विष्णु पुराण · अध्याय 4.8
इति श्रीविष्णुमहापुराणे चतुर्थंशे सप्तमो ऽध्यायः (7)
श्रीपराशर उवाच
पुरूरवसो ज्येष्ठः पुत्रो यस्त्वायुर्नामा स राहोर्दुहितरमुपयेमे
तस्यां च पञ्च पुत्रानुत्पादयामास
नहुषक्षत्रवृद्धरंभरजिसंज्ञास्तथैवानेनाः पञ्चमः पुत्रो ऽभूत्
क्षत्रवृद्धात्सुहोत्रः पुत्रो ऽभवत्
काश्यपकाशगृत्समदास्त्रयस्तस्य पुत्रा बभूवुः
गृत्समदस्य शोनकश्चातुर्वर्म्यप्रवर्तयिताभूत्
काश्यस्य काशेयः काशीराजः तस्माद्राष्ट्रः राष्ट्रस्य दीर्घतपाः पुत्रो ऽभवत्
धन्वन्तरिस्तु दीर्घतपसः पुत्रो ऽभवत्
स हि संसिद्धकार्यकरमःसकलसंभूतिष्वशेषज्ञानविदा भगवता नारायणेन चातीत संभूतौ तस्मै वरो दत्तः
काशीराजगोत्रे ऽवतीर्य त्वमष्टधा सम्यगायुर्वेदं करिष्यसि यज्ञभागभुग्भविष्यसीति
तस्य च धन्वन्तरेः पत्रः केतुमान् केतुमतो भीमरथः तस्यापि दिवोदासः तस्यापि प्रतर्दनः
स च भद्रश्रेण्यवंशविनाशनादशेषशत्रवोनेनजिता इति शत्रुजिदभवत्
तेन च प्रीतिमतात्मपुत्रो वत्सवत्सेत्यभिहितो वत्सो ऽभवत्
सत्यपरतया ऋतध्वजसंज्ञामवाप
ततश् च कुवलयनामानमश्वं लेभे ततः कुवलयाश्व इत्यस्यां पृथिव्यां प्रथितः
तस्यच च वत्सस्य पुत्रो ऽलर्कनामाभवत् यस्यायमद्यापिश्लोको गीयते
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
अलर्कादपरो नान्यो बुभुजे मेदिनीं युवा
तस्याप्यलर्कस्य सन्नतिनामाभवदात्मज
सन्नतेः सुनीथः तस्यापि सुकेतुः तस्माच्च धर्मकेतुर्जज्ञे
ततश् च सत्यकेतुः तस्माद्विभुः तत्तयःसुविभुः ततश् च सुकुमारस्तस्यापि दृष्टकेतुः ततश् च वीतिहोत्रः तस्माद्भार्गः भार्गस्य भार्गभूमिः ततश्चातुर्वर्ण्यंप्रवृत्तिरित्येते काश्यपभूभृतः कथिताः
रजेस्तु संततिः श्रुयताम्
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0