विष्णु पुराण · अध्याय 4.7
इति श्रिविष्णुमहापुराणे चतुर्थांशे षष्ठो ऽध्यायः (6)
श्रीपराशर उवाच
तस्याप्यायुर्धीमानमावसुर्वनिश्वावसुःश्रुतायुः शयुरयुतायुरितिसंज्ञाः षट् पुत्रा अभवन्
तथामावसोर्भीमनामा पुत्रो ऽभवत्
भीमस्य काञ्चनः काञ्चनात्सुहोत्रः तस्यापि जह्नुः
यो ऽसौ यज्ञवाटमखिलं गङ्गांभसा प्लावितमवलोक्य क्रोधसंरक्तलोचनो भगवन्तं यज्ञपुरुषमात्मनि परमेण समाधिना समारोप्याखिलमेव गङ्गामपिबत्
अथैनं देवर्षयः प्रसादयामासुः
दुहितृत्वे चास्य गङ्गामनयन्
जह्नोश् च सुमन्दुर्नाम पुत्रो ऽभवत्
तस्याप्यजकस्ततो बलाकाश्वस्तस्मात्कुशस्तस्यापि कुशांबुकुशनाभाधूर्तरजसो वसुश्चेति चत्वारः पुत्रा बभूवुः
तेषां कुशांबः शक्रतुल्यो मुत्रो भवेदितितपश्चकार
तं चोग्रतपसमवलोक्य मा भवत्वनयो ऽमत्तुल्यो वीर्य इत्यात्मनैवास्येन्द्रः पुत्रत्वमगच्छत्
स गाधिर्नाम पुत्रः कौशिको ऽभवत्
गाधिश् च सत्यवतीं कन्यामजनयत्
तां च भार्गवः ऋचीको वव्रे
गाधिरप्यतिरोषणायातिवृद्धाय ब्राह्मणाय दातुमनिच्छन्नेकतः श्यामकर्मानामिन्दुवर्चसामनिलरंहसामश्वानां सहस्रं कन्याशुल्कमयाचत
तेनाप्यृषिणा वरुमसकाशादु पलभ्याश्वतीर्थोत्पन्नं तादृशमश्वसहस्रं दत्तम्
ततस्तामृचीकः कन्यामुपयेमे
ऋचीकश् च तस्याश्चरुमपत्यार्तं चकार
तत्प्रसादितश् च तन्मात्रे क्षत्रवरपुत्रोत्पत्तये चरमपरं साधयामास
एष चरुर्भवत्या अयमपरश्चरुस्त्वन्मात्रा सम्य गुपयोज्य इत्युक्त्वा वनं जगाम
उपयोगकाले चतां माता सत्यवतीमाह
पुत्रि सर्व एवात्मपुत्रमतिगुणमभिलषति नात्मजायाभ्रातृगुणेष्वतीवादृतो भवतीति
तोर्हसि ममात्मीयं चरुं मदीयं चरुमात्मनोपयोक्तुम्
मत्पुत्रेण हि सकलभूमण्डलपरिपालनं कार्यं कियद्वा ब्राह्मणस्य बलवीर्यसंपदेत्युक्ता सा स्वचरुं मात्रे दत्तवती
अथ वनादागत्य सत्यवतीमृषिरपश्यत्
आह चैनामतिपापे किमिदमकार्यं भवत्या कृतम् अतिरौद्रंम ते वपुर्लक्ष्यते
नीनं त्वाया त्वन्मातृसात्कृतश्चारुरूपयुक्तो न युक्तामेतत्
मया हि तत्र चरौ सकलैश्वर्यवीर्यसौर्यबलसंपदारोपिता त्वदीयचरावप्यखिलशान्तिज्ञानतितिक्षादिब्राह्ममगुणसंपत्
तच्च विपरीतं कुर्वन्त्यास्तवातिरौद्रास्त्रधारणपालननिष्ठः क्षत्रियाचारः पुत्रो भविष्यति तस्याश्चोपशमरुचिर्ब्राह्मणाचार इत्याकर्ण्यैव सा तस्य पादौ जग्राह
प्रणिपत्य चैनमाह
भगवन्मयैतदज्ञानादनुष्ठितं प्रसादं मे कुरु मैवंविधः पुत्रो भवतु काममेवंविधः पौत्रो भवत्वित्युक्ते मुनिरप्याह
एवमस्त्विति
अनन्तरं च सा जमदग्निमजीजनत्
तन्माता च विश्वामित्रं जनयामास
सत्यवत्यपि कौशिकी नाम नद्यभवत्
जमदग्निरिक्ष्वाकुवंशोद्भवस्य रेणोस्तनयां रेणुकामुपयेमे
तस्यां चाशेषक्षत्रहन्तारं परशुरामसंज्ञं भगवतःसकललोकगुरोर्नारायणस्यांशं जमदग्निरजीजनत्
विश्वामीत्रपुत्रस्तु भार्गव एव शुनःशेपो दैवैर् दत्तः ततश् च देवरातनामाभवत्
ततश्चान्ये मधुश्छन्दोधनञ्जयकृतदेवाष्टककच्छपहरिराख्या विश्वामित्रपुत्रा बभूवुः
तेषां च बहूनि कौशिकगोत्राणि ऋष्यन्तरेषु विवाह्यान्यभवत्
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0