भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 4.24

4.24.1

इति श्रीविष्णुमहापुराणे चतुर्थांशे त्रयोविंशो ऽध्यायः (23)
श्रीपराशर उवाच
यो ऽयं रिपुञ्जयो नाम बार्हद्रथोन्त्यः तस्यामात्यो मुनिको नाम भविष्यति

4.24.2

स चैनं स्वामिनं हत्वा स्वुपुत्रं प्रद्योतनामानमभिषेक्ष्यति

4.24.3

तस्यापि बलाकनामा पुत्रो भविता

4.24.4

ततश् च विशाखुयूपः

4.24.5

तत्पुत्रो जनकः

4.24.6

तस्य च नन्दिवर्धनः

4.24.7

ततो नन्दी

4.24.8

इत्येतेष्टित्रिंशदुत्तरमष्टशतं पञ्च प्रद्योताः पृथिवीं भोक्ष्यन्ति

4.24.9

ततश् च शिशुनाभः

4.24.10

तत्पुत्रः काकवर्णो भविता

4.24.11

तस्य च पुत्रः क्षेमधर्मा

4.24.12

तस्यापि क्षतौजाः

4.24.13

तत्पुत्रो विधिसारः

4.24.14

ततश्चाजातशत्रुः

4.24.15

तस्मादर्भकः

4.24.16

तस्माच्चोदयनः

4.24.17

तस्मादपिनन्दिवर्धनः

4.24.18

ततो महानन्दी

4.24.19

इत्येते शैशनाभा भूपालास्त्रीणि वर्षशतानि द्विषष्ट्यधिकानि भविष्यन्ति

4.24.20

महानन्दि नस्ततः शूद्रगर्भोद्भवोतिलुब्धोतिबलो महापद्मनामा नन्दः परशुराम इवारपो ऽखिलक्षत्रान्तकरी भविष्यति

4.24.21

ततः प्रभृति शुद्रा भूपाला भविष्यन्ति

4.24.22

स चैकच्छत्रामनुल्लङ्घितशासनो महापद्मः पृथिवीं भोक्ष्यते

4.24.23

तस्याप्यष्टौ सुताःसुमाल्याद्य भवितारः

4.24.24

तस्य महापद्मस्यानुपृथिवीं भोक्ष्यन्ति

4.24.25

महापद्मपुत्राश्चकं वर्षशतमवनीपतयो भविष्यन्ति

4.24.26

ततश् च नवचैतान्नन्दान् कौटिल्यो ब्राह्मणःसमुद्धरिष्यति

4.24.27

तेषामभावे मौर्व्याः पृथिवीं भोक्ष्यन्ति

4.24.28

कौटिल्य एव चन्द्रगुप्तसुत्पन्नं राज्ये ऽभिषेक्ष्यति

4.24.29

तस्यापि पुत्रो बिन्दुसारो भविष्यति

4.24.30

तस्याप्यशोकवर्धनस्ततःसुयशास्ततश् च दशरथस्ततश् च संयुतस्ततः शलिशुकस्तस्मात्सोमशर्मा तस्यापि सोमशर्ममः शतधन्वा

4.24.31

तस्यानुबृहद्रथनामा भविता

4.24.32

एवमेते मौर्या दश भूप तयो भविष्यन्ति अब्दशतं सप्तत्रिंशदुत्तरम्

4.24.33

तेषामन्ते पृथिवीं दश शुङ्गा भोक्ष्यन्ति

4.24.34

पुषयमीत्रःसेनापतिःस्वामिनं हत्वा राज्यं करिष्यति तस्यात्मजो ऽग्निमित्रः

4.24.35

तस्मात्सुज्योष्ठस्ततो वसुमित्रस्तस्मादप्युदङ्कस्ततः पुलिन्दकस्ततो घोषवसुस्कस्मादपि बज्रमित्रस्ततो भगवतः

4.24.36

तस्माद्देवभूतिः

4.24.37

इत्येते शुङ्गा द्वादशोत्तरं वर्षशतं पृथिवीं भोक्ष्यन्ति

4.24.38

ततः कण्वानेषाभूर्यास्यति

4.24.39

देवभूतिं तु शुङ्गराजानं व्यसनिनं तस्यैवामात्यः कण्वो वसुदेवनामा तं निहत्य स्वयमवनीं भोक्ष्यति

4.24.40

तस्य पुत्रो भूमित्रस्तस्यापि नारायणः

4.24.41

नारायणात्मजःसुशर्मा

4.24.42

एते काम्वायनाश्चत्वारः पञ्चचत्वारीशदूर्षाणि भूपतयो भविष्यन्ति

4.24.43

सुशर्माणं तु काण्वं तद्भूत्यो बलिपुच्छकनामा हत्वान्द्रजातीयो वसुधां भोक्ष्यति

4.24.44

ततश् च कृष्णनामा तद्भ्राता पृथिवीपतिर्भविष्यति

4.24.45

तस्यापि पुत्रः शान्तकर्णिस्तस्यापि पूर्मोत्संगस्तत्पुत्रः शतकर्मिस्तस्माच्च लम्बोदरस्तस्माच्च पिलकस्ततो मेघस्वाति स्ततः पटुमान्

4.24.46

ततश्चारिष्टकर्मा ततो हालाहलः

4.24.47

हालाहलात्पललकस्ततः पुलिन्दसेनस्ततः सुंदरस्ततःसातकर्णिः शिवस्वातिस्ततश् च गोमतिपुत्रस्तत्पुत्रो ऽलिमान्

4.24.48

तस्यापि शान्तकर्णिस्ततः शिविश्रितस्तश् च शिवस्कन्धस्तस्मादपि यज्ञश्रीस्ततो द्विय5स्तस्माच्चन्द्रश्रीः

4.24.49

तस्मात्पुलोमापिहि

4.24.50

एवमेवे त्रिंशच्चत्वार्यब्दशतानि षट्पञ्चाशदधिकानि पृथिवीं भोक्ष्यन्ति

4.24.51

आन्ध्रभृत्यास्तप्ताभीरप्रभृतयो दशगर्दभिनश् च भूभुजो भविष्यन्ति

4.24.52

ततःषोडश भूपतयो भवितारः

4.24.53

ततश्चाष्टौ यवनाश्चतुर्दश तुरुष्कारा मुण्डाश् च 6योदश येकादश मौना एते वै पृथुवीपतयः पृथिवर्षशातानि नवत्यधिकानि भोक्ष्यन्ति

4.24.54

ततश् च मौना एकादश भूपतयो ऽब्दशातानि त्रीणि पृथिवीं भोभ्यन्ति

4.24.55

तेषूत्सन्नोषु कैंकिला यवना बूपतयो भविष्यन्त्यमूर्धाभिषिक्ताः

4.24.56

तेषामपत्यं विन्ध्यशक्तिस्ततः पुंरजयस्तस्माद्रामचन्द्रस्तस्मार्मवर्मा ततो वङ्गस्ततोभून्नन्दनस्ततःसुनन्दी तद्भाता नन्दीयशाः शुक्रः प्रवीर एते वर्षशतं षड्वर्षाणि भूपतयो विष्यन्ति

4.24.57

ततस्तत्पुत्रास्त्रयोदशौते बाह्लिकाश् च त्रयः

4.24.58

ततः पुष्पमित्राः पटुमियत्रास्त्रयोदसैकलाश् च सप्तान्ध्राः

4.24.59

ततश् च कोसलायां तु नव चैव भूपतयो भविष्यन्ति

4.24.60

नैषधास्तु त एव

4.24.61

मगधायां तु विश्वस्फटिक संज्ञो ऽन्यान्वर्णान्करिष्यति

4.24.62

कैवर्तबटुपुलिन्दब्राह्मणान्राज्ये स्थपयिष्यति

4.24.63

उत्साद्याखिलक्षत्रजातिं नव नागाः पद्मवत्यां नाम पुर्यामनुगङ्गाप्रयागं गया द्गुप्तांश् च मागधा भोक्ष्यन्ति

4.24.64

कोशलान्ध्रपुण्ड्रताम्रलिप्तसमतटपुरीं च देवरक्षितो रक्षिता

4.24.65

कलिङ्गमाहिषमहेन्द्रभौमान् गुहा भोक्ष्यन्ति

4.24.66

नैषनैमिषककालकोशकाञ्जनपदान्मणिधान्यकवंशा भोक्ष्यन्ति

4.24.67

त्रैराज्यमुषिकजनपदान्कनकाह्वयचो भोक्ष्यति

4.24.68

सौराष्ट्रावन्त्यशुद्राभीरान्नर्मदामरुभूविषयांश् च व्रात्यद्विजाभीरशूद्राद्या भोक्ष्यन्ति

4.24.69

सिंधुतटदाविकोर्वीचन्द्र भागाकाश्मीरविषयांश्चव्रात्याधर्मरुचयः स्त्रीबालगोवधकर्तारः परस्वादानरुचयोल्पसारास्तमिस्त्रप्राया उदितास्तमितप्राया अल्पायुषो महेच्छा ह्यल्पधर्मा लुब्धाश् च भविष्यन्ति

4.24.70

एते च तुल्यकालाःसर्वे पृथिव्यां भूभुजो भविष्यन्ति

4.24.71

अल्पप्रसादा बृहत्कोपाःसार्वकाल मनृताधर्मरुचयः स्त्रीबालगोवधकर्तारः परस्वादानरुचयोल्पसारास्तमिस्त्रप्राया उदितास्तमितप्राया अल्पायुषो महेच्छा ह्यल्पधर्मा लुब्धाश् च भविष्यन्ति

4.24.72

तैश् च विमिश्रा नजपदास्तच्छीलानुवर्तिनो राजाश्रयशुष्मिणो म्लेच्छाचाराश् च विपर्ययेण वर्तमानाः प्रजाः क्षपयिष्यन्ति

4.24.73

ततश्चानुदिनमल्पाल्पह्रासव्यवच्छेदाद्धर्मार्थयोर्जगतःसंक्षयो भविष्यति

4.24.74

ततश्चार्थ एवाभिजनहेतुः

4.24.75

बलमेवाशेषधर्महेतुः

4.24.76

अभिरुचिरेव दांपत्यसंबन्धहेतुः

4.24.77

स्त्रीत्वमेवोपभोगहेतुः

4.24.78

अनृतमेव व्यवहारजयहेतुः

4.24.79

उन्नतांबुतैव पृथिवीहेतु

4.24.80

ब्रह्मसूत्रमेव विप्रत्वहेतुः

4.24.81

रत्नधातुतैव श्लाघ्यताहेतुः

4.24.82

लिङ्गधाराणमेवाश्रमहेतुः

4.24.83

अन्यायमेव वृत्तिहेतुः

4.24.84

दौर्बल्यमेवावृत्तिहेतुः

4.24.85

अभयप्रगल्भोच्चारणमेव पाण्डित्यहेतुः

4.24.86

अनाढ्यतैव साधुत्वहेतुः

4.24.87

स्त्रानमेव प्रसाधनहेतुः

4.24.88

दानमेव धर्महेतुः

4.24.89

स्वीकरणमेव विवाहहेतुः

4.24.90

सद्वेषधार्येव पात्रम्

4.24.91

दूरायतननोदकमेव तीर्थहेतुः

4.24.92

कपटवेषधारणमेव महत्त्वहेतुः

4.24.93

इत्येवमनेकदोषोत्तरे तु भूमण्डले सर्वावर्णेष्वेव योयो बलवान्सस भूपतिर्भविष्यति

4.24.94

एवं चातिलुब्धकराजासहाः शोलानामन्तरद्रोणीः प्रजाःसंश्रयिष्यन्ति

4.24.95

मधुशाकमूलफलपत्रपुष्पाद्याहाराश् च भविष्यन्ति

4.24.96

तरुवल्कलपर्णचीरप्रावरणाश्चातिबहुप्रजाः शीतवातातपवर्षसहाश् च भविष्यन्ति

4.24.97

न च कश्चित्त्रयोविंशतिवर्षाणि जीविष्यति अनवरतं चात्र कलियुगे भयमायात्यखिल एवैष जनः

4.24.98

श्रौतस्मार्ते च धर्मे विप्लवमत्यन्तमुपगते क्षीणप्राये च कलावशेषजगत्स्त्रष्टुश्चराचरगुरोरादिमध्यान्तरहितस्य ब्रह्ममयस्यात्मरूपिणो भगवतो वासुदेवस्यांशः शंबलग्रामप्रधानब्राह्मणस्य विष्णुयशसो गहेष्टगुणर्धिसमन्वितः कल्किरूपीजगत्यत्रावतीर्य सकलम्लेच्छदस्युदुष्टाचरमचेतसामशेषाणामपरिच्छिन्नशक्तिमाहात्म्यः क्षयं करिष्यति स्वधर्मेषु चा खिलमेव संस्थापयिष्यति

4.24.99

अनन्तरं चाशेषकलेरवसाने निशावसाने विबुद्धानामिव तेषामेव जनपदानाममलस्फटितदलशुद्धा मतयो भविष्यन्ति

4.24.100

तेषां च बीजभूतानामशेषमनुष्याणां परिणतानामपि तत्कालकृतापत्यप्रसूतिर्भविष्यति

4.24.101

तानि च तदपत्यानि कृतयुगानुसारीण्येव भविष्यन्ति

4.24.102

अत्रोच्यते
यथा चन्द्रश् च सूर्यश् च तथा तिष्यो बृहस्पतिः ।
एकराशौ समेष्यन्ति तदा भवति वै कृतम्

4.24.103

अतीता वर्तमानाश् च तथैवानागताश् च ये ।
एते वंशेषु भूपालाः कथिता मुनिसत्तम

4.24.104

यावत्परीक्षितो जन्म यावन्नन्दाभिषेचनम् ।
एतद्वर्षसहस्रं तु ज्ञेयं पञ्चाशदुत्तरम्

4.24.105

सप्तर्षीणां तु यौ पूर्वौ दृश्येते ह्युदितौ दिवि ।
तयोस्तु मध्ये नक्षत्रं दृश्यते यत्समं निशि

4.24.106

तेन सप्तर्षयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम् ।
ते तु पारीक्षिते काले मघास्वासन्द्विजोत्तम

4.24.107

तदा प्रवृत्तश् च कलिर्द्वादशाब्दशतात्मकः

4.24.108

यदैव भगवान्विष्णोरंशो यातो दिवं द्विज ।
वसुदेवकुलोद्भूतस्तदैवात्रागतः कलिः

4.24.109

यावत्सपादपद्माभ्यां पस्पर्शेमां वसुंधराम् ।
तावत्पुथ्वीपरिष्वङ्गे समर्थो नाभवत्कलिः

4.24.110

गते सनातनस्यांशे विष्णोस्तत्र भुवो दिवम् ।
तत्याज सानुजो राज्यं धर्म पुत्रो युधिष्ठिरः

4.24.111

विपरीतानि दृष्ट्वा च निमित्तानि हि पाण्डवः ।
याते कृष्णे चकाराथ सो ऽभिषेकं परीक्षितः

4.24.112

प्रयास्यन्ति यदा चैते पूर्वाषाढां महर्षयः ।
तदा नन्दात्प्रभृत्येष गतिवृद्धिं गमिष्यति

4.24.113

यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदा हनि ।
प्रतिपन्नं कलियुगं तस्य संख्यां निबोध मे

4.24.114

त्रीणि लक्षाणि वर्षाणां द्विज मानुष्यसंख्यया ।
षष्टिश्चैव सहस्राणि भविष्यत्येष वै कलिः

4.24.115

शातानि तानि दिव्यानां सप्त पञ्च च संख्यया ।
निःशेषेण गते तस्मिन्भविष्यति पुनः कृतम्

4.24.116

ब्राह्मणाः क्षित्त्रिया वैश्याः शुद्राश् च द्विजसत्तम ।
युगेयुगे महात्मानः समतीताःसहस्रशः

4.24.117

बहुत्वान्नामधेयानां परिसंख्या कुलेकुले ।
पौनरुक्त्याद्धि साम्याच् च न मया परिकीर्तिता

4.24.118

देवापिः पोरवो राजा पुरुश्चेक्षाकुवंशजः ।
महायोगबलोपेतौ कलापग्रमसंश्रितौ

4.24.119

कृते युगे त्विहागम्य क्षत्रप्रावर्तकौ हि तौ ।
भविष्यतो मनोर्वशबीजभूतौ व्यवस्थितौ

4.24.120

एतेन क्रमयोगेन मनुपुत्रौर्वसुंधरा ।
कृतत्रेताद्वापराणि युगानि त्रीणि भुज्यते

4.24.121

कलौ ते बीजभूता वै केचित्तिष्ठन्ति वै मुने ।
यथैव देवापिपुरू सांप्रतं समधिष्ठितौ

4.24.122

एष तूद्देशतो वंशस्तवोक्तो भूभुजां मया ।
निखिलो गदितुं शक्यो नैष वर्षशतैर् अपि

4.24.123

एते चान्ये च भूपाला यैर् अत्र क्षितिमण्डले ।
कृतं ममत्वं मोहान्धैर् नित्यं हेयकलेवरे

4.24.124

कथं ममेयमचला मत्पुत्रस्य कथं मही ।
मद्वंशस्येतिचिन्तार्ता जग्मुरन्तमिमे नृपाः

4.24.125

तेभ्यः पूर्वतराश्चान्ये तेभ्यस्तेभ्यस् तथा परे ।
भविष्याश्चैव यास्यन्ति तेषामन्ये च ये ऽप्यनु

4.24.126

विलोक्यात्मजयोद्योगं यात्राव्यग्रान्नराधिपान् ।
पुष्पप्रहासैः शरदि हसंतीव वसुंधरा

4.24.127

मैत्रेय पृथिवीगीताञ्छ्लोकांश्चात्र निबोध मे ।
यानाह धर्मध्वजिने नजकायासितो मुनिः

4.24.128

पृथिव्युवाच
कथमेष नरेद्राणां मोहो बुद्धिमतामपि ।
येन केन सधर्माणोप्यतिविश्वस्तचेतसः

4.24.129

पूर्वमात्मजयं कृत्वा जेतुमिच्छन्ति मन्त्रिणः ।
ततो भृत्यांश् च पौरांश् च जिगीषन्ते तथा रिपून्

4.24.130

क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम् ।
इत्यासक्तधियो मृत्युं न पश्यन्त्यविद्वरगम्

4.24.131

समुद्रावरणं याति भूमण्डलमथो वशम् ।
कियदात्मजयस्यैतन्मुक्तिरात्मजयेफलम्

4.24.132

उत्सृज्य पूर्वजा याता यां नादाय गतः पिता ।
तां मामतीव मूढत्वाज्जेतुमिच्छन्ति पार्थिवाः

4.24.133

मत्कृते पितृ पुत्राणां भ्रातॄणां चापि विग्रहः ।
जायतेत्यन्तमोहेन ममत्वादृतचेतसाम्

4.24.134

पृथ्वी ममेयं सकला ममैषा मदन्वयस्यापि च शाश्वतीयम् ।
योयो मृते ऽन्यत्र बभूव राजा कुबुद्धिरा सीदिति तस्यतस्य

4.24.135

दृष्ट्वा ममत्वादृतचित्तमेकं विहाय मां मृत्युवशं व्रजन्तम् ।
तस्यानुयस्तस्य कथं ममत्वं हृद्यास्पदं मत्प्रभवं करोति

4.24.136

पृथ्वी ममैषाऽशु परित्यजैनां वदन्ति ये दूतमुखैः स्वशत्रून् ।
नराधिपास्तेषु ममातिहासः पुनश् च मूढेषु दयाभ्युपैति

4.24.137

श्रीपराशर उवाच
इत्येते धरणीगीतः श्लोका मैत्रेय यैः श्रुताः ।
ममत्वं विलयं याति तपत्यर्के यथा हिमम्

4.24.138

इत्येष कथितः सम्यङ्मनोर्वशो मया तव ।
यत्र स्थितिप्रवृत्तस्य विष्णोरंशांशका नृपाः

4.24.139

शृणोति य इमं भक्त्या मनोर्वशमनुक्रमात् ।
तस्य पापमशेषं वै प्रणश्यत्यमलात्मनः

4.24.140

धनधान्यर्धिमतुलां प्राप्नोत्यव्याहतेन्द्रियः ।
श्रुत्वैवमखिलं वंशं प्रशस्तं शशीसूर्ययोः

4.24.141

इक्ष्वाकुजह्नुमान्धातृसगराविक्षितान्रघून् ।
ययातिनहुषाद्यांश् च ज्ञात्वा निष्ठामुपागतान्

4.24.142

महाबलान्महावीर्याननन्तधनसंचयान् ।
कृतान्कालेन बलिना कथाशेषान्नराधिपान्

4.24.143

श्रुत्वा न पुत्रदारादौ गृहक्षेत्रादिके तथा ।
द्रव्यादौ वा कृतप्रज्ञो ममत्वं कुरुते नरः

4.24.144

तप्तं तपो यैः पुरुषप्रवीरैर् उद्वाहुभिर् वर्षगणाननेकान् ।
इष्ट्वा सुयज्ञैर् बलिनोतिवीर्याः कृतानुकालेन कथावशेषाः

4.24.145

पृथुःसमस्तान्विचचार लोकानव्याहतो योविजितारिचक्रः ।
स कालवाताभिहतः प्रणष्टः क्षिप्तं यथा शाल्मलितूलमग्नौ

4.24.146

यः कार्तवीर्यो बुभुजे समस्तान्द्वीपान्समाक्रम्यहतारिचक्रः ।
कथाप्रसंगेष्वभिधीयमानःस एव संकल्पविकल्पहेतुः

4.24.147

दशाननाविक्षतराघवाणामैश्वर्यमुद्भासितदिङ्मुखानाम् ।
भस्मापि शिष्टं न कथं क्षणेन भ्रूभङ्गपातेन धिगन्तकस्य

4.24.148

कथाशरीरत्वमवाप यद्वै मान्धातृनामा भुवि चक्रवर्ती ।
श्रुत्वापि तत्कोहि करोति साधुर्ममत्वमान्मन्यपि मन्दचेताः

4.24.149

भगीरथाद्याःसगरं ककुत्स्थो दशननो राघवलक्ष्मणौ च ।
युधिष्ठिराद्याश् च बभूवुरेते सत्यं न मिथ्या क्व नु ते न विद्मः

4.24.150

ये सांप्रतं ये च नृपा भविष्याः प्रोक्ता मया विप्रवरोग्रवीयाः ।
एते तथान्ये च तथाभिधेयाः सर्वे भविष्यन्ति यथैव पूर्वे

4.24.151

एत द्विदित्वा न नरेण कार्यं ममत्वमात्मन्यपि पण्डितेन ।
तिष्ठन्तु तावत्तनयात्मजायाः क्षेत्रादयो ये च शरीरिणो ऽन्ये

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc