिर्निशम्यताम्
दुष्टकालिय तिष्ठात्र कृष्णोहमिति चापरा ।
बाहुमास्फोट्य कृष्णस्य लीलया सर्वमाददे
अन्या ब्रवीति भो गोपा निःशङ्कैः स्थीयतामिति ।
अलं वृष्टिभयेनात्र धृतो गोवर्धनो मया
धेनुको ऽयं मयाक्षिप्तो विचरन्तु यथेच्छया ।
गावो ब्रवीति चैवान्या कृष्णलीलानुसारिणी
एवं नानाप्रकारासु कृष्णचेष्ट सु तास्तदा ।
गोप्यो व्यग्राःसमं चेरू रम्यं वृन्दावनान्तरम्
विलोक्यैका भुवं प्राह गोपी गोपवराङ्गना ।
पुलकाञ्चितसर्वाङ्गी विकासिनयनोत्पला
ध्वजबज्राङ्कुशाब्जाङ्करेखावन्त्यालि पश्यत ।
पदान्येतानि कृष्णस्य लीलाललितगामिनः
कापि तेन समायाता कृतपुण्या मदालसा ।
पदानि तस्याश्चैतानि घनान्यल्पतनूनि च
पुष्पापचयमत्रोच्चैश् चक्रे दामोदरे ध्रुवम् ।
येनाग्राक्रान्तमात्राणि पदान्यत्र महात्मनः
अत्रोपविश्य वै तेन काचित्पुष्पैर् अलङ्कृता ।
अन्यजन्मनि सर्वात्मा विष्णुर् अभ्यर्चितस् तया
पुष्पबन्धनसंमानकृतमानामपास्य ताम् ।
नन्दगोपसुतो यातो मार्गेणानेन पश्यत
अनुयातैनमत्रान्या नितंबभरमन्थरा ।
या गन्तव्ये द्रुतं याति निम्नपादाग्रसंस्थितिः
हस्तन्यस्ताग्रहस्तेयं तेन याति तथा सखी ।
अनायत्तपदन्यासा लक्ष्यते पदपद्धतिः
हस्तसंस्पर्शमात्रेण धूर्तेनैषा विमानिता ।
नैराश्यान्मन्दगामिन्या निवृत्तं लक्ष्यते पदम्
नूनमुक्ता त्वरामीति पुनरेष्यामितेन्तिकम् ।
तेन कृष्णेन येनैषा त्वरिता पदपद्धतिः
प्रविष्टो गहनं कृष्णः पदमत्र न लक्ष्यते ।
निवर्तध्वं शशाङ्कस्य नैतद्दी धितिगोचरे
निवृत्तास्तास्तदा गोप्यो निराशाः कृष्णदर्शने ।
यमुनातीरमासाद्य जगुस्तच्चरितं तथा
ततो ददृशुरायान्तं विकासिमुखपङ्कजम् ।
गोप्यस् त्रैलोक्यगोप्तारं कृष्णमक्लिष्टचेष्टितम्
काचिदालोक्य गोविन्दमायान्तमतिहर्षिता ।
कृष्णाकृष्णेति कृष्णेति प्राह नान्यदुदीरयत्
काचिद्भ्रूभङ्गुरं कृत्वा ललाटफलकं हरिम् ।
विलोक्य नेत्रभृङ्गाभ्यां पपौ तन्मुखपङ्कजम्
काचिदालोक्य गोविन्दं निमीलितविलोचना ।
तस्यैव रूपं ध्यायन्ती योगारूढेव सा बभौ
ततः काञ्चित् प्रियालापैः काञ्चिद् भ्रूभङ्गवीक्षितैः ।
निन्ये ऽनुनयमन्यां च करस्पर्शेन माधवः
ताभिः प्रसन्नचित्ताभिर् गोपीभिः सह सादरम् ।
ररास रासगोष्ठीभिर् उदारचरितो हरिः
रासमण्डलबन्धोपि कृष्णपार्श्वमनुज्झता ।
गोपीजनेन नैवाभूदेकस्थानस्थिरात्मना
हस्तेन गृह्य चैकैकां गोपीनां रासमण्डले ।
चकार तत्करस्पर्शनिमीलितदृशं हरिः
ततः प्रववृते रासश्चलद्वलयनिस्वनः ।
अनुयातशरत्काव्यगोयगीतिरनुक्रमात्
कृष्णः शरच्चन्द्रमसं कौमुदीं कुमुदाकरम् ।
जगौ गोपीजनस्त्वेक कृष्णनाम पुनःपुनः
परिवृत्तिश्रमेणैका चलद्वलयलापिनीम् ।
ददौ बाहुलतां स्कन्धे गोपी मधुनिघातिनः
काचित्प्रविलसद्बाहुं परिरभ्य चुचुंब तम् ।
गोपीगीतस्तुतिव्याजान्निपुणा मधुसूदनम्
गोपीकपोलसंश्लेषमभिगम्य हरेर्भुजौ ।
पुलकोद्गमसस्याय स्वेदांबुघनतां गतौ
रासगेयं जगौ कृष्णो यावत्तारतरध्वनिः ।
साधु कृष्णेति कृष्णेति तावत्ता द्विगुणं जगुः
गतेनुगमनं चक्रुर्वलनं संमुखं ययुः ।
प्रतिलोमानुलोमाभ्यां भेजुर्गौपाङ्गना हरिम्
स तथा सह गोपीभी ररास मधुरूदनः ।
यथाब्दकोटिप्रतिमः श्रणस्तेन विनाभवत्
ता वार्यमाणाः पतिभिः पितृभिर् भ्रातृभिस् तथा ।
कृष्णं गोपाङ्गना रात्रौ रमयन्ति रतिप्रियाः
सो ऽपि कैशोरकवयो मानयन्मधुसूदनः ।
रेमे ताभिर् अमेयात्मा क्षपासुक्षपिताहितः
तद्भर्तृषु तथा तासु सर्वभूतेषु चेश्वरः ।
आत्मस्वरूपरूपो ऽसौ व्यापी वायुरिव स्थितः
यथा समस्तभूतेषु नभोग्निः पृथिवी जलम् ।
वायुश्चात्मा तथैवासौ व्याप्य सर्वमवस्थितः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0