विष्णु पुराण · अध्याय 5.11
इति श्रीविष्णुमहापुराणे पञ्चमांशे दशमो ऽध्यायः (10)
श्रीपराशर उवाच
मखे प्रतिहते शक्रो मैत्रेयातिरुषान्वितः ।
संवर्तकं नाम गणं तोयदानामथाब्रत्रीत्
भोभो मेधा निशम्यैतद्वचनं गदतो मम ।
आज्ञानन्तरमेवाशु क्रियतामविचारितम्
नन्दगोपःसुदुर्बुद्धिर्गोपैर् अन्यैः सहायवान् ।
कृष्णाश्रयं बलाध्मातो मखभङ्गमचीकरत्
आजीवो याः परस्तेषां गावस्तस्य च कारणम् ।
तागावो वृष्टिपातेन पीड्यन्तां वचनान्मम
अहम् अप्यद्रिशृङ्गाभं तुङ्गम् आरुह्य वारणम् ।
साहाय्यं वः करिष्यामि वाय्वम्बूत्सर्गयोजितम्
श्रीपराशर उवाच
इत्याज्ञप्तास् ततस् तेन मुमुचुस् ते बलाहकाः ।
वातवर्षं महाभीममभावाय गवां द्विज
ततः क्षणेन पृथिवी ककुभोंबरम् एव च ।
एकं धारामहासारपूरेणनाभवन्मुने
विद्युल्लताकषाघातत्रस्तैर् इव घनैर् घनम् ।
नादापूरितदिक्चक्रैर् धारासारमपात्यत
अन्धकारीकृते लोके वर्षद्भिर् अनिशं घनैः ।
अधश्चोर्ध्वं च तिर्यक् च जगदाप्यमिवाभवत्
गावस्तु तेन पतता वर्षवातेन वागिना ।
धूताः प्राणाञ् जहुः सन्नत्रिकसक्थिसिरोधराः
क्रोडेन वत्सान् आक्रम्य तस्थुर् अन्या महामुने ।
गावो विवत्साश् च कृता वारिपूरेण चापराः
वत्साश् च दीनवदना वातकंपितकन्धराः ।
त्राहित्राहीत्यल्पसब्दाः कृष्णमूचुरिवातुराः
ततस्तद्गोकुलं सर्वं गोगोपीगोपसंकुलम् ।
अतीवार्तं हरिर्दष्ट्वा मैत्रेयाचिन्तयत्तदा
एतत्कृतं महेन्द्रेण सखभङ्गविरोधिना ।
तदेतदखिलं गोष्ठं त्रातव्यमधुना माय
इमम् अद्रिमहं धैर्याद् उत्पाट्योरुशिखाघनम् ।
धारयिष्यामि गोष्ठस्य पृथुच्छत्रमिवोपरि
श्रीपराशर उवाच
इति कृत्वामतिं कृष्णो गोवर्धनमहीधरम् ।
उत्पाट्यैककरेणेव धारयामास लीलया
गोपांश्चह हसञ्छौरिःसमुत्पाटितभूधरः ।
विशध्वमत्रत्वरिताः कृतं वर्षनिवारणम्
सुनिवातेषु देशेषु यथा जोषमिहास्यताम् ।
प्रविश्यतां न भेतव्यं गिरीपाताच्च निर्भयैः
इत्युक्तास्तेन ते गोपा विविशुर्गोधनैः सह ।
शकटारोपितैर् भाडैर् गोप्यश्चासारपीडिताः
कृष्णोपि तं दधारैव शैलमत्यन्तनिश्चलम् ।
व्रजौकवासिभिर् हर्षविस्मिताक्षैर् निरिक्षितः
गोपगोपीजनैर् हृष्टैः प्रीतिविस्तारितेक्षणैः ।
संस्तूयमानचरितः कृष्णः शैलमधारयत्
सप्तरात्रं महामेधा ववर्षुर्नन्दगोकुले ।
इन्द्रेण चोदिता विप्र गोपानां नाशकारिणा
ततो धृते महाशैले परित्राते च गोकुले ।
मिथ्याप्रतिज्ञो बलभिद्वारयामास तान्घनान्
व्यभ्रे नभसि देवेन्द्रे वितथात्मवचस्यथ ।
निष्क्रम्य गोकुलं हृष्टं स्वस्थानं पुनरागमत्
मुमोच कृष्णोपि तदा गोवर्धनमहाचलम् ।
स्वस्थाने विस्मितमुखैर् दृष्टस् तैस् तु व्रजौकसैः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0