विष्णु पुराण · अध्याय 5.10
इति श्रीविष्णुमहापुराणे पञ्चमांशे नवमो ऽध्यायः (9)
श्रीपराशर उवाच
तयोर्विहरतोरेवं रामकेशवयोर्व्रजे ।
प्रावृड् व्यतीता विकसत्सरोजा चाभवच्छरत्
अवापुस्तापमत्यर्थं शफर्यः पल्वलोदके ।
पुत्रक्षेत्रादिसक्तेन ममत्वेन यथा गृही
मयुरा मौनमातस्थुः परित्यक्तमदा वने ।
असारतां परिज्ञाय संसारस्येव योगिनः
उत्सृज्य जलसर्वस्वं विमलाःसितमूर्तयः ।
तत्यजुश्चांबरं मेघा गृहं विज्ञानिनो यथा
शरत्सूर्यांशुतप्तानि ययुः शोषं सरांसि च ।
बह्वालंबममत्वेन हृदयानीव देहिनाम्
कुमुदैः शरदंभांसि योग्यतालक्षणं ययुः ।
अवबोधैर् मनांसीव समत्वममलात्मनाम्
तारकाविमले व्योम्नि रराजाखण्डमण्डलः ।
चन्द्रश्चरमदेहात्मा योगी साधुकुले यथा
शनकैः शनकैस् तीरं तत्यजुश् च जलाशयाः ।
ममत्वं क्षेत्रपुत्रादिरूढमुच्चैर् यथा बुधाः
पूर्वं त्यक्तैः सरोंभोभिर् हंसा योगं पुनर् ययुः ।
क्लेशैः कुयोगिनो शेषैर् अन्तरायहता इव
निभृतो भवदत्यर्थं समुद्रःस्तिमितोदकः ।
क्रमावाप्तमहायोगो विश्चलात्मा यथा यतिः
सर्वत्रातिप्रसन्नानि सलिलानि तथाभवन् ।
ज्ञाते सर्वगते विष्णौ मनांसीव सुमेधसाम्
बभूव निर्मलं व्योम शरदा ध्वस्ततोयदम् ।
योगाग्निदग्धक्लेशौघं योगिनामिव मानसम्
सूर्यांशुजनितं तापं नित्ये तारापतिः शमम् ।
अहंमानोद्भवं दुःखं विवेकः सुमहानिव
नभसोब्दं भुवः पङ्कं कालुष्यं चांभसः शरत् ।
इन्द्रियाणीन्द्रियार्थेभ्यः प्रत्याहार इवाहरत्
प्राणायाम इवांभोभिः सरसां कृतपूरकैः ।
अभ्यस्यते ऽनुदिवसं रेचकाकुंभकादिभिः
विमलांबरनक्षत्रे काले चाभ्यागते व्रजे ।
ददर्शेद्रो महारंभायोद्यतांस्तान्व्रजौकसः
कृष्णस्तानुत्सुकान्दृष्ट्वा गोपानुत्सवलालसान् ।
कौतूहलादिदं वाक्यं प्राह वृद्धान्महामतिः
को ऽयं शक्रमहो नाम येन वो हर्ष आगतः ।
प्राह तं नन्दगोपश् च पृच्छन्तमतिसादरम्
नन्दगोप उवाच
मेघानां पयसां चेशो देवराजः शतक्रतुः ।
तेन संचोदिता मेघा वर्षत्यंहुमयं रसम्
तद्वृष्टिजनितं सस्यं वयमन्ये च देहिनः ।
वर्तयामोपयुञ्जानास्तर्पयामश् च देवताः
क्षीरवत्य इमा गावो वत्सवत्यश् च निर्वृताः ।
तेन संवर्धितैः सस्यैस् तुष्टाः पुष्टाः भवन्ति वै
नासस्या नातृणा भूमिर्न बुभुक्षार्दितो जनः ।
दृश्यते यत्र दृस्यन्ते वृष्टिमन्तो बलाहकाः
भौममे तत्पयो दुग्धं गोभिः सूर्यस्य वारिदैः ।
पर्जन्यःसर्वलोकस्योद्भवाय भुवि वर्षति
तस्मात्प्रावृषि राजानःसर्वे शक्रं मुदा युताः ।
मखैः सुरेशमर्चन्ति वयमन्ये च मानवाः
श्रीपराशर उवाच
नन्दगोपस्य वचनं श्रुत्वेत्थं शक्रपूजने ।
रोषाय त्रिदशेन्द्रस्य प्राहदामोदरस्तदा
न वयं कृषिकर्तारो वाणिज्याजीविनो न च ।
गावोस्मद्दैवतं तात वयं वनचरा यतः
आन्विक्षिकी त्रयी वार्ता दण्डनितिस् तथा परा ।
विद्या चतुष्टयं चैतद्वार्तमात्रं शृणुष्व मे
कृषिर्वणिज्या तद्वच्च तृतीयं पशुपालनम् ।
विद्या ह्येका महाभाग वार्ता वृत्तित्रयाश्रया
कर्षकाणां कृषिर्वृत्तिः पण्यं विपणीजीविनाम् ।
अस्माकं गौः परावृत्तिर्वार्ताभेदैर् इयं त्रिभिः
विद्यया यो यया युक्तस्तस्य सा दैवतं महत् ।
सैव पूज्यार्च नीया च सैव तस्योपकारिका
यो यस्य फलमश्रन्वै पूजयत्यपरं नरः ।
इह च प्रेत्य चैवासौ न तदाप्नोति शोभनम्
कृष्यान्ता प्रथिता सीमा मीमान्तं च पुनर्वनम् ।
वनान्ता गिरयःसर्वे ते चास्माकं परा गतिः
न द्वारबन्धावरणा न गृहक्षेत्रिणस् तथा ।
सुखिनस्त्वखिले लोके यथा वै चक्रचारिणः
श्रूयन्ते गिरयश्चैव वनेस्मिन्कामरूपिणः ।
तत्तद्रूपं समास्थाय रमन्ते स्वेषु सानुषु
यदा चैते प्रबाध्यन्ते तेषां ये काननौकसः ।
तदा सिंहादिरूपैस् तान्घातयन्ति महीधराः
गिरीयज्ञस्त्वयं तस्माद्गोयज्ञश् च प्रवर्त्यताम् ।
किमस्माकं महेन्द्रेण गावः शैलाश् च देवताः
मन्त्रयज्ञपरा विप्राःसीरयज्ञाश् च कर्षकाः ।
गिरिगोयज्ञशीलाश् च वयमद्रिवनाश्रयाः
तस्माद्गोवर्धनः शैलो भवद्भिर् विविधार्हणैः ।
अर्च्यतां पूज्यतां मेध्यान्पशुन्हत्वा विधानतः
सर्वघोषस्य संदोहो गृह्यतां मा विचार्यताम् ।
भोज्यन्तां तेन वै विप्रास् तथा ये चाभिवाञ्छकाः
तत्रार्चिते कृते होमे भोजितेषु द्विजातिषु ।
शरत्पुष्पकृतापीडाः परिगच्छन्तु गोगणाः
एतन्मम मतं गोपाःसंप्रीत्या क्रियते यदि ।
ततः कृता भवेत्प्रीतिर्गवामद्रेस् तथा मम
श्रीपराशर उवाच
इति तस्य वचः श्रुत्वा वन्दाद्यास्ते व्रजौकसः ।
प्रीत्युत्फुल्लमुखा गोपाःसाधुसाध्वित्यथाब्रुवन्
शोभनं ते मतं वत्स यदेतद्भवतोदितम् ।
तत्करिष्यामहे सर्वं गिरियज्ञः प्रवर्त्यताम्
तथा च कृतवन्तस्ते गिरियज्ञ व्रजौकसः ।
दधिपायसमांसाद्यैर् ददुः शैलबलिं ततः
द्विजांश् च भोजयामासुस्शातशौऽथ सहस्रशः
गावः शैलं ततश्चकुरर्चितास्ताः प्रदक्षिणम् ।
वृषभाश्चातिनर्दन्तःसतोया जलदा इव
गिरिमूर्धनि कृष्णो ऽपि शैलोहमिति मूर्तिमान् ।
बुभुजेन्नं बहुतरं गोपवर्याहृतं द्विज
स्वेनैव कृष्णो रूपेण गोपैः सह गिरेः शिरः ।
अधिरुह्यार्चयामास द्वितीयामात्मनस्तनुम्
अन्तर्धानं गते तस्मिन्गोपा लब्ध्वा ततो वरान् ।
कृत्वा गिरीमखं गोष्ठं निजमब्याययुः पुनः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0