विष्णु पुराण · अध्याय 4.9
इति श्रीविष्णुमाहापुराणे चतुर्थांशे ऽष्टमो ऽध्याय (8)
श्रीपराशर उवाच
रजोस्तु पञ्च पुत्रशतान्यतुलबलपराक्रमसारामायसन्
देवासुरसंग्रामारंभे च परस्परवधेप्सवो देवाश्चासुराश् च ब्रह्मणामुपेत्य पप्रच्छुः
भगवन्नस्माकमत्र विरोधे कतमः पक्षो जेता भविष्यतीति
अथाह भगवान्
येषामर्थे रजिरात्मात्तायुधो योत्स्यति तत्पक्षोजेतेति
अथ दैत्यैर् उपेत्य रजिरात्मसाहाय्यदानायाभ्यर्थितः प्राह
योत्स्यो ऽहं भवतामर्थे यद्यहममरजयाद्भवतामिन्द्रो भविष्यामीत्याकर्ण्यैतत्तैर् अभिहितम्
न वयमन्यथा वदिष्यामो ऽन्यथा करिष्यामो ऽस्माकमिन्द्रः प्रह्लादस्तदर्थमेवायमुद्यम इत्युक्त्वा गतेष्वसुरेषु देवैर् अप्यसाववनिपतिरेवमेवोक्तस्तेनापि च तथैवोक्ते देवैर् इन्द्रस्त्वं भविष्यसीति समन्विच्छितम्
रजिनापि देवसैन्यसहायेनानेकैर् महास्त्रैस् तदशेषमहासुरबलं निषूदितम्
अथ जितारिपक्षश् च देवेन्द्रो रजिचरमयुगलमात्मनः शिरसा निपीड्याह
भयत्राणादन्नदानाद्भवानस्मत्पितासेषलोकानामुत्तमोत्तमो भवान् यस्याहं पुत्रस्त्रिलोकेन्द्रः
स चापि राजा प्रहस्याह
एवमस्त्वेवमस्त्वनतिक्रमणीयाहि वैरिक्षादप्यनेकविधचाटुवाक्यगार्भा प्रणतिरित्युक्त्वा स्वपुरं जगाम
शतक्रतुरपीन्द्रत्वं चकार
स्वर्याते तु रजौ नारदर्षिचोदिता रजिपुत्राः शतक्रतुमात्मपितृपुत्रं समाचाराद्राज्यं याचितवन्तः
अप्रदानेन च विजित्येन्द्रमतिबलिनः स्वयमिन्द्रत्वं चक्रुः
ततश् च बहुतिथे काले ह्यतीते बृहस्पतिमेकान्ते दृष्ट्वा अपहृतत्रैलोक्ययज्ञभागः शतक्रतुरुवाच
बदरीफलमात्रमप्यर्हसि ममाप्यायनाय पुरोडाशखण्डं दातुमित्युक्तो बृहस्पतिरुवाच
यद्येवन्त्वयाहं पूर्वमेव चोदितःस्यां तन्मया त्वदर्थं किमकर्तव्यमत्यिल्पैर् एवाहोभिस्त्वां निजं पदं प्रपयिष्यामीत्यभिधाय तेषामनुदिनमाभिचारकं बुद्धिमोहाय शक्रस्य तेजोभिवृद्धये जुहाव
ते चापि तेन बुद्धिमोहेनाभिभूयमाना ब्रह्मद्विषो धर्मत्यागिनो वेदवादपराङ्मुखाबभुवूः
ततस्तानपेतधर्माचारनिन्द्रो जघान
पुरोहिताप्यायिततेजाश् च शक्रो दिवमाक्रमत्
एतदिन्द्रस्य स्वपदच्यवनादारोहणं श्रुत्वा पुरुषः स्वपदभ्रंशं दौरात्मयं च नाप्नोति
रंभस्त्वपत्त्यो ऽभवत्
क्षत्रवृद्धसुतः प्रतिक्षत्रो ऽभवत्
तत्पुत्रः संजयः तस्यापि जयः तस्यापि विजयः तस्माच्च जज्ञे कृतः
तस्य च हर्यधनः हर्यधनसुतःसहदेवः तस्माददीनस्तस्य जयत्सेय जयत्सेनः ततश् च संकृतिः तत्पुत्रः क्षत्रधर्मा इत्येते क्षत्रवृद्धस्य वंश्याः
ततो नहुषवंशं प्रवक्ष्यामि
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0