विष्णु पुराण · अध्याय 5.12
इति श्रीविष्णुमहापुराणे पञ्चमांश एकादशो ऽध्यायः (11)
श्रीपराशर उवाच
धृते गोवर्धने शैले परित्राते च गोकुले ।
रोजयामास कृष्णस्यदर्शनं पाकशासनः
सो ऽधिरुह्य महानागम् ऐरावतम् अमित्रजित् ।
गोवर्धनगिरौ कृष्णं ददर्श त्रिदशेश्वरः
चारयन्तं महावीर्यं गास्तु गोपवपुर्धरम् ।
कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः
गरुडं च ददर्शोच्चैर् अन्तर्धानगतं द्विज ।
कृतच्छायं हरेर्मूर्ध्नि पक्षाभ्यां पक्षिपुङ्गवम्
अवरुह्य स नागेन्द्रादेकान्ते मधुसूदनम् ।
शक्रःसस्मितमाहेदं प्रीतिविस्तारितेक्षणः
इन्द्र उवाच
कृष्णकृष्ण शृणुष्वेदं यदर्थ महामागतः ।
त्वत्समीपं महाबाहो नैतच् चिन्त्यं त्वायान्यथा
भारावतारणार्थाय पृथिव्याः पृथिवीतले ।
अवतीर्णो ऽखिलाधार त्वमेव परमेश्वर
मखभङ्गविरोधेन मया गोकुलानाशकाः ।
समादिष्टा महामेघास्तैश् चेदं कदनं कृतम्
त्रातास्ताश् च त्वाया गावःसमुत्पाट्य महीधरम् ।
तेनाहं तोषितो वीरकर्मणात्यद्भुतेन ते
साधिनं कृष्ण देवानामहं मन्ये प्रयोजनम् ।
त्वयायमद्रिप्रवरः करेणैकेनयद्धृतः
गोभिश् च चोदितः कृष्ण त्वत्सकाशमिहागतः ।
त्वया त्राताभिर् अत्यर्थं युष्मत्सत्कारकारणात्
स त्वां कृष्णाभिषेक्ष्यामि गावं वाक्यप्रचोदितः ।
उपेन्द्रत्वे गवमिद्रो गोविन्दस्त्वं भविष्यसि
श्रीपराशर उवाच
अथोपवाह्यादादाय घण्टाम् ऐरावताद् गजात् ।
अभिषेकं तया चक्रे पवित्रजलपूर्णया
क्रियमाणे ऽभिषेके तु गावः कृष्णस्य तत्क्षणात् ।
प्रस्नवोद्भूतदुग्धार्द्रां सद्यश्चक्रुर्वसुन्धराम्
अभिषिच्य गवां वाक्यादुपेन्द्रं वै जनार्दनम् ।
प्रीत्या सप्रश्रयं वाक्यं पुनराह शचीपतिः
गवामेतत्कृतं वाक्यं तथान्यदपि मे शृणु ।
यद्बवीमि महाभाग भारावतरणेच्छया
ममांशः पुरुषव्याघ्र पृथिव्यां पृथिवीधर ।
अवतीर्णोर्ऽजुनोनाम संरक्ष्यो भवता सदा
भारावतरणे साह्यं स ते वीरः करिष्यति ।
संरक्षणीयो भवता यथात्मा मधुसूदन
श्रीभगवानुवाच
जानामि भारते वंशे जातं पार्थं तवांशतः ।
तमहं पालयिष्यामि यावत्स्थास्यमि भूतले
यावन्महीतले शक्र स्थास्याम्यहमरिन्दम ।
न तावदर्जुनं कश्चिद्देवेन्द्र युधि जेष्यति
कंसो नाम महाबाहुर्दैत्यो ऽरिष्टस्तथासुरः ।
केशी कुवलयापीडो नरकाद्यास् तथा परे
हतेषु तेषु देवेन्द्र भविष्यति महाहवः ।
तत्र विद्धि सहस्राक्ष भारावतरणं कृतम्
स त्वं गच्छ न संतापं पुत्रार्थे कर्तुमर्हसि ।
नार्जुनस्य रिपुः कश्चिन्ममाग्रे प्रभविष्यति
अर्जुनार्थे त्वहं सर्वान्युधिष्ठिरपुरोगमान् ।
निवृत्ते भारते युद्धे कुन्त्यै दास्याम्यविक्षताम्
श्रीपराशर उवाच
इत्युक्तः संपरिष्वज्य देवाराजो जनार्दनम् ।
आरुह्यौरावतं नागं पुनरेव दिवं ययौ
कृष्णो हि सहितो गोभिर् गोपालैश् च पुनर्व्रजम् ।
आजगामाथ गोपीनां दृष्टिपूतेन वर्त्मना
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0